ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०५२

← अध्यायः ०५१ श्रीकृष्णजन्मखण्डः
अध्यायः ०५२
वेदव्यासः
अध्यायः ०५३ →

।। श्रीकृष्ण उवाच ।।
सर्वेषां दर्पभङ्गश्च कथितश्च श्रुतस्त्वया ।।
क्षुद्राणां महतां चैव कृत एव न संशयः ।।१ ।।
अधुना च समुत्तिष्ठ गच्छ वृन्दावनं वनम् ।।
गोपिका विरहार्ताश्च शीघ्रं पश्यामि सुन्दरि ।।२ ।।
श्रीनारायण उवाच ।।
इत्येवं वचनं श्रुत्वा मानिनी रसिकेश्वरी ।।
उवाच कृष्णं नय मां न शक्ता गंतुमीश्वर ।। ३ ।।
राधिका वचनं श्रुत्वा प्रहस्य मधुसूदनः ।।
मामारुहेत्येवमुक्त्वा सोऽन्तर्धानं चकार ह ।।४।।
सा मनोयायिनी राधा कृत्वा च रोदनं क्षणम्।।
इतस्ततस्तमन्वेष्य वृन्दारण्यं जगाम सा ।।९।।
विवेश चन्दनवनं रुदन्ती शोककातरा ।।
ददर्श गोपिकास्तत्र शोकार्ता भयविह्वलाः।। ।।६।।
ताम्रास्या पूर्णनयना भ्रमन्ती सर्वकाननम् ।।
नाथ नाथेति कुर्वन्तीर्निराहारा रुषाऽन्विताः ।। ७ ।।
ता दृष्ट्वा राधिका सा च प्रेमविच्छेदकातरा ।।
कथयामास वृत्तान्तं मलयभ्रमणादिकम्।। ८ ।।
ताभिः सार्धं च सा राधा रुरोद विरहातुरा ।।
हा नाथनाथेत्युच्चार्य विलप्य च मुहुर्मुहुः ।। ९ ।।
विनिन्द्य कृष्णं कोपेन तर्जयामास च क्षणम् ।।
क्षणं शरीरमुत्स्रष्टुं कोपात्सर्वाः समुद्यताः ।। ।। 4.52.१० ।।
एतस्मिन्नंतरे कृष्णस्तत्र चन्दनकानने ।।
स्वात्मानं दर्शयामास राधिकां गोपिकागणम् ।। ११ ।।
राधा गोपाङ्गनाभिश्च दृष्ट्वा प्राणेश्वरं मुदा ।।
सस्मिता च प्रदुद्राव पुलकाञ्चितविग्रहा ।।१२।।
तूर्णं कृष्णं समाश्लिष्य जहार मुरलीं रुषा ।।
मालां च पीतवसनं भग्नं कृत्वा च मानिनी ।। १३ ।।
पुनः संधारयामास वस्त्रं मालां मनोहराम् ।।
विनोदमुरलीं तुष्टा वृन्दावनविनोदिनी ।। १४।।
चन्दनागुरुकस्तूरीकुङ्कुमाक्तं चकार तम् ।।
मुहुर्मुहुर्मुखं वीक्ष्य चुचुम्ब परमादरम् ।।१ ५।।
क्षणं संतर्जयामास क्षणं स्तोत्रं चकार ह।।
सकर्पूरं च ताम्बूलं क्षणं तस्मै मुदा ददौ ।। १६ ।।
अथ गोपाङ्गनाः सर्वा रुरुदुः प्रेमविह्वलाः ।।
सर्वं निवेदनं चक्रुः स्वदुःखं विरहोद्भवम् ।।१७।।
देहत्यागं च स्नानं च स्वाहारस्य विसर्जनम् ।।
वनेवनेऽहर्निशं च शश्वद्भ्रमणमेव च।।१८।।
क्षणं तं भर्त्सयामासुः स्तोत्रं चक्रुः क्षणं मुदा।।
क्षणं ददुर्भूषणं च क्षणं तस्मै च चन्दनम् ।।१९।।
काश्चिदूचुः प्राणचोरं पश्य रक्षेति संततम् ।।
एवं पुनर्न कर्त्तव्य मनेनेति च काश्चन ।। 4.52.२० ।।
काश्चिदूचुरिमं मध्ये यूयं कुरुत सत्वरम् ।।
निबद्धं प्रेमपाशेन हृदये चेति काश्चन ।। २१ ।।
काश्चिदूचुरयं नास्ति प्रतीतिर्न कदाचन।।
यत्नाच्चेतनचोरं च पश्य पश्येति काश्चन ।।२२।।
काश्चिदूचुर्निष्ठुरोऽयं नरघातीति कोपतः।।
न पुनर्वदते मां च काश्चनेति च नारद ।।२३।।
निर्जनानि च रम्याणि यानि यानि वनानि च ।।
भ्रमेयुर्गोपिकास्तानि कृष्णेन सह कौतुकात् ।। २४ ।।
एवं तं गोपिकाः सर्वा मध्ये कृत्वा सदीश्वरम् ।।
ययुर्वनान्तरे यत्र सुरम्यं रासमण्डलम्।।२९।।
रासं गत्वा स्वर्णपीठे तस्थौ स रसिकेश्वरः ।।
निशि भाति यथाऽऽकाशे चन्द्रस्तारागणैः सह ।।२६।।
नानामूर्तीर्विधायात्र सह ताभिर्जनार्दनः ।।
चकार च पुनः क्रीडां कामुकीनां मनोहराम् ।। २७ ।।
स्वयं राधां करे धृत्वा पूर्वोक्तं रतिमन्दिरम् ।।
विश्वकर्मविनिर्माणमारुरोह स्मरातुरः।।२८।।
चन्दनागुरुकस्तूरीकुङ्कुमाक्तं सुवासितम् ।।
तत्र चम्पकतल्पे स सुष्वाप च तया सह ।। २९ ।।
नानाप्रकारशृङ्गारं कामशास्त्रविशारदः ।।
चकार कामी क्रीडां च कामिन्या सह कौतुकी ।।4.52.३०।।
बभूव सुरतिस्तत्र सुचिरं च तयोर्मुने ।।
रतिनिष्ठा तयो रम्या विरतिर्नास्ति तत्क्षणम् ।। ३१ ।।
एवं तौ तस्थतुस्तत्र राधाकृष्णौ रसोत्सुकौ ।।
तस्थुस्ता गोपिकाभिश्च सुरतौ कृष्णमूर्तयः ।। ३२ ।।
नारद उवाच ।।
आदौ राधां समुच्चार्य पश्चात्कृष्णं विदुर्बुधाः ।।
निमित्तमस्य मां भक्तं वद भक्तजनप्रिय ।।३३ ।।
श्रीनारायण उवाच ।।
निमित्तमस्य त्रिविधं कथयामि निशामय ।।
जगन्माता च प्रकृतिः पुरुषश्च जगत्पिता ।। ३४ ।।
गरीयसी त्रिजगतां माता शतगुणैः पितुः ।।
राधाकृष्णेति गौरीशेत्येवं शब्दः श्रुतौ श्रुतः ।। ३५ ।।
कृष्णराधेशगौरीति लोके न च कदा श्रुतः ।।
प्रसीद रोहिणीचन्द्र गृहाणार्घ्यमिदं मम ।। ३६ ।
गृहाणार्घ्यं मया दत्तं संज्ञया सह भास्कर ।।
प्रसीद कमलाकान्त गृहाण मम पूजनम् ।। ३७ ।।
इति दृष्टं सामवेदे कौथुमे मुनिसत्तम ।।
राशब्दोच्चारणादेव स्फीतो भवति माधवः ।। ३८ ।।
धाशब्दोच्चारतः पश्चाद्धावत्येव ससंभ्रमः ।।
आदौ पुरुषमुच्चार्य पश्चात्प्रकृतिमुच्चरेत् ।। ३९ ।।
स भवेन्मातृघाती च वेदातिक्रमणे मुने ।।
त्रैलोक्ये भारतं धन्यं कर्मक्षेत्रं च पुण्यदम् ।। 4.52.४० ।।
ततो वृन्दावनं पुण्यं राधापादाब्जरेणुना ।।
षष्टिवर्षसहस्राणि तपस्तप्तं च वेधसा ।।
राधिका चरणाम्भोजपादरेणूपलब्धये ।। ४१ ।।
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे राधामाधवयो रासवर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः ।। ५२ ।।