ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०७७

← अध्यायः ७६ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः ७७
[[लेखकः :|]]
अध्यायः ७८ →

अथ सप्तस्पततितमोऽध्यायः
नन्द उवाच
केन स्पप्नेन किं पुण्यं केन मोक्षो भवेत्सुखम् ।
कोऽपि कोऽपि च सुस्वप्नस्तत्सर्वं कथय प्रभो ।। १ ।।

श्रीभगवानुवाच
वेदेषु सामवेदश्च प्रशस्तः सर्वकर्मसु ।
तथैव कण्वशाखायां पुण्यकाण्डे मनोहरे ।। २ ।।

स व्यवतो यश्च दुःस्वप्नः शश्वतपुण्यफलप्रदः ।
तत्सर्व निखिलं तात कथयामि निशामय ।। ३ ।।

स्वप्नाध्यायं प्रवक्ष्यामि बहुपुण्यफलप्रदम् ।
स्वप्नाध्यायं नरः श्रुत्वा गङ्गास्नानफलं लभेत् ।। ४ ।।

स्वप्नक्तु प्रथमे यामे संवत्सरफलप्रदः ।
द्वितीये चाष्टभिर्मासैस्त्रिभिर्मासैस्तृतीयरे ।। ५ ।।

चतुर्थे चार्धमासेन स्वप्नः स्वात्मफलप्रदः ।
दशाहे फलदः स्वप्नोऽप्यरुणोदयदर्णने ।। ६ ।।

प्रातःस्वप्नश्च फलदस्तत्क्षणं यदि बोधितः ।
दिने मनसि यद्दृष्टं तत्सर्व च लभेद्ध्रुवम् ।। ७ ।।

चिन्ताव्याधिसमायुक्तो नरः स्वप्नं च पश्यति ।
तत्सर्व निष्फलं तात प्रयात्येव न संशयः ।। ८ ।।

जचडो मूत्रपुरीषेण पीडितश्च भयाकुलः ।
दिगम्बरो मुक्तकेशो न लभेत्स्वप्नजं फलम् ।। ९ ।।

दृष्ट्वा स्वप्नं च निद्रालुर्यदि निद्रां प्रयति च ।
विमूढो वक्ति चेद्रात्रौ न लभेत्स्वप्नजं फलम् ।। १० ।।

उक्तवा काश्यपगोत्रे च विपर्त्ति लभते ध्रुवम् ।
दुर्गते दुर्गतिं याति नीचे व्याधिंप्रयाति च ।। ११ ।।

शत्रौ भयं च लभते मूर्खे च कलहं लभेत् ।
कामिन्यां धनहानिः स्याद्रात्रौ जोरभयं भवेत् ।। १२ ।।

निद्रायां लभते शोकं पण़्डिते वाञ्छितं फलम् ।
न प्रकाश्यश्च सुस्वप्नः पण्डितैः काश्यपे व्रज ।। १३ ।।

गवां च कुञ्जराणां च हयानां च व्रजेश्वर ।
प्रासादानां च शैलानां वृक्षाणां च तथैव च ।। १४ ।।

आरोहणं च धनदं भोजनं रोदनं तथा ।
प्रतिगृह्यतथा वीणां सस्याढ्यां भूमिमालभेत् ।। १५ ।।

शस्त्रास्त्रेण यदा विद्धो व्रणेन कृमिणा तथा ।
विष्ठया रुधिरेणैव संयुक्तोऽप्यर्थवान्भवेत् ।। १६ ।।

स्वप्नेऽप्यगम्यागमतो भार्यालाभं करोति यः ।
मूत्रसिक्तः पिबेच्छुकं नरकं च विशत्यपि ।। १७ ।।

नगरं प्रविशेद्रक्तं समुद्रं वा सुधां पिबेत् ।
शुभवार्तामवाप्नोति विपुलं चार्थमालभेत् ।। १८ ।।

गजं नृपं सुवर्ण च वृषभं घेनुमेव च ।
दीपमन्नं फलं पुष्पं कन्यां छत्रं रथं ध्वजम् ।। १९ ।।

कुटुम्बं लभते दृष्ट्वा कीर्तिं च विपुलां श्रियम् ।
पूर्णकुम्भंद्विजं वह्निं पुष्पताम्बूलमन्दिरम् ।। २० ।।

शुक्लधान्यं नदं वेश्यां दृष्ट्वा श्रियमवाप्नुयात् ।
गोक्षीरं च घृतं दृष्ट्वा चार्थ पुण्यधनं लभेत् ।। २१ ।।

पायसं पद्मपत्रे च दधि दुग्धं घृतं मधु ।
मिष्टान्नं स्वस्तिकं भुक्त्वा ध्रुवं राजा भविष्यति ।। २२ ।।

पक्षिणां मानुषाणां च भुङ्क्ते मांसं नरो यदि ।
बह्वर्थं शुभवार्तां च लभते वाञ्छितं फलम् ।। २३ ।।

छत्रं वा पादुकां वाऽपि लब्ध्वा धान्यं च गच्छति ।
असिं च निर्मरं तीक्ष्णं तत्तथैव भविष्यति ।। २४ ।।

हेलया संतरेद्यो हि स प्रधानो भविष्यति ।
दृष्ट्वा च फलितं वृक्षं धनमाप्नोति निश्चितम् ।। २५ ।।

सर्पेण भक्षितो यो हि णर्थलात्रश्च तद्भवेत् ।
स्वप्ने सूर्य विधुं दृष्ट्वा मुच्यते व्याधिबन्धनात् ।। २६ ।।

वडवां कुक्कुटीं दृष्ट्वा कौञ्चीं भार्यं लभेद्ध्रुवम् ।
स्वप्नेयो निगडैर्बद्धः प्रतिष्ठां पुत्रमालभेत् ।। २७ ।।

दध्यन्नं पायसं भुङ्कते पद्मपत्रे नदीतटे ।
विशीर्णपद्मपत्रे च सोऽपि राजा मविष्यति ।। २८ ।।

जलौकसं वृश्चिकं च सर्प च यदि पश्यति ।
धनं पुत्रं च विजयं प्रतिष्ठां वा लभेदिति ।। २९ ।।

शृङ्गिभिर्दंष्ट्रिभिः कोलैर्वानरैः पीडितो यदि ।
निश्चितं च भवेद्राजा धनं च विपुलं लभेत् ।। ३० ।।

मत्स्यं मांसं मौक्तिकं च शङ्खं चन्दनहीरकम् ।
यस्तु पश्यति स्वप्नान्ते विपुलं धनमालभेत् ।। ३१ ।।

सुरां च रुधिरं स्वर्ण भुक्त्वा विष्ठांधनं लभेत्।
प्रतिमां शिवलिङ्गंच लभेद्दृष्ट्वा जयं धनम् ।। ३२ ।।

फलितं पुष्पितं बिल्वमाम्रं दृष्ट्वा लभेद्धनम् ।
दृष्ट्वा च ज्वलदग्निं च धनं बुद्धिं श्रियं लभेत् ।। ३३ ।।

आमलकं धात्रौफलमुत्पलं च धनागमम् ।
देवताश्च द्विजा गावः पितरो लिङ्गिनस्तथा ।। ३४ ।।

यद्ददाति मिथःस्वप्ने तत्तथैव भविष्यति ।
शुक्लाम्बरधरा नार्यः शुक्लमाल्यानुलेपना ।
समाश्लिष्यन्ति यं स्वप्ने तस्य श्रीः सर्वतः सुखम् ।। ३५ ।।

पीताम्बरधरां नारीं पीतमाल्यानुलेपनाम् ।
अवगूहति यः स्वप्ने कल्याणं तस्य जायते ।। ३६ ।।

सर्वाणि शुक्लानि प्रशंसितानि भस्मास्थिकार्पासविवर्जितानि ।
सर्वाणि कृष्णन्यतिनिन्दितानि गोहस्तिवाजिद्विजदेववर्ज्यम् ।। ३७ ।।

दिव्य स्त्री सस्मिता विप्रा नत्नभूषणभूषिता ।
यस्य मन्दिरमायाति स प्रियं लभते ध्रुवम् ।। ३८ ।।

स्वप्ने च ब्रह्मणो देवो ब्राह्मणी देवकन्यका ।
ब्राह्मणो ब्राह्मणी वाऽपि संतुष्टा सस्मिता सती ।। ३९ ।।

फलं ददाति यस्मै च तस्य पुत्रो भविष्यति ।
यं स्वप्ने ब्राह्मणा नन्द कुर्वन्ति च शुभाशिषम् ।। ४० ।।

यद्वदन्ति भवेत्तस्य तस्यैश्वर्य भवेद्ध्रुवम् ।
परितुष्टो द्विजश्रेष्ठश्टाऽऽयाति यस्य मन्दिरम् ।। ४१ ।।

नारायणः शिवो ब्रह्मा प्रविशेत्तु तदाश्रमम् ।
संपत्तिस्वस्य भवति यशश्च विपुलं शुभम् ।। ४२ ।।

पदे पदे सुखं तस्य समानं गौरवं लभेत् ।
अकस्मादपि स्वप्ने तु लभते सुरभिं यदि ।। ४३ ।।

भूमिलाभो भवेत्तस्य भार्या चापि पतिव्रता ।
करेण कृत्वा हस्ती यं मस्तके स्थापयेद्यदि ।। ४४ ।।

राज्यलाभोभवेत्तस्य निश्चितं च श्रुतौ मतम् ।
स्वप्ने तु ब्राह्मणस्तुष्टः समाश्लिष्यतियं व्रज ।। ४५ ।।

तीर्थस्नायी भवेत्सोऽपि निश्चितं च श्रियाऽन्वितः ।
स्वप्ने ददाति पुष्पं च यस्मै पुण्यवते द्विजः ।। ४६ ।।

जययुक्तो भवेत्सोऽपि यशस्वी च धरी सुखी ।
स्वप्ने दृष्टवा च तीर्थानि सौधरत्नगृहाणि च ।। ४७ ।।

जययुक्तश्च धनवांस्तीर्थस्नायी भवेन्नरः ।
स्वप्ने तु पूणंकलशं कश्चित्कस्मै ददाति च ।। ४८ ।।

पुत्रलाभो भवेत्तस्य मंपत्तिं वा समालभेत् ।
हस्ते कृत्वा तु कुडवमाढकं वारसुन्दरी ।। ४९ ।।

यस्य मन्दिरमायाति स लक्ष्मीं लभते ध्रुवम् ।
दिव्या स्त्री यद्गृहं गत्वा पुरीषं विसृजेद्द्विज ।। ५० ।।

अर्थलाभो भवेत्तस्य दारिद्र्यं च प्रयाति च ।
यस्य गेहं समायाति ब्राह्मणो भार्यया सह ।। ५१ ।।

पार्वत्या सह शंभुर्वा लक्ष्म्या नारायणोऽथवा ।
ब्राह्मणो ब्राह्मणी वाऽपि स्वप्ने तस्मै प्रदीयते ।। ५२ ।।

धान्यं पुष्पाञ्जलिं वाऽपि तस्य श्रीः सर्दतोमुखी ।
मुक्ताहारं पुष्पमाल्यं चन्दनं च लभेद्व्रज ।। ५३ ।।

स्वाप्ने ददाति विप्रश्च तस्य श्रीः सर्वo ।
गोरोचनं पताकां वा हरिद्रामिक्षुदण्डकम् ।। ५४ ।।

सिद्धान्नं च लभेत्स्वप्ने तस्य श्रीः सर्वo ।
ब्राह्मणो ब्रह्माणी वाऽपि ददाति यस्य मस्तके ।। ५५ ।।

छत्रं वा शुक्लवान्यं व स चराजा भविष्यति ।
स्वप्ने लथस्थः पुरुषः शुक्लमाल्यानुलेपनः ।। ५६ ।।

तत्रस्थोदधि भुङ्क्ते च पायसं वा लृपो भवेत् ।
स्वप्ने ददाति विप्रश्च ब्राह्मणी च सुधांदधि ।। ५७ ।।

प्रशस्तपात्रं यस्मै वा सोऽपि राजा भवेद्ध्रुवम् ।
कुमारी चाष्टवर्षीया रत्नभूषणभूषिता ।। ५८ ।।

यस्य तुष्टा भवेत्स्वप्ने स भवेत्कविपण़्डितः ।
ददाति पुस्तकं स्वप्ने यस्मै पुण्यवते च सा ।। ५९ ।।

स भवेद्विश्वविख्यातः कवीन्द्रः पण़्डितेश्वरः ।
यं पाठयति स्वप्ने वा मातेव च सुतं यथा ।। ६० ।।

सरस्वतीसुतः सोऽपि तत्परो नास्ति पण्डितः ।
ब्राह्मणः पाठयेद्यं च पितेव यत्नपूर्वकम् ।। ६१ ।।

ददाति पुस्तकं प्रीत्या स च सत्सदृशो भवेत् ।
प्राप्नोति पुस्तकं स्वप्ने पथि वा यत्र तत्र वा ।। ६२ ।।

स पण्डितो यशस्वी च विख्यातश्च महीतले ।
स्वप्ने यस्मै महामन्त्रं विप्रो विप्रे ददाति चेत् ।। ६३ ।।

स भवेत्पुरुषः प्राज्ञो धनवान्गुणवान्सुधीः ।
स्वप्ने ददाति मन्त्रं वा प्रतिमां वा शिलामयीम् ।। ६४ ।।

यस्मै ददाति विप्रश्च मन्त् सिद्धिश्च तद्भवेत् ।
विप्रं विप्रसमूहं च दृष्ट्वा नत्वाऽऽशिषं लभेत् ।। ६५ ।।

राजेन्द्रः स भवेद्वाऽपि किंवा च कविपण्डितः ।
शुक्लधान्ययुतां भूमीं यस्मै विप्र समुत्सृजेत् ।। ६६ ।।

स्वप्नेऽपि परितुष्टश्च स भवेत्पृथिवीपतिः ।
स्वप्न विप्रो रथे कृत्वा नानास्वर्गं प्रदर्शयेत् ।। ६७ ।।

चिरंजीवी भवेदायुर्धनवृद्धिर्भवेद्ध्रुवम् ।
विप्राय विप्रः संतुष्टो यस्मै कन्यां ददाति च ।। ६८ ।।

स्वप्ने च स भवेन्नित्यं धनाढ्यो भूवतिः स्वयम् ।
स्वप्ने सरोवरं दृष्टवा समुद्रं वा नदीं नदम् ।। ६९ ।।

शुक्लाहिं शुक्लशैलं च दृष्ट्वा श्रियमवाप्नुयात् ।
यं पश्यन्ति मृतं स्वप्ने स भवेच्चिरजीवनः ।। ७० ।।

अरोगी रोगिणं दु खी सुशिनं च सुखं भवेत् ।
दिव्या स्त्री यं प्रवदति मम स्वामी भवानिति ।। ७१ ।।

स्वप्ने दृष्ट्वा च चागतिं स च राजा भवेद्दृढम् ।
स्वप्ने वा कालिकां दृष्ट्वा लब्धवा स्फटिकमालिकाम् ।। ७२ ।।

इन्द्रचापं शक्रवज्रं स प्रतिष्ठां लभेद्ध्रुवम् ।
स्वप्ने वदति यं विप्रो मम दासो भवेति च ।। ७३ ।।

हरिदास्यं च मद्भक्तिं स लब्ध्वा वैष्णवो भवेत् ।
स्वप्ने विप्रो हरीः शंभुर्ब्राह्मणी कमला शिवा ।। ७४ ।।

शक्ला स्त्री देवमाता वा जाह्नवी वा सरस्वती ।
गोपालिकावेषधरी बालिका राधिका मम ।। ७५ ।।

बालश्च बालगोपालः स्वप्नविद्भिः प्रकाशितः ।
एष ते कथितो नन्द सुस्वप्नः पुण्यहेतुकः ।।
श्रोतुमिच्छसि किं वा त्वं किं भूयः कथयामि ते ।। ७६ ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारादनाo सुस्वप्नकथानं
नाम सप्तसप्ततितमोऽध्यायः ।। ७७ ।।