प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ७५ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः ७६
[[लेखकः :|]]
अध्यायः ७७ →

अथ षट्सप्ततितमोऽध्यायः
नन्द उवाच
येषां च दर्शने पुण्यं पापं यस्य च दर्शने ।
तत्सर्व वद सर्वेश श्रोतुं कौतूहरं मम ।। १ ।।

श्रीभगवानुवाच
सुब्राह्मणानां तीर्थानां वैष्णवानां च दर्शने ।
देवताप्रतिमादर्शी तीर्थस्नायी भवेन्नरः ।। २ ।।

सूर्यस्य दर्शने भक्त्या मतीनां दर्शने तथाः ।
संन्यासिनां यतीनां च तथैव ब्रह्मचारिणाम् ।। ३ ।।

भक्त्या गवां च वह्नीनां गुरूणां च विशेषतः ।
गजेन्द्राणां च सिंहानां श्वेताश्वानां तथैव च ।। ४ ।।

शुकानां च पिकानां च खञ्जनानां तथैव च ।
हंसानां च मयूराणां चाषाणां शङ्खपक्षिणाम् ।। ५ ।।

वत्सप्रयुक्तधेनूनासश्वत्थानां तथैव च ।
पतिपुत्रवतीनां च नराणां तीन्थयायिनाम् ।। ६ ।।

प्रदीपानां सुवर्णानां मणीनां च विशेषतः ।
णुक्तानां हीरकाणां च माणिक्यानां महाशय ।। ७ ।।

तुलसीशुक्लपुष्पाणां दर्शनं पापनाशम् ।
फलानि शुक्लधान्यानि घृतं दधि मधूनि च ।। ८ ।।

पूर्णकुम्भं च लाजांश्च राजेन्द्रं दर्पणं जलम् ।
मालां च शुक्लपुष्पाणां दृष्ट्वा पुण्यं लभेन्नरः ।। ९ ।।

गोरोचनं च कर्पूरं रजतं च सरोवरम् ।
पुष्पोद्यानं पुष्पितां च दृष्ट्वा पुष्यंo ।। १० ।।

शुक्लपक्षस्य चन्द्रं च पीयूषं चन्दनं तथा ।
कस्तूरीं कुङ्कुमं दृष्ट्वा नन्द पुण्यं ।। ११ ।।

पताकामक्षयवटं तरुं देवोत्थितं शुभम् ।
देवालयं देवखातं दृष्ट्वा पुण्यंo ।। १२ ।।

देवाक्षितां देवद्यटं सुगन्धिपवनं तथा ।
शङ्खं च दुंदुभिं दृष्ट्वा सद्यः पुण्यंo ।। १३ ।।

शुकिंत प्रवालं रजतं स्फटिकं कुशमूलकम् ।
गङ्गामृदं कुशं ताम्रं दृष्ट्वा पुण्यंo ।। १४ ।।

पुराणपुस्तकं शुद्धं सबीजं विष्णुयन्त्रकम् ।
स्निग्धदूर्वाक्षते रत्नं दृष्ट्वा पुण्यंo ।। १५ ।।

तपस्विनां सिद्धमन्त्रं मसुद्रं कृष्णसारकम् ।
यज्ञं महोत्सवं दृष्ट्वा स पुण्यं लभते नरः ।। १६ ।।

गोमूत्रं गोमयं दुग्धं गोधूलिं गोष्ठगोष्पदम् ।
पक्वसस्यान्वितं क्षेत्रं दृष्ट्वा पुण्यं लभेद्ध्रुवम् ।। १७ ।।

रुचिरां पद्मिनीं श्यामां न्यग्रोधपरिमण्डलाम् ।
सुवेषकां सुवसनां दिव्यभूषणभूषिताम् ।। १८ ।।

वेश्यां क्षेमकरीं गन्धं सुदूर्वाक्षततण्डुलम् ।
सिद्धान्नं परमान्नं च दृष्ट्वा पुण्यं लभेन्नरः ।। १९ ।।

कान्तिक्यां पूर्णिमायां च राधिकाप्रतिमां शुभाम् ।
संपूज्य दृष्ट्वा नत्वा च करोति जन्मखण्डनम् ।। २० ।।

हिङ्गुलायां तथाऽष्टम्यामिषे मासि सिते शुभे ।
श्रीदुर्गाप्रतिमां दृष्ट्वा करोति जन्मo ।। २१ ।।

शिवरात्रौ च काश्यां च विश्वनाथस्य दर्शनम् ।
कृत्वोपवासं पूजां च करोति जन्मo ।। २२ ।।

जन्माष्टमीदिने भक्तो दृष्ट्वा मां बिन्दुमाधवम् ।
प्रणम्य पूजां कृत्वा च करोति जन्मo ।। २३ ।।

पौषे मासि शुक्लरात्रौ यत्र यत्र स्थले नरः ।
पद्मायाः प्रतिमां दृष्ट्वा करोति जन्मo ।। २४ ।।

सप्तजन्म भवेत्तस्य पुत्रः पौत्रो धनेश्वरः ।
उपोष्यैकादशीं स्नात्वा प्रभाते द्वादशीदिने ।। २५ ।।

दृष्ट्वा काश्यामन्नपूर्णां करोति जन्मखण्डनम् ।
चैत्रै मासि चतुर्दश्यां कामरूपेषु पुण्यदे ।। २६ ।।

दृष्ट्वा नत्वा भद्रकालीं करोति जन्मo ।
अयोध्यायां च रामं च श्रीरामनवमीदिने ।। २७ ।।

संपूज्य नत्वा दृष्ट्वा च करोति जन्मo ।
उपोष्य पुष्करे स्नात्वा किंवा बदरिकाश्रमे ।। २८ ।।

मंपूज्य दृष्ट्वा मामेकं करोति जन्मo ।
दत्तवा तिष्णुपदे पिण्डं विष्णुं यश्च प्रपूज्येत् ।। २९ ।।

पितणां स्वात्मनश्चैव करोति जन्मo ।
प्रयागे मुण्डनं कृत्वा दानं च कुरुते यदि ।। ३० ।।

उपोष्य नैमिषारण्ये करोति जन्मo ।
सिद्धिं कृत्वा च वदरींभुङ्क्ते बदरिकाश्रमे ।। ३१ ।।

दृष्टवा मत्प्रतिमां नन्द करोति जन्मo ।
देलायमानं गोविन्दं पुण्ये वृन्दावने च माम् ।। ३२ ।।

दृष्टवा संपूज्य नत्वा च करोति जन्मo ।
भाद्रे दृष्ट्वा च मञ्चस्थं मामेव मधुसूदनम् ।। ३३ ।।

संपूज्य नत्वा भक्तश्च करोति जन्मo ।
रथस्थं च जगन्नाथं यो द्रक्ष्यति कलौ नरः ।।
संपूज्य नत्वा भक्त्या च करोति जन्मo ।। ३४ ।।

उत्तरायणसंक्रान्त्यां प्रयागे स्नानमाचरेत् ।
संपूज्य नत्वा मामेव करोति जन्मo ।। ३५ ।।

कार्तिक्यां पूर्णिमायां च दृष्ट्वा मत्प्रतिमां शुभाम् ।
उपोष्य पूजरं कृत्वा करोति जन्मo ।। ३६ ।।

चन्द्रभागासमीपे च माध्यां च मां नमेत्सुधीः ।
राधया सह मां दृष्ट्वा करोति जन्मनः क्षयम् ।। ३७ ।।

रामेश्वरं सेतुबन्ध अषाणीपूर्णिमादिने ।
उपेष्य दृष्ट्वा संपूज्य करोति जन्मo ।। ३८ ।।

स्वर्गे विद्याधरा रात्रौ नृत्यन्ति च सुहुर्मुहुः।
प्रणामं कर्तुमीशं तं समायाति विभीषणः ।। ३९ ।।

गायन्ति किंनरा रात्रौ गन्धर्वाश्च मनोहरम् ।
प्रणामं कर्तुमीशं त समायाति य माधवः ।। ४० ।।

दृष्ट्वा साक्षाद्वसन्तं च सर्वेशं चन्द्रशेखरम् ।
जीवन्मुक्तो भवेदन्ते प्रयाति हरिमन्दिरम् ।। ४१ ।।

दीननाथं दिनकरं कोणार्के चोत्तरायणे ।
उपोष्य दृष्ट्वा संपूज्य करोति जन्मo ।। ४२ ।।

कृषिकोष्ठे सुवसने कलर्विके वसुंधरे ।
विस्पन्दके राजकोष्ठे नन्दके पुष्पभद्रके ।। ४३ ।।

पार्वतीप्रतिमां दृष्ट्वा कार्तिकेयं गणेश्वरम् ।
नन्दिनं शंकरं दृष्ट्वा करोति जन्मनः क्षयम् ।। ४४ ।।

उपोष्य प्रातः संपूज्य दृष्ट्वा स्तुत्वा स्तुतौ नतः ।
पारणं च दधि प्राश्य करोति जन्मo ।। ४५ ।।

त्रिकूटे मणिभद्रे च पश्चिमोदधिसंनिधौ ।
समुपोष्य दधि प्रश्य मां दृष्ट्वा मुक्तिमाप्नुयात् ।। ४६ ।।

प्रतिमासु मदीयासु पार्वतीप्रतिमासु च ।
जीवं संन्यस्य संपूज्य करोति जन्मo ।। ४७ ।।

शिवदुर्गालयं कृत्वा मदीयं च विशेषतः ।
शिवसंस्थापनं कृत्वा करोति जन्मo ।। ४८ ।।

पुष्पोद्यानं च शंकुं च सेतुं खातं सरोवरम् ।
विप्रसंस्थापनं कृत्वा करोति जन्मo ।। ४९ ।।

न च वेदाः पुराणानि ब्रह्मसंस्थापनं फलम् ।
जानन्ति सन्तो मुनयः सुरा विप्रादयः पितः ।। ५० ।।

गण्यन्ते पांसवो भूमेर्गण्यन्ते वृष्टिबिन्दवः ।
न गण्यते विधात्राऽपि विप्रसंस्थापने फलम् ।। ५१ ।।

कृत्वोपजींयं विप्रस्य जीवन्मुक्तो भवेन्नरः ।
अचलां श्रीयमाप्नोति परे सुक्तिचतुष्टयम् ।। ५२ ।।

मद्दास्यभक्तिं स लभेद्वैकुण्ठे मोदके चिरम् ।
न हि पातो भवेत्तस्य यथा मे परमात्मनः ।। ५३ ।।

कुमारीमष्टवर्षोयां सुविप्रय ददाति यः ।
संपूज्य सर्वाभरणां दुर्गादानफलं लभेत् ।। ५४ ।।

सर्व स्वर्ग्य समालोक्य ब्रह्मलोकेषु पूजितः ।
लभते मम दास्यं च वैसुण्ठे मोदते चिरम् ।। ५५ ।।

विवाहदर्शने कोटिस्वर्णदानफलं लभेत् ।
अन्ते स्वर्गे प्रयात्येवमिहैव निश्चलां श्रियम् ।। ५६ ।।

यः सुविप्रमनाथं च दरिद्रं च सुपण़्डितम् ।
दृष्ट्वा कुर्यात्तद्विवाहं स मोक्षं लभते ध्रुवम् ।। ५७ ।।

यच्छत्रपादुकादानं शालग्रामस्य योषितः ।
करोति भक्त्या पुण्याहे पृथ्वीदानफलं लभेत् ।। ५८ ।।

गजचदाने च तल्लोममानवर्ष श्रुतौ श्रुतम् ।
चतुर्गुणं गजेन्द्रं च मोदते मम मन्दिरे ।। ५९ ।।

गजर्ध श्वेततुरगे तदर्ध चेतने पितः ।
गजतुल्यं कृष्णगवां दाने च तत्फलं लभेत् ।। ६० ।।

तत्तुल्यं धेनुदाने च ह्यर्धं सामान्यगोस्तथा ।
लभेद्वत्सप्रसूतानां दाने दाने फलं भुवः ।। ६१ ।।

भूमिदाने रेणुमानवर्ष स्थानं च मत्पदे ।
ज्ञानदाने महत्पुण्यं वैकुण्ठे मोदते चिरम् ।। ६२ ।।

श्रियं लभेत्स्वर्णदाने राजत्वं रजतेन च ।
अन्नदाने फलं गहं कथं जानामि पै शुतम् ।। ६३ ।।

लभते सर्वदानस्य फलं ब्रह्मणभोजने ।
अन्नदानात्परं दानं न भूतं न भविष्यति ।। ६४ ।।

नात्र पात्रपरीक्षाऽस्ति न कालनियमः क्वचित् ।
अन्नदाने शुभं पुण्यं दातुः पात्रं त्वपातकी ।। ६५ ।।

अन्नदानं च धन्यं स्याद्भूमौ वैकुण्ठहेतुकम् ।
वस्त्रं ददाति विप्रय दरिद्राय कुटुम्बिने ।। ६६ ।।

वस्त्रंसूत्रमानवर्ष वैकुण्ठे मोदते चिरम् ।
सुरम्ये चन्द्रलोके च वारुणे च तथैव च ।। ६७ ।।

कृत्वा लोहप्रदीपं च स्वर्णवर्तिसमन्वितम् ।
दत्तवा घृतप्रदीपं च हरये परमात्मने ।। ६८ ।।

अन्धकारं च न गृहं यमदूतं यमं तथा ।
न हि पश्यति दाता च प्रयाति मम मन्दिरम् ।। ६९ ।।

ब्रह्मणाय च दत्तवैव न याति यमयातनाम् ।
दिव्यवर्षसहश्रं च मोदते शक्रमन्दिरे ।। ७० ।।

आसनं लभते स्वर्गे वस्तुमात्रानुरूपतः ।
उत्तमे लक्षवर्षे च तदर्ध चेतरे व्रजेत् ।। ७१ ।।

ताम्पूलेन लभेद्भोगं स्वर्गे वर्षशतं व्रजेत् ।
माल्यदाने प्रियं स्वर्ग वस्तुमात्रानुरूपतः ।। ७२ ।।

फलदानफलं स्वर्ग लभते नात्र संशयः ।
सामान्यशय्यादानेन स्वर्ग वर्षशतं व्रजेत् ।। ७३ ।।

चतुर्गुणं प्रकृष्टायां गुणलक्षं दिलक्षणे ।
अनाथाय सुविप्राय यदि गेहं प्रदीयते ।। ७४ ।।

अत्रैव मानवर्ष च शक्रलोके महीयते ।
दृष्ट्वा बुभुक्षितं विप्रमन्नं तस्मै प्रदीयते ।। ७५ ।।

अयलां श्रियमाप्नोति पुत्रपौत्रविवर्धिनीम् ।
व्रजनाथ व्रजं गत्वा व्रजभूमौ व्रजाधुना ।। ७६ ।।

व्रज भोजय विपांश्च व्रज सर्व व्रजे व्रजे ।
गोकुले गोकुले वत्स वत्स वत्स निराकुले ।। ७७ ।।

व्याकुलानां गोकुलानां संकुले च व्रजे व्रजे ।
एतत्ते कथितं नन्द सानन्दं पुण्यवर्धनम् ।।
सुस्वप्नदर्शनं पुण्यं यदि नीचं न वक्ति च ।। ७८ ।।

काश्यपं दुर्भगं नीचं शत्रुमज्ञानिनं स्त्रेयम् ।
त्यक्त्वा रात्रिं च दिवसे वक्ति विप्रं मुपण्डितम् ।। ७९ ।।

देवालये च देवं वाऽप्यश्वत्थतुलशीवटम् ।
उक्त्वा तद्द्विगुणं पुण्यमप्रकाश्य चतुर्गुणम् ।। ८० ।।

सुस्वप्नदर्शने प्राज्ञो गंगास्नानफलं लभेत् ।
अर्थं वित्तं च भार्या च भूमिं पुत्रं लभेत्प्रजाम् ।। ८१ ।।

मोक्षं च परमैश्वर्यं लभते सर्ववाञ्छितम् ।
इत्येवं कथितं तात किं भूयः श्रोतुमिच्छसि ।। ८२ ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo भगवन्नन्दसंo
षट्सप्ततितमोऽध्यायः ।। ७६ ।।