प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०५० श्रीकृष्णजन्मखण्डः
अध्यायः ०५१
वेदव्यासः
अध्यायः ०५२ →

श्रीकृष्ण उवाच ।।
नारायणांशो भगवान्स्वयं धन्वन्तरिर्महान् ।।
पुरा समुद्रमथने समुत्तस्थौ महोदधेः ।। १।।
सर्ववेदेषु निष्णातो मंत्रतन्त्रविशारदः ।।
शिष्यो हि वैनतेयस्य शङ्करस्योपशिष्यकः ।। ।। २ ।।
शिष्याणां च सहस्रेण गतः कैलासमीश्वरि ।।
ददर्श तक्षकं मार्गे लेलिहानं भयानकम् ।। ३ ।।
लक्षनागैः परिवृतं शूलतुल्यं विषोल्बणम् ।।
भोक्तुं कोपात्समायांतमेवं दृष्ट्वा जहास च ।। ४ ।।
दम्भी धन्वन्तरेः शिष्यो धृत्वा तक्षकमुल्बणम् ।।
मंत्रेण जृंभितं कृत्वा निर्विषं तं चकार ह ।। ५ ।।
अमूल्यं मणिरत्नं च जहार मस्तके स्थितम् ।।
करेण भ्रामयित्वा च प्रेरयामास दूरतः।। ।। ६ ।।
निश्चेष्टस्तक्षकस्तस्थौ तत्र मार्गे यथा मृतः ।।
गणा निवेदनं चकुर्गत्वा वासुकिसन्निधिम् ।।७।।
वासुकिस्तत्समाकर्ण्य प्रज्वलन्नतिकोपतः ।।
सर्पान्प्रस्थापयामासासंख्यांश्चैव विषोल्बणान् ।। ८ ।।
सर्पसेनाग्रणीनां च मुख्यान्पञ्च विशारदान् ।।
द्रोणकालीयकर्कोटपुण्डरीकधनंजयान् ।। ९ ।।
सर्वे नागाः समाजग्मुर्यत्र धन्वन्तरिः स्वयम् ।।
भयमापुः शिष्यगणा दृष्ट्वा नागानसंख्यकान् ।। 4.51.१० ।।
नागनिश्वासवातेन सर्वे शिष्या मृता इव।।
निश्चेष्टा ज्ञानरहिताः शेरते धरणीतले ।। ११ ।।
धन्वन्तरिश्च भगवान्पीयूषवर्षणेन च ।।
जीवयामास शिष्यांश्च मंत्रेण च गुरुं स्मरन्।। १२ ।।
चेतनां कारयित्वा च शिष्याणां च जगद्गुरुः ।।
चकार जृंभितं मन्त्रैः सर्पसंघं विषोल्बणम् ।। १३ ।।
सर्वे बभूवुर्निश्चेष्टा जृंभितास्ते मृता इव ।।
कोऽपि नालं ततो देवि वार्तां दातुं गणेषु च ।। १४ ।।
वासुकिर्बुबुधे सर्वं सर्वज्ञः सर्वसंकटम् ।।
आजुहाव जगद्गौरीं भगिनीं ज्ञानरूपिणीम् ।। १५ ।।
वासुकिरुवाच ।।
मनसे त्वं समागच्छ नागान्रक्षातिसङ्कटात् ।।
जगत्त्रये महाभागे पूजा तव भविष्यति।। १६ ।।
वासुकेर्वचनं श्रुत्वा प्रहस्योवाच कन्यका ।।
वाक्यपीयूषतुल्यं च विनयावनतस्थिता ।। १७ ।।
मनसोवाच ।।
नागेन्द्र शृणु मद्वाक्यं यास्यामि समरं प्रति ।।
भद्राभद्रं दैवसाध्यं करिष्यामि यथोचितम् ।। १८ ।।
तं शत्रुं संहरिष्यामि लीलया समरस्थले ।।
अहं यं निहनिष्यामि तं को रक्षितुमीश्वरः ।। १९ ।।
यदि ब्रह्मादयो देवाः समायान्ति रणस्थले ।।
तथापि तव शत्रुं च प्रजेष्यामि न संशयः।।4.51.२०।।
गुरुर्मे भगवाञ्छेषः सिद्धमन्त्रं च दत्तवान् ।।
नारायणस्य जगतामीशस्य परमाद्भुतम् ।। २१ ।।
बिभर्मि कवचं कण्ठे परं त्रैलोक्यमङ्गलम् ।।
संसारं भस्मसात्कृत्वा पुनः स्रष्टुमहं क्षमा ।। २२।।
शिष्याऽहं मंत्रशास्त्रेषु शंभोर्भगवतः पुरा ।।
महाज्ञानं दत्तवान्स मह्यं च कृपया विभुः ।। २३ ।।
शंभोश्च शिष्यो गरुडो गणयामि न तं ध्रुवम् ।।
धन्वंतरिस्तच्छिष्याणामेकः किं गणयामि तम् ।। २४ ।।
इत्युक्त्वा सा जगामैका त्यक्त्वा नागगणान्रुषा ।।
प्रणम्य श्रीहरिं शंभुं शेषं च हृष्टमानसा ।। २५ ।।
यत्र धन्वन्तरिर्देवः प्रसन्नवदनेक्षणः ।।
तत्राजगाम सा देवी कोपरक्तेक्षणा रुषा ।। २६।।
दृष्टिमात्रेण सर्वाश्च जीवयामास सुन्दरी ।।
विषदृष्ट्या शत्रुशिष्यान्निश्चेष्टांश्च चकार ह ।। २७ ।।
धन्वन्तरिस्तु भगवान्मन्त्रशास्त्रविशारदः ।।
मन्त्रेण यत्नं कृतवान्नोत्थापयितुमीश्वरः ।।२८।।
दृष्ट्वा धन्वंतरिं देवी प्रहस्योवाच सत्वरम् ।।
बहूक्तिमर्थयुक्तां च साहंकारा सुरेश्वरि ।। २९ ।।
मनसोवाच ।।
मन्त्रार्थं मन्त्रशिल्पं च मन्त्रभेदं महौषधम् ।।
वद जानासि किं सिद्ध शिष्योऽसि गरुडस्य च ।। 4.51.३० ।।
अहं च वैनतेयश्च शिष्यौ शंभोश्च विश्रुतौ ।।
सुकल्पकालं सुचिरमहं धन्वन्तरे शृणु ।। ३१ ।।
इत्युक्त्वा सरसः पद्मं समानीय जगत्प्रसूः ।।
मन्त्रसंवलितं कृत्वा प्रेरयामास कोपतः ।। ३२ ।।
दृष्ट्वाऽऽगतं पद्मपुष्पं ज्वलदग्निशिखोपमम् ।।
(धन्वतरिश्च निःश्वासैर्भस्मसात्तच्चकार ह) ।।३३ ।।
तच्च धन्वतरिर्दृष्ट्वा समंत्ररेणुमुष्टिना ।।
चकार निष्कलं भस्म तां प्रहस्यावलीलया ।। ३४ ।।
देवी जग्राह शक्तिं च ग्रीष्मसूर्यसमप्रभाम् ।।
मंत्रसंवलितां कृत्वा प्रेरयामास तं रिपुम् ।। ३५ ।।
दृष्ट्वा जाज्वल्यमानां तां शक्तिं धन्वतरिः स्वयम् ।।
विष्णुदत्तेन शूलेन स तु चिच्छेद लीलया ।। ३६ ।।
तां च शक्तिं वृथा दृष्ट्वा प्रजज्वालेश्वरी रुषा ।।
जग्राह नागपाशं च घोरमव्यर्थमुल्बणम् ।। ३७ ।।
नागलक्षसमायुक्तं सिद्धमन्त्रेण मन्त्रितम् ।।
प्रेरयामास कोपेन कालान्तकसमप्रभम् ।।३८।।
धन्वतरिर्नागपाशं दृष्ट्वा च सस्मितो मुदा ।।
सस्मार गरुडं तूर्णमाजगाम खगेश्वरः ।। ३९ ।।
सर्पास्त्रमागतं दृष्ट्वा गरुडो हरिवाहनः ।।
विधाय चञ्चुना शीघ्रं बुभुजे क्षुधितश्चिरम् ।। 4.51.४० ।।
नागास्त्रं निष्फलं दृष्ट्वा कोपरक्तेक्षणा भृशम् ।।
जग्राह भस्ममुष्टिं च शिवदत्तां पुरा प्रिये ।। ४१ ।।
भस्ममुष्टिं मन्त्रपूतां दृष्ट्वा च प्रेरितां यथा ।।
पक्षवातेन चिक्षेप शिष्यं पश्चान्निधाय च ।। ४२ ।।
निरस्तां भस्ममुष्टिं च दृष्ट्वा देवी चुकोप ह ।।
जग्राह शूलमव्यर्थं हन्तुं धन्वन्तरिं स्वयम् ।। ४३ ।।
शिवदत्तं च शूलं च शतसूर्यसमप्रभम् ।।
अव्यर्थशूलं लोकेषु प्रलयाग्निसमप्रभम् ।। ४४ ।।
अथ ब्रह्मा तथा शंभुराजगाम रणाजिरम् ।।
धन्वंतरेश्च रक्षार्थं शमनार्थं खगस्य च ।।४५।।
दृष्ट्वा शंभुं जगद्गौरी विधिं च जगतां पतिम् ।।
भक्त्या ननाम तावेव निःशङ्का शूलधारिणी ।। ४६ ।।
धन्वन्तरिश्च गरुडः प्रणनाम सुरेश्वरौ ।।
तुष्टाव परया भक्त्या तौ च चक्रतुराशिषम् ।। ४७ ।।
उवाच ब्रह्मा मधुरं हितं धन्वतरिं मुदा ।।
पूजार्थं मनसायाश्च लोकानां हितकाम्यया ।। ।। ४८ ।।
ब्रह्मोवाच ।।
धन्वंतरे महाभाग सर्वशास्त्रविशारद ।।
रणं ते मनसा सार्द्धं न हि साम्यं च मे मतम् ।। ४९ ।।
शिवदत्तेन शूलेन दुर्निवार्येण सर्वतः ।।
त्रैलोक्यं भस्मसात्कर्तुं क्षमेयं त्रिदशेश्वरी ।। 4.51.५० ।।
ध्याने कौथुमशाखोक्तं कृत्वा भक्त्या समाहितः ।।
दत्त्वा षोडशोपचारं देव्याश्च कुरु पूजनम् ।। ५१ ।।
आस्तिकोक्तेन स्तोत्रेण स्तवनं कर्तुमर्हसि ।।
परितुष्टा च मनसा वरं तुभ्यं प्रदास्यति ।। ५२ ।।
ब्रह्मणो वचनं श्रुत्वा चकारानुमतिं शिवः ।।
वैनतेयश्च संप्रीत्या बोधयामास यत्नतः ।। ५३ ।।
एषां च वचनं श्रुत्वा स्नात्वा शुचिरलंकृतः ।।
विधिं पुरोहितं कृत्वा पूजां कर्तुं समुद्यतः ।। ५४ ।।
धन्वन्तरिरुवाच ।।
इहागच्छ जगद्गौरि गृहाण मम पूजनम्।।
पूज्या त्वं त्रिषु लोकेषु पुरा कश्यपकन्यके ।। ५५ ।।
त्वया जितं जगत्सर्वं देवि विष्णुस्वरूपया ।।
तेन तेऽस्त्रप्रयोगश्च न कृतो रणभूमिषु ।। ५६ ।।
इत्युक्त्या संयतो भूत्वा भक्तिनम्रात्मकंधरः ।।
गृहीत्वा शुक्लकुसुमं ध्यानं कर्तुं समुद्यतः ।। ५७ ।।
चारुचम्पकवर्णाभां सर्वाङ्गसुमनोहराम् ।।
ईषद्धास्यप्रसन्नास्यां शोभितां सूक्ष्मवाससा ।।५८।।
सुचारुकबरीशोभां रत्नाभरणभूषिताम् ।।
सर्वाभयप्रदां देवीं भक्तानुग्रहकातराम्।।५९।।
सर्वविद्याप्रदां शान्तां सर्वविद्याविशारदाम् ।।
नागेन्द्रवाहिनीं देवीं भजे नागेश्वरीं पराम् ।। 4.51.६० ।।
ध्यात्वैवं कुसुमं दत्त्वा नानाद्रव्यसमन्वितम् ।।
दत्त्वा षोडशोपचारं पूजयामास तां प्रिये ।। ६१ ।।
स्तोत्रं चकार यत्नाच्च पुलकाञ्चितविग्रहः ।।
पुटाञ्जलियुतो भूत्वा भक्तिनम्रात्मकंधरः ।। ६२ ।।
धन्वतरिरुवाच ।।
नमः सिद्धिस्वरूपायै सिद्धिदायै नमो नमः ।।
नमः कश्यपकन्यायै वरदायै नमो नमः ।। ६३ ।।
नमः शंकरकन्यायै शंकरायै नमो नमः ।।
नमस्ते नागवाहिन्यै नागेश्वर्यै नमो नमः ।। ६४ ।।
नम आस्तीकजननि जनन्यै जगतां मम ।।
नमो जगत्कारणायै जरत्कारुस्त्रियै नमः ।। ६९ ।।
नमो नागभगिन्यै च योगिन्यै च नमो नमः ।।
नमश्चिरं तपस्विन्यै सुखदायै नमो नमः ।। ६६ ।।
नमस्तपस्यारूपायै फलदायै नमो नमः ।।
सुशीलायै च साध्व्यै च शान्तायै च नमो नमः ।। ६७ ।।
इत्येवमुक्त्वा भक्त्या च प्रणनाम प्रयत्नतः ।।
तुष्टा देवी वरं दत्त्वा सत्वरं स्वालयं ययौ ।। ६८ ।।
ब्रह्मरुद्रवैनतेयाः समाजग्मुर्निजालयम् ।।
धन्वंतरिश्च भगवाञ्जगाम निजमन्दिरम् ।। ६९ ।।
जग्मुर्नागाः प्रहृष्टाश्च फणाराजिविराजिताः ।।
इत्येवं कथितं सर्वं स्तवराजं मया तव ।। 4.51.७० ।।
विधिना मातरं भक्तिमास्तीकश्च चकार ह ।।
तदा तुष्टा जगद्गौरी पुत्रं तं मुनिपुंगवम् ।। ७१ ।।
इदं स्तोत्रं महापुण्यं भक्तियुक्तश्च यः पठेत् ।।
वंशजानां नागभयं नास्ति तस्य न संशयः ।। ७२ ।।
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे धन्वन्तरिदर्पभंगमनसाविजयो नामैकपञ्चाशत्तमोऽध्यायः ।। ५१ ।।