प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०४४ श्रीकृष्णजन्मखण्डः
अध्यायः ०४५
वेदव्यासः
अध्यायः ०४६ →


।। श्रीकृष्ण उवाच ।।
अथ वेदविधानेन संस्थाप्य वह्निमीश्वरः ।।
यज्ञं चकार तत्रैव वामे संस्थाप्य पार्वतीम् ।। १ ।।
निवृत्ते विधिवद्यज्ञे विप्राय दक्षिणां ददौ ।।
शिवः शतसुवर्णानि वृंदावनविनोदिनि ।। २ ।।
अथ प्रदीपमानीय शैलेंद्रनगरस्त्रियः ।।
निर्वर्त्य मंगलं कर्म गृहं संप्राप्य दंपती ।। ३ ।।
कृत्वा जयध्वनिं प्रीत्या शुभनिर्मञ्छनादिकम् ।।
सस्मिताः सकटाक्षाश्च पुलकांचितविग्रहाः ।। ४ ।।
वासगेहं संप्रविश्य ददृशुः कामिनीगणाः ।।
शंकरं रूपवेषाढ्यं रत्नभूषणभूषितम् ।। ५ ।।
चन्दनागुरुकस्तूरीकुंकुमांचितविग्रहम् ।।
ईषद्धास्यप्रसन्नास्यं सकटाक्षं मनोहरम् ।। ६ ।।
अपूर्वसूक्ष्मवेषाढ्यं सिंदूरबिंदुभूषितम् ।।
चारुचंपकवर्णाभं सर्वावयवसुंदरम् ।। ७ ।।
नवीनयौवनस्थं च मुनीन्द्रचित्तमोहनम् ।।
सरस्वतीं च लक्ष्मीं च सावित्रीं जाह्नवीं रतिम् ।।८।।
अदितिं च शचीं चैव लोपामुद्रामरुंधतीम् ।।
अहल्यां तुलसीं स्वाहां रोहिणीं च वसुंधराम् ।। ९ ।।
शतरूपां च संज्ञां च सतीस्त्रीणां च षोडश ।।
देवकन्या नागकन्या मुनिकन्या मनोहराः ।।4.45.१०।।
या याः स्थितास्तत्र तासां संख्यां कर्तुं च कः क्षमः ।।
ताभी रत्नासने दत्ते तत्रोवास शिवो मुदा ।।
तमूचुः क्रमशो देव्यो मधुरोक्तिं सुधामिव ।। ११ ।।
सरस्वत्युवाच ।।
प्राप्ता सती महादेवाधुना प्राणधिका मुदा ।।
दृष्ट्वा प्रियास्यं चंद्राभं संतापं त्यज कामुक ।। ।। १२ ।।
कालं गमय कालेश सदा संश्लेषपूर्वकम् ।।
विश्लेषस्ते न भविता सर्वकालं ममाशिषा ।। १३ ।।
लक्ष्मीरुवाच ।।
लज्जां विहाय देवेश सतीं कृत्वा स्ववक्षसि ।।
तिष्ठ संप्रति का लज्जा प्राणा यांति यया विना ।। १४ ।।
सावित्र्युवाच ।।
भोजयित्वा सतीं शंभो शीघ्रं भोजय मा खिदः ।।
तदाचम्य सकर्पूरं तांबूलं देहि भक्तितः ।। १५ ।।
जाह्नव्युवाच ।।
स्वर्णकंकतिकां धृत्वा केशान्मार्जय योषितः ।।
कामिन्याः स्वामिसौभाग्यं सुखं नातः परं भवेत् ।। १६ ।।
रतिरुवाच ।।
गृहीत्वा पार्वतीं देव सुभगामतिदुर्लभाम् ।।
कथं मम प्राणनाथो निःस्वार्थ भस्मसात्कृतः ।। १७ ।।
जीवयसि विभो कामं कामव्यापारमात्मनि ।।
कुरु दूरं च संतापं मम विश्लेषहेतुकम् ।।१८ ।।
दम्पतीविरहक्लेशं सर्वं ज्ञात्वा दयानिधे ।।
तथापि मम कांतश्च कोपेन भस्मसात्कृतः ।। १९ ।।
इत्युक्त्वा कामभस्माथ ददौ सा ग्रन्थिबंधितम् ।।
रुरोद पुरतः शंभोर्नाथनाथेत्युदीर्य च ।। 4.45.२० ।।
हरिस्तद्रोदनं श्रुत्वा करुणामयसागरः ।।
ब्रह्मा धर्मादिदेवाश्च ययुर्वासगृहं शिवम् ।। २१ ।।
दृष्ट्वा नारायणं धर्मं ब्रह्माणं च सुरानपि ।।
जवेन पीठादुत्थाय स्वाज्ञां कुर्वित्युवाच ह ।। २२ ।।
शंकरस्य वचः श्रुत्वा तमुवाच हरिः स्वयम् ।।
कामं जीवय हे रुद्रेत्युक्त्वा शीघ्रं जगाम सः ।। २३ ।।
ऊचुर्देव्यो बहुतरं वाक्यं विनयपूर्वकम्।।
क्रुधा दृष्ट्वा शूलभृतो भस्मतो निर्गतः स्मरः ।। २४ ।।
दृष्ट्वा कामं रतिस्तं च प्रणनाम महेश्वरम् ।।
तद्रूपं च तदाकारं सस्मितं सधनुःशरम् ।। २५ ।।
प्रणम्य शंकरं कामः स्तुतिं कृत्वा यथागमम् ।।
बहिर्गत्वा हरिं देवान्प्रणम्य समुवाच ह ।। २६ ।।
कामं संभाष्य देवाश्च युयुजुश्च तमाशिषम् ।।
काले रक्षा विनाशश्च निषेधः केन वार्यते ।। २७।।
अथ शैलः सुरान्सर्वान्नारायणपुरोगमान् ।।
भोजयामास भक्त्या च शाययामास यत्नतः ।। २८ ।।
अथ शंभुर्वासगृहे वामे संस्थाप्य पार्वतीम् ।।
मिष्टान्नं भोजयामास तया सह मुदान्वितः ।। २९ ।।
भुक्तवंतं शिवं तत्र देवमाताऽदितिः स्वयम् ।।
उवाच सस्मितं राधे संप्रीत्या सरसं वचः ।। 4.45.३० ।।
अदितिरुवाच ।।
भोजनांते शचि शंभोः शौचार्थं जलमर्पय ।।
देहि शीघ्रं मम प्रीत्या दंपत्योः प्रीतिपूर्वकम् ।। ३१ ।।
शच्युवाच ।।
कृत्वा विलापं यद्धेतोः शवं कृत्वा स्ववक्षसि ।।
यो बभ्राम भुवं मोहात्कालेन प्राप तां सतीम् ।। ३२ ।।
अरुंधत्युवाच ।।
मया दत्ता सती तुभ्यं मेना दातुमनीप्सिता ।।
विविधं बोधयित्वेमां रतिं च कर्तुमर्हसि ।। ३३ ।।
अहल्योवाच ।।
वृद्धावस्थां परित्यज्य ह्यतीव तरुणोऽधुना ।।
तेन मेना तु मेने त्वां सुतामर्पितुमीश्वर ।। ३४ ।।
तुलस्युवाच ।।
सती त्वया परित्यक्ता कामो दग्धः पुराकृतः ।।
कथं तदा वसिष्ठश्च प्रभो प्रस्थापितोऽधुना ।। ३५ ।।
स्वाहोवाच ।।
स्थिरो भव महादेव स्त्रीणां वचसि सांप्रतम् ।।
विवाहे व्यवहारोऽस्ति पुरस्त्रीणां प्रगल्भता ।। ३६ ।।
रोहिण्युवाच ।।
कामं पूरय पार्वत्याः कामशास्त्रविशारद ।।
कुरु पारं स्वयं कामी कामिनां कामसागरम् ।। ।। ३७ ।।
वसुंधरोवाच ।।
भोगद्रव्यं विना भोगी न हि तुष्टः क्षुधातुरः ।।
येन तुष्टिर्भवेच्छंभो तत्कर्तुमुचितं स्त्रिया ।। ३८ ।।
संज्ञोवाच ।।
जानासि भावं सर्वज्ञ कामार्तानां च योषिताम् ।।
न च स्वस्वामिनं शंभो सती जानाति संगतम् ।। ३९ ।।
शतरूपोवाच ।।
तूर्णं प्रस्थापय प्रीत्या पार्वत्या सह शंकरम् ।।
रत्नप्रदीपं तांबूलं तल्पं निर्माय निर्जने ।। 4.45.४० ।।
श्रीकृष्ण उवाच ।।
स्त्रीणां तद्वचनं श्रुत्वा ता उवाच शिवः स्वयम् ।।
निर्विकारी च भगवान्योगींद्राणां गुरोर्गुरुः ।। ४१ ।।
शंकर उवाच ।।
देव्यो मा वदतोक्तिं च ह्येवंभूतां ममांतिके ।।
जगतां मातरः साध्व्यः पुत्रे चपलता कथम् ।।४२।।
शंकरस्य वचः श्रुत्वा लज्जिताः सुरयोषितः ।।
बभूवुः संभ्रमात्तूष्णीं चित्रपुत्तलिका यथा ।। ४३ ।।
भुक्त्वा मिष्टानि भगवानाचम्य च मुदाऽन्वितः ।।
सकर्पूरं च तांबूलं बुभुजे भार्यया सह ।। ४४ ।।
रत्नसिंहासने शंभुर्मेनादत्ते मनोहरे ।।
सन्निधाय मुदायुक्तो ददर्श वासमंदिरम् ।। ४५
रत्नप्रदीपशतकैर्ज्वलद्भि र्ज्वलितं श्रिया ।।
रत्नपात्रघटाकीर्णं मुक्तामाणिक्यभूषितम् ।। ४६ ।।
रत्नदर्पणशोभाढ्यं मंडितं श्वेतचामरैः ।।
चंदनागुरुसंयुक्तं पुष्पशय्यासमन्वितम् ।। ४७ ।।
नानाचित्रविचित्राढयं निर्मितं विश्वकर्मणा ।।
रत्नसारेण खचितं रचितं हीरकैर्वरैः ।। ४८ ।।
कुत्रचित्सुरनिर्माणवैकुंठसुमनोहरम् ।।
वृंदावनं कुंजवनं कुत्रचिद्रासमंडलम् ।। ४९ ।।
कैलासं च कुत्रचन कुत्रचिदिंद्रमंदिरम् ।।
दृष्ट्वाश्चर्यं महादेवः परितुष्टो बभूव ह ।। 4.45.५० ।।
अथ प्रभातकालश्च बभूव प्राणवल्लभे ।।
नानाप्रकारवाद्यानि वादयांचक्रिरे जनाः ।। ५१ ।।
सर्वे सुराः समुत्तस्थुः सज्जीभूताः ससंभ्रमाः ।।
स्ववाहनान्समारुह्य कैलासं गन्तुमुद्यताः ।।५२।।
वासगेहं समागत्य धर्मो नारायणाज्ञया ।।
उवाच शंकरं योगी योगीशं समयोचितम् ।। ५३ ।।
धर्म उवाच ।।
उत्तिष्ठोत्तिष्ठ भद्रं ते भवतु प्रमथाधिप ।।
पार्वत्या सह माहेंद्रे यात्रां कुरु हरिं स्मरन् ।। ५४ ।।
इत्थं धर्मवचः श्रुत्वा पार्वत्या सह शंकरः ।।
यात्रां चकार माहेंद्रे वृंदावनविनोदिनि ।। ५५ ।।
यात्रां कुर्वति देवेशे पार्वत्या सह शंकरे ।।
उच्चै रुदित्वा सा मेना तमुवाच कृपानिधिम् ।। ५६ ।।
मेनोवाच ।।
कृपानिधे कृपां कृत्वा मद्वत्सां पालयिष्यसि ।।
सहस्रदोषान्भगवानाशुतोषः क्षमिष्यसि ।। ५७ ।।
त्वत्पदांबुजभक्तैषा मद्वत्सा जन्म जन्मनि ।।
स्वप्ने ज्ञाने स्मृतिर्नास्ति महादेवप्रभुं विना ।। ५८ ।।
त्वद्भक्तिश्रुतिमात्रेण हर्षाश्रुपुलकान्विता ।।
त्वन्निंदया भवेन्मौना मृत्युंजय मृता इव ।। ५९ ।।
इत्युक्ता मेनका शीघ्रं तत्रागत्य हिमालयः ।।
उच्चै रुरोद च तदा वत्सां कृत्वा स्ववक्षसि ।। 4.45.६० ।।
क्व यासि वत्सेत्युच्चार्य शून्यं कृत्वा हिमालयम् ।।
स्मारंस्मारं तद्गणौघं विदार्य मन्मनः स्फुटम् ।। ६१ ।।
इत्येवमुक्त्वा शैलेन्द्रः समर्प्य च शिवां शिवे ।।
स शैलः सहपुत्रश्च रुरोदोच्चैर्मुहुर्मुहुः ।। ६२ ।।
नारायणश्च भगवानध्यात्मविद्यया स्वयम् ।।
सर्वान्प्रबोधयामास कृपया स कृपानिधिः ।। ६३ ।।
ननाम पार्वती भक्त्या मातरं पितरं गुरुम् ।।
मायया च महामाया रुरोदोच्चैर्मुर्हुमुहुः ।। ६४ ।।
पार्वतीरोदनेनैव रुरुदुः सर्वयोषितः ।।
मुनयश्च सुराः सर्वे सस्त्रीकाः सगणं ध्रुवम् ।। ६५ ।।
शीघ्रं ययुस्ते कैलासं देवा मानसशायिनः ।।
मुहूर्तार्द्धेन मुदिताः संप्रापुः शंकरालयम् ।। ६६ ।।
दृष्ट्वा गतं देवपत्न्यो मुनिपत्न्यश्च सत्वरम् ।।
आययुर्दीपमानीय मुदा मङ्गलकर्मणि ।। ६७
वायुपत्नी कुबेरस्य कामिनी शुक्रकामिनी ।।
तारा सुरगुरोः पत्नी पत्नी दुर्वाससस्तथा ।। ६८ ।।
अत्रिभार्यानुसूया च चंद्रपत्न्यस्तथैव च ।।
देवकन्या नागकन्या मुनिकन्याः सहस्रशः ।। ६९ ।।
असंख्यकामिनीसंघः संख्यां कर्तुं च कः क्षमः ।।
ताश्च प्रवेशयामासुर्दंपतीवासमंदिरम् ।। 4.45.७०।।
रत्नसिंहासने रम्ये वासयामासुरीश्वरीम् ।।
सतीं तां दर्शयामास शिवः पूर्वालयं मुदा ।। ७१ ।।
सति स्मरस्यतो गेहाद्यद्गता तातमंदिरम् ।।
अधुना शैलकन्या त्वं तत्र दक्षसुता पुरा ।। ७२ ।।
जातिस्मरां स्मारयामि नित्यं स्मरसि चेद्वद ।।
शंकरस्य वचः श्रुत्वा सस्मितोवाच सा सती ।। ७३ ।।
सर्वं स्मरामि प्राणेश मौनीभूतो भवेति तम् ।।
शिवः संभृतसंभारो नानावस्तुमनोहरम् ।। ७४ ।।
भोजयामास देवांश्च नारायणपुरोगमान् ।।
भुक्त्वा देवाः प्रजग्मुस्ते नानारत्नविभूषिताः।।७५।।
सस्त्रीका सगणाः सर्वे प्रणम्य चन्द्रशेखरम् ।।
नारायणं च ब्रह्माणं ननाम शंकरः स्वयम् ।।७६।।
तौ च तं च समाश्लिष्याशिषं कृत्वा प्रजग्मतुः ।।
अथ शैलश्च मेना च मैनाकमाजुहाव ह ।। ७७ ।।
शीघ्रमानय भद्रं ते पार्वतीं शंकरं सुत ।।
तयोः स वचनं श्रुत्वा शीघ्रं गत्वा शिवालयम् ।।७८।।
आजगाम समानीय पार्वतीपरमेश्वरौ ।।
पार्वत्यागमनं श्रुत्वा बालाश्च बालिकास्तथा ।।७९।।
वृद्धा युवत्यो या याश्च शैलाश्च दुद्रुवुर्मुदा ।।
मेना सुताभ्यां वध्वा च सह दुद्राव सस्मिता ।। 4.45.८० ।।
हिमालयश्च मुदितो दुद्रावानुव्रजन्सुताम् ।।
अवरुह्य रथाद्देवी मातरं पितरं गुरुम् ।।८१।।
प्रणनाम प्रमुदिता निमग्नाऽऽनन्दसागरे ।।
पार्वतीं च समाश्लिष्य मेनका हर्षविह्वला ।। ८२ ।।
हिमालयश्च मुदितो गताः प्राणा इवागताः ।।
सुतां निधाय गेहे स्वे रत्नसिंहासनं ददौ ।।८३।।
शूलभृते गणेभ्यश्च मधुपर्कादिकं मुदा ।।
तस्थौ श्वशुरगेहे च सगणश्चन्द्रशेखरः ।।८४।।
नित्यं षोडशोपचारैः पूजितः सह भार्यया ।।
इत्येवं कथितं राधे शंकरोद्वाहमङ्गलम् ।।
शोकजं हर्षजनकं किं भूयः श्रोतुमिच्छसि ।। ८५ ।।
।। इति श्रीब्रह्मवैवर्त्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे शंकरविवाहो नाम पञ्चचत्वारिंशोऽध्यायः ।। ।। ४५ ।।