प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ६९ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः ७०
[[लेखकः :|]]
अध्यायः ७१ →

अथ सप्ततितमोऽध्यायः
नारायण उवाच
अथाक्रूरः स्वशरणं गत्वा कंसेन प्रेषितः ।
चकार शयनं तल्पे भुक्त्वा मीष्टान्नमुत्तमम् ।। १ ।।

सकर्पूरं च ताम्बूलं चखाद वासितं जलम् ।
जगाम निद्रां सुखतः सुखसंभोगमात्रतः ।। २ ।।

ततो ददर्श सुस्वप्नं पुराणश्रुतिसंमतम् ।
निशावशेषसमये बाधादिपरिवर्जितः ।। ३ ।।

अरोगी बद्धकेशश्च वस्त्रयुग्मसमन्वितः ।
सुतल्पशायी सुस्निग्धश्चिन्ताशोकविवर्जितः ।। ४ ।।

किशोरवयसं श्यामं द्विभुजं मुरलीधरम् ।
पीतवस्त्रपरीधानं वनमालाविभूषितम् ।। ५ ।।

चन्दनोक्षितसर्वाङ्गं मालतीमाल्यशोभितम् ।
भूषितं भूषणार्हं च सद्रत्नमणिभूषणैः ।। ६ ।।

मयूरपिच्छचूडं च सस्मितं पद्मलोचनम् ।
एवंभूतं द्विचशिशुं ददर्श प्रथमं मुने ।। ७ ।।

ततो ददर्श रुचिरां पतिपुत्रवतीं सतीम् ।
पीतवस्त्रपरीधानां रत्नभूषणभूषिताम् ।। ८ ।।

ज्वलत्प्रदीपहस्तां च शुक्लधान्यकरां वराम् ।
शरच्चन्द्रनिभास्यां च सस्मितां वरदां शुभाम ।। ९ ।।

ततो ददर्श विप्रं च प्रकुर्वन्तं शुभाशिषम् ।
श्वेतपद्मगतं हंसं तुरगं च सरोवरम् ।। १० ।।

ददर्श चित्रितं चारु फलितं पुष्पितं शुभम् ।
आम्रनिम्बनारिकेलगुर्वर्ककदलीतरुम् ।। ११ ।।

दशन्तं श्वेतसर्पं च स्वात्मानं पर्वतस्थितम् ।
वृक्षस्थं च गजस्थं च तरिस्थं तुरगस्थितम् ।। १२ ।।

वीणां वादितवन्तं च भुक्तवन्तं च पायसम् ।
दधिक्षीरयुतान्नं च पद्मपत्रस्थमीप्सितम् ।। १३ ।।

कृमिविट्सहिताङ्गं च रुदन्तं मोहितं तदा ।
शुक्लधान्यपुष्पकरं क्षणं चन्दनचर्चितम् ।। १४ ।।

प्रासादस्थं समुद्रस्थमात्मानं च सलोहितम् ।
छिन्नभिन्नं क्षताङ्गं च मेदपूयसमन्वितम् ।। १५ ।।

ततो ददर्श रजतं मणिं शुभ्रं च काञ्चनम् ।
सुक्तामाणिक्यरत्नं च पूर्णकुम्भजलं शुभम् ।। १६ ।।

सुरभिं च सवत्सां च वृषभेन्द्रं मयूरकम् ।
शुकं च सारसं हंसं चिल्लं खञ्जनमेव च ।। १७ ।।

ताम्बूलं पुष्पमाल्यं च ज्वलदग्निं सुरार्चनम् ।
पार्वतीप्रतिमां कृष्णप्रतिमां शिवलिङ्गकम् ।। १८ ।।

विप्रबालां च बालं च सुपक्वफलितां कृषिम् ।
देवस्थलीं च राजेन्द्रं सिंहं व्याघ्रं गुरुं सुरम् ।। १९ ।।

दृष्ट्वा स्वप्नं समुत्तस्थौ चकाराऽऽह्निकमीप्सितम् ।
उद्धवं कथयामास सर्वं वृत्तान्तमेव च ।। २० ।।

उद्धवाज्ञां समादाय कृत्वा गुरुसुरार्चनम् ।
यात्रां चकार श्रीकृष्णं ध्यात्वा मनसि नारद ।। २१ ।।

ददर्श वर्त्मन्येवं च मङ्गलार्हं शुभप्रदम् ।
वाञ्छाफलप्रदं रम्यं पुरो मङ्गलसूचकम् ।। २२ ।।

वामे शैवं शिवां पूर्णकुम्भं नकुलचाषकम् ।
पतिपुत्रवतीं साध्वीं दिव्याभरणभूषिताम् ।। २३ ।।

शुक्लपुष्पं च माल्यं च धान्यं च खञ्जनं शुभम् ।
दक्षिणे ज्वलदग्रिं च विप्रं च वृषभं गजम् ।। २४ ।।

वत्सप्रयुक्तां धेरुं च श्वेताश्वं राजहंसकम् ।
वेश्यां च पुष्पमालां च पताकां दधि पायसम् ।। २५ ।।

मणिं सुवर्ण रचतं मुक्तामाणिक्यमीप्सितम् ।
मद्यं मांकं चन्दनं च माध्वीकं घृतमुत्तमम् ।। २६ ।।

कृष्णशारं फलं लाजाः सिद्धान्नं दर्पणं तथा ।
विचित्रितं विमानं च सुदीप्तां प्रतिमां तथा ।। २७ ।।

शुक्लोत्पलं पद्मवनं शङ्खचिल्लं च कीरकम् ।
मार्जारं पर्वतं मेघं मयूरं शुकसारसम् ।। २८ ।।

शङ्खकोकिलवाद्यानां ध्वनिं शुश्राव मङ्गलम् ।
विचित्रकृष्णसंगीतं हरिशब्दं जयध्वनिम् ।। २९ ।।

एवंभूतं शुभं दृष्टवा श्रुत्वा प्रहृष्टमानसः ।
प्रविवेश हरिं स्मृत्वा पुण्यं वृन्दावनं वनम् ।। ३० ।।

ददर्श पुरतो रम्यं रासमण्डलमीप्सितम् ।
चन्दनागुरुकस्तूरीपुष्पचन्दनवायुना ।। ३१ ।।

वासितं मङ्गलघटै रम्भास्तमभैर्विराजितम् ।
आम्रपल्लवसंघैश्च पट्टसूत्रविचित्रितैः ।। ३२ ।।

शोभितैः परितः शश्वत्पद्मरागविनिर्मितम् ।
शोभितं शोभनार्हं च त्रिकोटिरत्नमन्दिरैः ।। ३३ ।।

रम्यैः कुञ्जकुटीरैश्च राजितं शतकोटिभिः ।
रासं वृन्दावनं दृष्ट्वा कियद्दूरं ययौ च सः ।। ३४ ।।

ददर्श पुरतो रम्यं नन्दव्रजमनुत्तमम् ।
परं वेकुण्ठसंकाशं वैकुण्ठ निलयं शुभम् ।। ३५ ।।

रत्नसोपानसंयुक्तं रत्नस्तम्भैर्विराजितम् ।
नानाचित्रविचित्राढ्यं सद्रत्नवलयान्वितम् ।। ३६ ।।

खचितं मणिसारेण रचितं विश्वकर्मणा ।
द्वारि दृष्टेन मार्गेण राजद्वारं विवेश सः ।। ३७ ।।

पताकारत्नजालाढ्यं सुक्तामाणिक्यभूषितम् ।
रत्नदर्पणशोभाढ्यं रत्नचित्रविचित्रितम् ।। ३८ ।।

रत्नविथीविरचितं मङ्गलं मङ्गरैर्घटैः ।
अक्रूरागमनं श्रुत्वा साङ्लादो नन्द एव च ।। ३९ ।।

सहितो रामकृष्णाभ्यां जगामानुव्रजाय वै ।
वृषभान्वादिभिर्युक्तः कृत्वा वेश्यां पुरःसरम् ।। ४० ।।

पूर्णकुम्भं गजेन्द्रं च कृत्वाऽग्रे शुक्लधान्यकम् ।
कृष्णां गां मधुपर्कं च पाद्यं रत्नासनादिकम् ।। ४१ ।।

गृहीत्वा सादरः शान्तः सस्मितो विनतस्था ।
आनन्दयुक्तो नन्दश्च सगणः सहबालकः ।। ४२ ।।

दृष्ट्वाऽक्रूरं महाभागं तूर्णमालिङ्गनं ददौ ।
प्रणेमुः शिरमा सर्वै गोपा जगृहुराशिषम् ।। ४३ ।।

परस्परं च संयोगो बभूव गुणत्रान्मुने ।
क्रोडे चकाराक्रूरश्च कृष्णं रामं क्रमेण च ।। ४४ ।।

चुचुम्ब गण्डयुगुले पुलकाञ्यितविग्रहः ।
साश्रुनेत्रोऽतिसाह्लादः कृतार्थः सिद्धवाञ्छितः ।। ४५ ।।

ददर्श कृष्णं द्विभुजं क्षणं श्यामलसुन्दरम् ।
पीतवस्त्रपरीधानं मालतीमाल्यभूषितम् ।। ४६ ।।

चन्दनोक्षितसर्वाङ्गं परं वंशीधरं वरम् ।
स्तुतं ब्रह्मेशशेषाद्यैर्मुनीन्द्रैः सनकादिभिः ।। ४७ ।।

वीक्षितं गोपकन्याभिः परिबूर्णतमं विभुम् ।
क्षणं ददर्श क्रोडस्थं सस्मितं च चतुर्भुजम् ।। ४८ ।।

लक्ष्मींसरस्वतीयुक्तं वनमालाविभूषितम् ।
सुनन्दनन्दकुमुदैः पार्षदैः परिसेवितम् ।। ४९ ।।

सेवितं सिद्धसंघैश्च भक्तिनम्रैः परात्परम् ।
क्षणं ददर्श देवं तं पञ्चवक्त्रं त्रिलोचनम् ।। ५० ।।

शुद्धस्फटिकसंकाशं नागराजैर्विराजितम् ।
दिगम्बरं परं ब्रह्म भस्माङ्गं च जटायुतम् ।। ५१ ।।

जपमालाकरं ध्याननिष्ठं श्रेष्ठं च योगिनम् ।
क्षणं चतुर्मुखं ध्याननिष्ठं श्रेष्ठं मनीषिणाम् ।। ५२ ।।

क्षणं धर्मस्वरूपं च शेषरुपं क्षणं क्षणम् ।
क्षणं भास्कररूपं च ज्योतीरूपं सनातनम् ।। ५३ ।।

क्षणं परमशोभाढ्यं कोटिकन्दर्पनिन्दितम् ।
कामिनीकमनीयं च कामुकं कामसंयुतम् ।। ५४ ।।

एवंभूतं शिशुं दृष्ट्वा स्थापयामास वक्षसि ।
रत्नमिंहासने रम्ये नन्ददत्ते च नारद ।। ५५ ।।

कृत्वा प्रदक्षिणं भक्त्या पुलकाञ्चितविग्रहः ।
प्रणम्य शिरसा भूमौ तुष्टाव पुरुषोत्तमम् ।। ५६ ।।

अक्रूर उवाच
नमः कारणरूपाय परमात्मस्वरूपिणे
सर्वेषामपि विश्वानामीश्वराय नमो नमः ।
पराय प्रकृतेरीश परात्परतराय च ।। ५७ ।।

निर्गुणाय निरीहाय नीरूपाय स्वरूपिणे ।
सर्वदेवस्वरूपाय सर्वदेवेश्वराय च ।। ५८ ।।

सर्वदेवाधिदेवाय विश्वादिभूतरूपिणे ।
असंश्येषु च विश्वेषु ब्रह्मविष्णुशिवात्मक ।। ५९ ।।

स्वरूपायाऽऽदिबीजाय तदीशविश्वरूपिणे ।
नमो गोपाङ्गनेशाय गणेशेश्वररूपिणे ।। ६० ।।

नमः सुरगणेशाय राधेशाय नमो नमः ।
राधारमणरूपाय राधारूपधराय च ।। ६१ ।।

राधाराध्याय राधायाः प्राणाधिकतराय च ।
राधासाध्याय राधाधिदेवप्रियतमाय च ।। ६२ ।।

राधाप्राणाधिदेवाय विश्वरूपाय ते नमः ।
वेदस्तुतात्मवेदज्ञरूपिणे सर्ववेदिने ।। ६३ ।।

वैदाधिष्ठातृदेवाय वेदबीजाय ते नमः ।
यस्य लोमसु विश्वानि चासंख्यानि च नित्यशः ।। ६४ ।।

महद्विष्णोरीश्वराय विश्वेशाय नमो नमः ।
स्वयं प्रकृतिरूपाय प्राकृताय नमोo ।। ६५ ।।

प्रकृतीश्वररूपाय प्रधानपुरूषाय च ।
इत्येवं स्तवनं कृत्वा मूर्च्छामाप सभातले ।। ६६ ।।

पपात सहसा भूमौ पुनरीशं ददर्श सः ।
बहिःस्थं हृदयस्थं च परमात्मानमीश्वरम् ।। ६७ ।।

परितः श्यामरूपं च विश्वस्थं विश्वमेव च ।
अक्रूरं मूर्च्छितं दृष्ट्वा नन्दः सादरपूर्वकम् ।। ६८ ।।

रत्नसिंहासने रम्ये वासयामास नारद ।
पप्रच्छ सर्ववृत्तान्तं किंस्विद्दृष्टमिति त्वया ।। ६९ ।।

मिष्टान्नं भोजयामाय कुशलं च पुनः पुनः ।
अक्रूरेः कथयामस कंसवृत्तान्तमीप्सितम् ।। ७० ।।

स्वपित्रोर्मोक्षणार्थं च गमनं रामकृष्णयोः ।
इत्यक्रूरकृतं स्तोत्रं यः पठेत्सुसमाहितः ।। ७१ ।।

अपुत्रो लभते पुत्रमभार्यों लभते प्रियम् ।
अधनो धनमाप्नोति निर्भूमिरुर्वरां महीम् ।। ७२ ।।

हतप्रजः प्रजालाभं प्रतिष्ठां चाप्रतिष्ठितः ।
यशः प्राप्नोति विपुलमयशस्वी च लीलया ।। ७३ ।।

अथ सुष्वाप समये परं संहृष्टमानसः ।
रम्ये चम्पकतल्पे च कृष्णं कृत्वा स्ववक्षसि ।। ७४ ।।

प्रातरुथाय सहसा कृत्वाऽऽङ्निकमनुत्तमम् ।
स्वरथे स्थापयामास रामं कृष्णं जगत्पतिम् ।। ७५ ।।

गव्यं पञ्चप्रकारं च नानाद्रव्यं सुदुल्रभम् ।
वृषभानं च नन्दं च सुनन्दं चन्दभानकम् ।। ७६ ।।

नानाप्रकारं वाद्यं च मृदङ्गमुरजादिकम् ।
पटहं पणवं चैव ढक्कां दुंदुभिमानकम् ।। ७७ ।।

सज्जां संनहनीं कास्यपट्टमर्दलमण्डवीम् ।
वादयामास सानन्दं नन्दगोपो व्रजेश्वरः ।। ७८ ।।

श्रुत्वा वाद्यं च गोप्यश्च गमनं रामकृष्णयोः ।
दृष्ट्वा कृष्णं रथस्थं तमाययुः कोपपीडिताः ।। ७९ ।।

कृष्णेन वारिताः सर्वाः प्रेरिता राधाया द्विजः ।
बभञ्जुरीश्वररथं पादाघातेन लीलया ।। ८० ।।

तत्र सर्वेषु गोपेश हाहाकारं कृतेषु च ।
प्रययुर्बलवत्यश्च कृष्णं कृत्वा स्ववक्षसि ।। ८१ ।।

काचित्क्रूरं तमक्रूरं भर्त्सयामास कोपतः ।
काश्चिद्वद्ध्वा च वस्त्रेण चाकूरं प्रययुस्ततः ।। ८२ ।।

काचित्तं ताडयामास कङ्कणेन करेण च ।
तद्वस्त्रं हारयामास कृत्वा विवसनं मुने ।। ८३ ।।

क्षतविक्षतसर्वाङ्गं दृष्ट्वाऽक्रूरं च माधवः ।
जगाम राधानिकटं बोधयामास तां पुनः ।। ८४ ।।

आध्यात्मिकेन योगेन विनयेन च सादरम् ।
अक्रूरं बोधयामास वोधयामास तां पुनः ।। ८५ ।।

आकाशात्पतितं दिव्यं सन्त्रप्रस्थापितं रथम् ।
विचित्रवस्त्रसंयुक्तं ददर्श पुरतो हरिः ।। ८६ ।।

खचितं मणिराजेन रचितं विश्वकर्मणा ।
तं दृष्ट्वा मातृभवनमाजगाम जगत्पतिः ।। ८७ ।।

भुक्त्वा पीत्वा सुखं सुप्त्वा भगवान्सहबान्धवः ।
तस्थौ मुनीन्द्रदेवेन्द्रब्रह्मेशशेषवन्दितः ।। ८८ ।।

मुषुपुर्गोंपिकाः सर्वाः परं संहृष्टमानसाः ।
पुष्पतल्पे च रम्ये च राधया सह नारद ।। ८९ ।।

सर्वे चाऽऽनन्दयुक्ताश्च जना गोकुलवासिनः ।
केचिद्गोपाश्च ननृतुः केचित्संगीततत्पराः ।। ९० ।।

इति शीब्रह्मo श्रिकृष्णजन्मखo उत्तo नारदनाo गोपीविषयो
नाम सप्ततितमोऽध्यायः ।। ७० ।।