प्रमुखा विकल्पसूचिः उद्घाट्यताम्

ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०७९

← अध्यायः ७८ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः ०७९
[[लेखकः :|]]
अध्यायः ८० →

अथैकोनाशीतितमोऽध्यायः
नन्द उवाच
राहुग्रस्तः कथं सूर्यश्चन्द्रो वाऽपि जगत्प्रभो ।
नेष्टश्चन्द्रः कथं भाद्रे चतुर्थ्यां चासिते सिते ।। १ ।।

वेदानां जनकस्त्वं च कं पृच्छामित्वया विना ।
वेदे पुराणे गोप्यं यन्न जानन्ति विपश्यितः ।।
इति तद्वचनं श्रुत्वा चेदं वचनमब्रवीत् ।। २ ।।

श्रीभगवानुवाच
अतथ्यं वचनं चेदं निषिद्धं वैदिकैरपि ।
क्षमस्व नन्द भद्रं ते प्रश्नमन्यं कुरुष्व माम् ।। ३ ।।

बिश्वस्तं वचनं तात न प्रकाश्यं मनीषिभिः ।
विघ्नः प्रकाशे भवति सतां छिद्रं च दैवतः ।। ४ ।।

नन्द उवाच
कथयस्व जगन्नाथ न भक्ते व़ञ्चनं कुरु ।
अदृश्यौ चापि देवेशौ राहुग्रस्तौ च पुष्यदौ ।। ५ ।।

श्रीभगवानुवाच
शृणु नन्द प्रवक्षयामि कथामेतां पुरातनीम् ।
यां श्रुत्वा निष्कलङ्कश्च तीर्थस्नायी भवेन्नरः ।। ६ ।।

सर्वपातकिनं दृष्ट्वा यत्पापं लभते नरः ।
आख्यानश्रवणोनैव भस्मीभूतं भविष्यति ।। ७ ।।

एकदा जमदग्निश्च महाकौतूहलान्वितः ।
रेणुकासहितस्तुष्टो जगाम नर्मदातटम् ।। ८ ।।

निर्जने नर्मदातीरे विजहार तया सह ।
नवोढया च सुन्दर्या नवयौवनयुक्तया ।। ९ ।।

सुवेषया सुस्मितया रत्नभूषणयुक्तया ।
नतया स्तनभारेण श्रोणीभारेण मन्दया ।। १० ।।

सुन्दरीणामतुलया श्वेतचम्पकवर्णया ।
सुपूर्णचन्द्राननया कटाक्षयुतया तथा ।। ११ ।।

अतीवसूक्ष्माम्बरया कामबाणार्तया व्रज ।
पुलकाञ्चितसर्वाङ्गसंभोगेनापि मूर्च्छया ।। १२ ।।

पुंस्कोकिलयुते रम्ये शब्दिते सुमधुव्रते ।
सुगन्धिवायुसंयुक्ते पुष्पतल्पान्विते शुभे ।। १३ ।।

चन्दनोक्षितसर्पाङ्गं वस्त्रमाल्यधरं मुनिम् ।
महारासरसाढ्यं तमुवाच भास्करः स्वयम् ।। १४ ।।

वेदकर्तुः प्रपौत्रस्तवं ब्रह्मणश्च जगत्वतेः ।
चतुर्वेदविधेयेषु सुनिष्णातः सदा शुचिः ।। १५ ।।

वेदाङ्गकर्ता धर्मज्ञः श्रेष्ठो वेदविदां वरः ।
महातपस्वी तेजस्वी ब्रह्मचारी च सुव्रती ।। १६ ।।

युष्मद्विधोक्तं शास्त्रं च पठित्वाऽन्यश्च पण्डितः ।
वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः ।। १७ ।।

धर्म त्यजति धर्मज्ञो ह्यधर्मेण रतः कथम् ।
दिवामैथुनदोषं च वक्ति वेदो विशेषतः ।। १८ ।।

अहं च धर्मिणां साक्षी तेन त्वां कथयामि ते ।
सूर्यस्य वचनं श्रुत्वा तत्याज मैथुनं द्विजः ।। १९ ।।

दृष्ट्वा पुरो विप्ररूपं सूर्य तेजस्विनं सुरम् ।
उवाच सूर्य रक्तास्यः कोपलज्जासमन्वितः ।।
रेणुका लज्जिता तत्र विधार्य वाससी सती ।। २० ।।

जमदग्निरुवाच
को भवान्पण़्डितंमन्यो न त्वदन्योऽस्ति पण्डितः ।
अहं भृगोर्भगवतः शिष्यस्त्वं कश्यपस्य च ।। २१ ।।

चतुर्वेदांश्च जानामि धर्माधर्मनिरूपणो ।
वेदप्रणिहितो धर्मे ह्यधर्मस्तद्विपर्ययः ।। २२ ।।

अज्ञानी पुरुषः शश्वज्जडितश्च स्वकर्मणा ।
तेजीयसां न दोषाय वङ्नेः सर्वभुजो यथा ।। २३ ।।

अन्ये भवांश्च धर्मश्च साक्षी सर्वे च कर्मणाम् ।
फलदाता च शास्त्रज्ञो यतस्त्वत्तनयः सदा ।। २४ ।।

न वैष्णवानां शास्तारो यूयमस्माकमेव च ।
न वासुदेवभक्तानामशुभं विद्यते क्वचित् ।। २५ ।।


हरेः सुदर्शनं चक्रं शश्वद्रक्षति वैष्णवान् ।
नारायणश्च भगवान्स्वयं ब्रह्मा च शंकरः ।। २६ ।।

शास्ता यमश्च नास्माकं त्वं वै नापि दिवाकर।
राजपुत्रो यथा स्थाने वयं स्वच्छन्दगामिनः ।। २७ ।।

शक्तोऽहं भस्मसात्कर्तुं यमं सर्वसुरांस्तथा ।
महेन्द्रप्रभृतीन्सूर्य क्षणेनैवावलीलया ।। २८ ।।

कस्त्वं धर्मप्रवक्ता मे याहि स्वस्थानमेव च ।
मम शास्ता तु भगवाञ्छ्रीकृष्णः प्रकृतेः परः ।। २९ ।।

अद्य मे निर्जने स्थाने रसभङ्गस्त्वया कृतः ।
मम शाणत्पाप दृश्यो राहुग्रस्तो भविष्यसि ।। ३० ।।

द्रष्टुं त्वां ये घनाः सर्वे दूरीभूता भवन्ति ते ।
त्वामाच्छन्नं करिष्यन्ति वायुना प्रेरितास्तथा ।। ३१ ।।

स्वतेजसा भवान्गर्वाद्धततेजा भविष्यसि ।
मेघाच्छन्नः स्वल्पतेजा राहुग्रस्तो भवान्भव ।। ३२ ।।

ब्राह्मणस्य वचः श्रुत्वा भगवान्भास्करः स्वयम् ।
ततः पुटाञ्जलिर्भूत्वा तुष्टाव मुनिपुंगवम् ।। ३३ ।।

भास्कर उवाच
अवध्याः सर्वे धर्मज्ञ धन्या मान्याः पुरस्कृताः ।
नारायणश्च भगवाञ्छंभुर्ब्रह्मा स्वयं प्रभुः ।। ३४ ।।

गणेशाश्चापि शेषश्च धर्मश्चापि सनातनः ।
स्तुवान्ति ब्रह्मणं सर्वे विप्ररूपी जनार्दनः ।। ३५ ।।

विप्रदत्तश्च यो ब्रह्मन्वयमस्मन्मुखो द्विजः ।
हुताशनश्च द्विमुखाः सुराः सर्वे द्विजो वरः ।। ३६ ।।

क्षमस्व वैष्णवः शुद्धः स्वधर्म स समाचर ।
वैष्णवानां कृतः कोपो हृदि येषां जनार्दनः ।। ३७ ।।

अस्माभिः पूजिता विप्रा युषमाभिः पूजिताः सुराः ।
परस्परं स्नेहपात्रं चेदमाचरणं द्विज ।। ३८ ।।

अहमेवं त्वया शप्तो मया शप्तो भवान्भव ।
अन्यथा मां वदन्त्येवं सूर्य निस्तेजसं जनाः ।। ३९ ।।

पराभूतः क्षत्रियेण भविष्यसि द्विजेश्वर ।
मरणं क्षत्रियास्त्रेण भवतश्च भविष्यति ।। ४० ।।

सूर्यस्य वचनं श्रुत्वा चुकोप ब्राह्मणः पुनः ।
तं शशापातिरक्तास्यः शंभुना निर्जितो भवान् ।। ४१ ।।

उभयोः कलहं ज्ञात्वा कश्यपेन सह व्रज ।
आजगाम स्वयं ब्रह्मा विधाता जगतामपि ।। ४२ ।।

आगत्य ब्रह्मा संत्रस्तं बोधयामास भास्करम् ।
मुनिश्रेष्ठं च धर्मज्ञं धर्मज्ञानां गुरोर्गुरुः ।। ४३ ।।

ब्रह्मोवाच
क्षमस्व भास्कर त्वं च साक्षान्नारायणो भवान् ।
युष्माकं परिपाल्यश्चाप्यवध्यो ब्राह्मणाः सदा ।। ४४ ।।

अहं करोमि भवतो विप्रशापान्तमुल्बणम् ।
अत्राहमागतस्त्रस्तो भृगुणा प्रेरितस्ततः ।। ४५ ।।

स्फुटोऽहं प्रेरितश्चापि कश्यपेन मरीचिना ।
शान्तो भव सुरक्षेष्ठ साक्षीत्वं सर्वकर्मणाम् ।। ४६ ।।

कुत्रचिद्दिवसे ब्रह्मंस्त्वं तत्र कुत्रचित्क्षणम् ।
भविष्यसि घनाच्छन्नः सद्यो मुक्तो भविष्यसि ।। ४७ ।।

न्यूनातिरक्ते वर्षे च राहुग्रस्तो भविष्यसि ।
तत्रादृश्यश्च केषांचित्पुण्यदृश्यो हि कस्यचित् ।। ४८ ।।

अन्यथा सर्वकालेन पुण्यदृश्यो भवान्भुवि ।
त्वां दृष्ट्वा च नमस्कृत्य सर्वे निष्पापिनो जनाः ।। ४९ ।।

जन्मसप्ताष्टरिः फाङ्कचतुर्थे दशमे तथा ।
जन्मर्क्षे निधनै नणामदृश्यस्त्वं भविष्यसि ।। ५० ।।

अस्तकाले घनाच्छन्ने मध्याहनस्थे जलेऽपि वा ।
अर्धोदिते च काने च पापदृश्यो भविष्यसि ।। ५१ ।।

भार्यादुःखनिमित्तेन भार्यया हेतुभूतया ।
श्वशुरेण शालकेन हततेजा भविष्यसि ।। ५२ ।।

अन्यथा तव तेजश्च संज्ञा सहितुमक्षमा ।
मालीसुमालियुद्धे च शंभुना त्वं पराचितः ।। ५३ ।।

इत्येवमुक्त्वा सूर्य च बोधयामास ब्राह्मणम् ।
नम्रं शापपराभूतं लज्जितं कोपितं व्रज ।। ५४ ।।

हे विप्र श्वगृहं गच्छ गच्छ वत्स यथासुखम् ।
त्वत्तेजसा क्षणेनैव भस्मीभूतं भवेज्जगत् ।। ५५ ।।

सूर्यस्त्वत्परिपाल्यश्च भवान्सूर्यस्य नित्यशः ।
परस्परं च पूज्यश्च संबन्धः पोष्यपोष्कः ।। ५६ ।।

हर्यशेन क्षत्रियेण कार्तवीर्यार्जुनेन च ।
भविष्यसि न संदेहः पराभूतो द्विजो मृतः ।। ५७ ।।

पुरा ते प्राक्तनं सर्व कदाचिन्न हि खण्डितम् ।
नारायणाश्च स्वांशोन तव पुत्रो भविष्यति ।। ५८ ।।

त्रिः सप्तकृत्वो जगतीं निःक्षत्रां च करिष्यति ।
मृत्युस्ते यशसो बीजं भदिष्यति महीतले ।। ५९ ।।

इत्येवमुक्त्ता ब्रह्मा च ययौ गेहं व्रजेश्वर ।
प्रययौ जमदग्निश्च भास्करश्च स्वमन्दिरम् ।। ६० ।।

इत्येवं कथितं तात आख्यानं पुण्यकारकम् ।
राहुग्रस्तो भास्करश्चाप्यदृश्यो येन हेतुना ।। ६१ ।।

चतुर्थ्यामुदितश्चन्द्रो भाद्रे मासि सितासिते ।
अदृश्यो नष्टरूपश्च श्रूयतां येन हेतुरा ।। ६२ ।।

राहुग्रस्तः कलङ्की वा पुराशप्तो मया पितः ।
सर्व त्वां कथयिष्यामि कथामेतां पुरातनीम् ।। ६३ ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo भगवन्नन्दसंo ।।
एकोनाशीतितमोऽध्यायः ।। ७९ ।।