प्रमुखा विकल्पसूचिः उद्घाट्यताम्

ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०६९

← अध्यायः ६८ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः ६९
[[लेखकः :|]]
अध्यायः ७० →

अथैकोनसप्ततितमोऽध्यायः
नारद उवाच
अतः परं किं रहस्यं राधाकेशवयोर्वद ।
निगूढतत्वामस्पष्टं तन्मे व्याख्यातुमर्हसि ।। १ ।।

नारायण उवाच
शृणु नारद वक्ष्यामि रहस्यं परमाद्भुतम् ।
गोपनीयं च वेदेषु पुराणेषु पुराविदाम् ।। २ ।।

पुनः सकामो भगवान्कृष्णः स्वेच्छामयो विभुः ।
रेमे स रमया सार्धं विदग्धश्च विदग्धया ।। ३ ।।

चतुःषष्टिकलाशक्त्या यथा कान्ता कलावती ।
कामशास्त्रेषु निपुणा विदग्धा रसिकेश्वरी ।। ४ ।।

शृङ्गारलीलानिपुणा शश्वत्कामा च कामुकी ।
सुन्दरी सुन्दरीष्वेव शश्वत्सुस्थिरयौवना ।। ५ ।।

पितणां मानसी कन्या धन्या मान्या च मानिनी ।
शंभोः शिष्या ज्ञानयुता शतकल्पान्तजीविनी ।। ६ ।।

वेदवेदाङ्गनिपुणा योगनीतिविशारदा ।
नानारूपधरा साध्वी प्रसिद्धा सिद्धयोगिनी ।। ७ ।।

तत्कन्या राधिका देवी मातृतुल्या च कामुकी ।
चकार नानाभावं सा सुशीला स्वामिनं प्रति ।। ८ ।।

चतुःषष्टिकलामानं श्रृङ्गारं च चकार सः ।
त्या विशिष्टया साकं रासे रामरसोत्सुकः ।। ९ ।।

तां नखाग्रक्षतश्रोणीं नखक्षतपयोधराम् ।
लुप्तचन्दनसिंदूरां कबरीशिथिलां सतीम् ।। १० ।।

सुखसंभोगमग्नां च नग्नां च शोकमूर्च्छिताम् ।
पुलकाञ्चितसर्पाङ्गीं निद्रादेवी समाययौ ।। ११ ।।

दृष्ट्वा तां निद्रितां कृष्णःकृपया च कृपानिधिः ।
रुरोद मायया मायी मयेशो लोकशिक्षया ।। १२ ।।

कृत्वा वक्षसि राधां च चुचुम्ब च पुनः पुनः ।
स्नातां च नेत्रसलिलैः प्राणाधिष्ठातृदेवताम् ।। १३ ।।

प्राणाधिकां प्रियतमां धारयामास वाससी ।
वह्निशुद्धेऽतिसूक्ष्मे चामूल्ये विश्वमुदुर्लभे ।। १४ ।।

कबरीं च ददौ कुङ्कुमचन्दनम् ।
तद्गात्रे च गले हारममूल्यं रत्ननिर्मितम् ।। १५ ।।

सिन्दूरं च ददौ तस्याः सीमन्ताधःस्थलेऽमले ।
दाडिमीकुसुमाकारं युक्तं चन्दनबिन्दुभि ।। १६ ।।

चकार पद्मकं गण्डे नानाचित्रविचित्रकम् ।
ददौ तत्पादपद्मे च रत्नमञ्जीररञ्जितम् ।। १७ ।।

पादाङ्गुलिनखागे च सुन्दरालक्तकं ददौ ।
नानासुवेषोज्ज्वलितां तां निद्राकुलितां विभुः ।। १८ ।।

पुनश्चकार मोहेन गाढालिङ्गनमीप्सितम् ।
पुनश्च चुम्बनं कृत्वा निवेश्य च स्ववक्षसि ।। १९ ।।

सुष्वाप जगतां स्वामी कान्ताविरहकातरः ।
एतस्मिन्नन्तरे काने ब्रह्मा लोकपितामहः ।। २० ।।

शिवशेषादिभिर्देवैर्मुनीन्द्रैः सार्धमाययौ ।
आगत्य नत्वा सिरसा तुष्टाव संपुटाञ्जलिः ।। २१ ।।

सामवेदोक्तस्तोत्रेण परिपूर्णतमं विभुम् ।। २२ ।।

ब्रह्मोवाच
जय जय जगदीश वन्दितचरण निर्गुण निराकार स्वेच्छामय भक्तानुग्रह नित्यविग्रह ।। २३ ।।

गोपवेष मायया मायेश सुवेष सुशील शान्त सर्वकान्त दान्त नितान्तज्ञानानन्द परात्परतर प्रकृतेः पर सर्वान्तरात्मरूप निर्लिप्त साक्षिस्वरूप व्यक्ताव्यक्त निरञ्जन भारावतारण करुणार्णव शोकसेतापग्रसन जरामृत्युभयादिहरण शरणपञ्जर भक्तानुग्रहकारक भक्तवत्सल भक्तसंचितधन ओं नमोऽस्तु ते ।। २४ ।।

सर्पाधिष्ठातृदेवायेत्युक्त्वा वै प्रीणनाय च ।
पुनःपुनःरुवाचेदं मूर्च्छितश्च बभूव ह ।। २५ ।।

इति ब्रह्मकृतं स्तोत्रं यः शृणोति समाहितः ।
तत्सर्पाभीष्टसिद्धिश्च भवत्येव न संशयः ।। २६ ।।

अपुत्रो लभते पुत्रं प्रियाहीनो लभेत्प्रियाम् ।
निर्धनो लभते सत्यं परिपूर्णतमं धनम् ।। २७ ।।

इह लोके सुखं भुक्त्वा चान्ते दास्यं लभेद्धरेः ।
अचलां भक्तिमाप्नोति मुक्तेरपि सुदुर्लभाम् ।। २८ ।।

स्तुत्वा च जगतां धाता प्रणम्य च पुनः पुनः ।
शनैः शनैः समुत्थाय भक्त्या पुनरुवाच ह ।। २९ ।।

ब्रह्मोवाच
उत्तिष्ठ देवदेवेश परमानन्दकारण ।
नन्दनन्दन सानन्द नित्यानन्द नमोऽस्तु ते ।। ३० ।।

व्रज नन्दालयं नाथ त्यज वृन्दावनं वनम् ।
स्मर सृदामशापं च शतवर्षनिबन्धनम् ।। ३१ ।।

भक्तशापानृरोधेन शतवर्ष प्रियां त्यज ।
पुनरेनां च संप्राप्य गोलोकं च गमिष्यसि ।। ३२ ।।

गत्वा पितृगृहं देव पश्याकूरं समागतम् ।
पितृव्यमतिथिं मान्यं धन्यं वैष्णवमीश्वर ।। ३३ ।।

तेन सार्धं मधुपुरीं भगवान् गच्छ संप्रतम् ।
कुरु शंभोर्धनुर्भङ्गं भग्नं वैरिगणं हरे ।। ३४ ।।

हन कंसं दुरात्मानं तातं बोधय मातरम् ।
निर्माणं द्वारकायाश्च भारावतरणं भुवः ।। ३५ ।।

दह वाराणसीं शंभोः शक्रस्य सदनं विभो ।
शिवस्य जृम्भणं युद्धे बाणस्य भुजकृन्तनम् ।। ३६ ।।

रुक्मिणीहरणं नाथ घातनं नरकस्य च ।
षोडशानां सहस्रं च स्त्रीणां पाणिग्रहं कुरु ।। ३७ ।।

त्यज प्रियां प्राणसमां व्रजेश्वर व्रजं व्रज ।
उत्तिष्ठोत्तिष्ठ भद्रं ते यावद्राधा न जाग्रति ।। ३८ ।।

त्येवमुक्त्वा ब्रह्मा च सेन्द्रैर्देवगणैः सह ।
जगाम ब्रह्मलोकं च शेषश्च शंकरस्तथा ।। ३९ ।।

पुष्पचन्दनवृष्टिं च कुष्णस्योपरि देवताः ।
चक्रुः प्रीत्या च भक्त्या च वाग्बभूवाशरीरिणी ।। ४० ।।

बध कंसं वथार्ह च स्वपित्रोर्मोक्षणं कुरु ।
क्षयं कुरुभुवो भारं नारदेत्येवमेव च ।। ४१ ।।

इत्येवं तद्वचः श्रुत्वा भगवान् भूतभावनः ।
राधा भगवतीं त्यक्त्वा समुत्तस्थौ शनैः शनैः ।। ४२ ।।

ययौ हरिः कियद्दूरं निरीक्ष्य च पुनः पुनः ।
क्षणं तस्थौ चन्दनानां वने वाससमीपतः ।। ४३ ।।

विहाय राधा निन्द्रां सा समुत्तस्थौ स्वतल्पतः ।
न निरीक्ष्य हरीं शान्तं कान्तं च प्राणवल्लभम् ।। ४४ ।।

हा नाथ रमण प्रेष्ठ प्राणेश प्राणवल्लभ ।
प्राणचोर प्रियतम क्व गतोऽसीत्युवाच ह ।। ४५ ।।

क्षणमन्वेषणं कृत्वा बभ्राम मालतीवनम् ।
उवास क्षणमुत्तस्थौ क्षणं सुष्वाप भूतले ।। ४६ ।।

रुरोद क्षणमत्युच्चैर्विललाप मुहुर्मुहुः ।
आगच्छाऽऽगच्छ हे नाथेत्येवसुक्त्वा पुनः पुनः ।। ४७ ।।

मूर्च्छां संप्राप संतापात्संप्तता विरहानलैः ।
भूतले च तृणाच्छन्ने पपात च यथा मृता ।। ४८ ।।

आययुस्तत्र गोप्यश्च ब्रह्मञ्छतसहस्रशः ।
काश्चिच्चामरहस्ताश्च गृहीत्वा चन्दनद्रवम् ।। ४९ ।।

तासां मध्ये प्रिया लीला कृत्वा राधां स्ववक्षसि ।
मृतामिव प्रियां दृष्ट्वा रुरोद प्रेमविह्वला ।। ५० ।।

सजलं पङ्कजदलं पङ्कोपरि निधाय च ।
स्थापयामास तां राधां निश्चेष्टां च मृतामिव ।। ५१ ।।

गोपीभिः सेवितां तत्र रुचिरैः श्वेतचामरैः ।
चन्दनद्रवयुक्तां च स्निग्धवस्त्रान्वितां सतीम् ।। ५२ ।।

ददर्श कृष्णस्तत्रैत्य तामेव प्राणवल्लभाम् ।
निवारितश्च गोपीभिर्बलिष्ठाभिश्च नारद ।। ५३ ।।

यथा नीतः सापराधो दण्डथो राजभटादिभिः ।
चकार राधां क्रोडे च समागत्य कृपानिधिः ।। ५४ ।।

चेतनां कारयामास बोधयामास बोधनैः ।
संप्राप्य चेतनां देवी ददर्श प्राणवल्लाभाम् ।। ५५ ।।

बभूव सुस्थिरा देवी तत्याज विरहज्वरम् ।
चकार कान्तं सा कान्ता गात्रालिङ्गनमीप्सितम् ।। ५६ ।।

नानाप्रकारशृङ्गारं चकार मधुसूदनः ।
उवास रत्नतल्पे च राधां कृत्वा स्ववक्षसि ।। ५७ ।।

राधासखी रत्नमाला विदग्धा सर्वपूजिता ।
उवाच कृष्णं मधुरं नीतिसारमनुत्तमम् ।। ५८ ।।

रत्नमारोवाच
शृणु कृष्ण प्रवक्ष्यामि परिणामसुखावहम् ।
हितं तथ्यं नीतिसारं दंपत्योः प्रीतिकारणम् ।। ५९ ।।

संमतं कामशास्त्रेषु नीतौ वेदपुराणयोः ।
लौकिकव्यवरारेषु प्रशस्यं सुयशस्करम् ।। ६० ।।

नारीणां च प्रिया माता प्रियो भ्राता च वन्धुषु ।
ततः प्रियश्च पुत्रश्च पुत्रादेव प्रियः पतिः ।। ६१ ।।

शतपुत्रात्प्रियः स्वामी साध्वीनां साधुसंमतः ।
रसिकानां विदग्धानां न हि भर्तुः परः प्रियः ।। ६२ ।।

यदि भर्ता विदग्धश्च विदग्धानां सुखावहः ।
अन्यथा विषतुल्यश्च विषमश्चेत्खलः खलु ।। ६३ ।।

संसारे चानृते वत्स दंपत्योः प्रीतिरेव च ।
परस्परं च समता प्रियसौभाग्यमीप्सितम् ।। ६४ ।।

दंपत्योः समता नास्ति यत्र-यत्र हि मन्तिरे ।
अलक्ष्मीस्तत्र तत्रैव विफलं जीवनं तयोः ।। ६५ ।।

सुस्वामिनां विभेदश्च परं दुःखं च योषिताम् ।
शोकसंतापबीजं च जीवितं मरणाधिकम् ।। ६६ ।।

स्वप्ने जागरणे चापि पतिः प्राणाश्च योषितः ।
पतिरेव गुरुः स्त्रीणामिह लोके परत्र च ।। ६७ ।।

अस्मात्तवयि गते नाथे मूर्च्छां संप्राप राधिका ।
पपात सहसा भूमौ तृणाच्छन्ने च भूतले ।। ६८ ।।

मया दत्तं मुखेऽस्याश्च शीतलं जलमुत्तमम् ।
तदा श्वासो बभूवास्याश्चेतनं बाल्यमेव च ।। ६९ ।।

क्षणं वदति हे नाथ हे कृष्णेति क्षणं सखी ।
क्षणं रोदिति संतप्ता मूर्च्छां प्राप्नोति तत्क्षणम् ।। ७० ।।

राधिकायाः शरीरं च संतप्तं विरहानलैः ।
दग्धलोहयष्टिसममस्पृश्यमनलोपमम् ।। ७१ ।।

स्वप्ने जागनणे रात्रौ दिवसे च गृहे वने ।
जले स्थले चान्तरिक्षेऽभ्युदये चन्द्रसूर्ययोः ।। ७२ ।।

नास्ति भेदश्च राधाया मृततुल्या जडाकृतिः ।
शश्वत्पश्यति स्थानस्था सर्वं विष्णुमयं जगत् ।। ७३ ।।

स्निग्धपङ्के पङ्कजानां सजलानि दलानि च ।
निपत्य तत्कृते तल्पे सुष्वाप विरहातुरा ।। ७४ ।।

सेविता सा प्रियालीभिः संततं श्वेतचामरैः ।
चन्दनद्रवसंसिक्ता स्निग्धवस्त्रसमन्विता ।। ७५ ।।

राधाङ्गस्पर्शमात्रेण पङ्कः संप्राप शुष्कताम् ।
स्निग्धानि पद्मपत्राणि बभूवुर्भस्मसात्क्षणम् ।। ७६ ।।

चन्दनं शुष्कतां प्राप वर्णश्चम्पकसंनिभः ।
बभुव कज्जलाकारः केशस्य वर्णतो हरे ।। ७७ ।।

सिन्दूरबिन्दू रुचिरः श्यामतां प्राप तत्क्षणम् ।
वेषो विलासो लीला च क्रीडा त्यक्ता बभूव ह ।। ७८ ।।

रत्नमाला तु तां दृष्ट्वा गत्वा कृष्णान्तिकं तदा ।
उवाच मधुरं वाक्यं राधाहितकरं परम् ।। ७९ ।।

रत्नमालोवाच
हे कृष्ण कमलाकान्त त्वद्वियोगेन मत्सखी ।
प्राणांस्त्यक्ष्यति शीघ्रं सा यदि नाऽऽयास्यसि ध्रुवम् ।। ८० ।।

विचार्य मनसा कृष्ण यत्तत्समृचितं कुरु ।
न भवेत्कामिनीहत्या येन नीतिविशारद ।। ८१ ।।

रत्नमालावाचः श्रुत्वा प्रहस्योवाच माधवः ।
हितं सत्यं नीतिसारं परिणमसुखावहम् ।। ८२ ।।

श्रीभगवानुवाच
ईशो यद्यपि शक्तोऽहं निषेकं खण्डितुं प्रिये ।
तथाऽपि न क्षमो रत्ने नियतेर्नं करोम्यहम् ।। ८३ ।।

ब्रह्माण्डेषु च सर्वेषु मर्यादा स्थापिता मया ।
तया कर्म प्रकुर्वन्ति मुनयश्च सुरा नराः ।। ८४ ।।

सुदामशापाद्विच्छेदः शतवर्षमनीप्सितः ।
भविष्यत्येव दंपत्योरावयोरेव सुन्दरि ।। ८५ ।।

भेदो जागरणेऽस्याश्च मया सह सुमध्यमे ।
संश्लेषः संततं स्वप्ने मद्वरेण भविष्यति ।। ८६ ।।

आध्यात्मिकी मया दत्ता शोकच्छेदो भविष्यति ।
राधां बोधय भद्रं ते यास्यामि नन्दमन्दिरम् ।। ८७ ।।

इत्युक्त्वा जगतां नाथो ययौ नन्दालयं प्रति ।
राधिकां बोधयामासुरालिसंघाश्च नारद ।। ८८ ।।

गत्वा गृहं च पितरं ननाम मातरं तथा ।
चकार माता क्रोडे च नवनीतं च नूतनम् ।। ८९ ।।

मातृदत्तं च ताम्बूलं चखाद शीतलं जलम् ।
उवास तत्र जगतां नाथो मातृसमीपतः ।। ९० ।।

सर्वैर्गोपसमूहैश्च सेवितः श्वेतचामरैः ।
माल्यचन्दनताम्बूलं ते च तस्मै ददुर्मुदा ।। ९१ ।।

इति श्रीब्रह्मo महाo श्रीकृष्णचन्मखo उत्तo नारदनाo श्रीकृष्णागमनं
नामैकोनसप्ततितमोऽध्यायः ।। ६९ ।।