ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०८०

← अध्यायः ७९ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः ८०
[[लेखकः :|]]
अध्यायः ८१ →

अथाशोतितमोऽध्यायः
श्रीकृष्ण उवाच
पुरा तारा गुरोः पत्नी नवयौवनसंयुता ।
रत्नभूषणभूषाढ्या वरसूक्ष्माम्बरा सती ।। १ ।।

सुश्रोणी सस्मिता रम्य सुन्दरी सुमनोहरा ।
अतीव कबरीरम्या मालतीमाल्यभूषिता ।। २ ।।

मिन्दूरबिन्दुना साकं चारुचंदनबिन्दुभि। ।
कस्तूरीबिन्दुनाऽधश्च भालमध्यस्थलोज्ज्वला ।। ३ ।।

रत्नेन्द्रसारनिर्माणक्वणन्मञ्जीररञ्जिता ।
सुवक्रलोचना श्यामा सुचारुकज्जलोज्ज्वला ।। ४ ।।

सुचारुसारमुक्ताभदन्तपङ्क्तिमनोहरा ।
रत्नकुण्डलयुग्मेन चारुगण्डस्थलोज्ज्वला ।। ५ ।।

कामिनीष्वतुला बाला गजेन्द्रमन्दगामिनी ।
सुकोमला चन्द्रमुखी कामाधारा च कामुकी ।। ६ ।।

स्वर्गमन्दाकिनीतीरे स्नाता स्निग्धाम्बरा वरा ।
ध्यायन्ती गुरुपादं सा स्वगृहं गमनोन्मुखी ।। ७ ।।

दृष्ट्वा तस्याश्च सर्वाङ्गमनङ्गबाणपीडितः ।
भाद्रे चतुर्थ्यां चन्द्रश्च जहार चेतनां व्रज ।। ८ ।।

ज्ञानं क्षणेन संप्राप्य रथस्थो रमिको बली ।
रथमारोहयामास करे धृत्वा च तारकम् ।। ९ ।।

कामोन्मत्तः कामिनीं तां समाश्लिष्य चुचुम्ब च ।
शृङ्गारं कर्तुमुद्युक्तं तमुवाच गुरुप्रिया ।। १० ।।

तारकोवाच
त्यज मां त्यज मां चन्द्र सुरेषु कुलपांसन ।
गुरुपत्नीं ब्राह्मणीं च पातिव्रत्यपरायणाम् ।। ११ ।।

गुरुपत्नीसंगमने ब्रह्महत्याशतं भवेत् ।
गुरुपत्नी विप्रपत्नी यदि सा च पतिव्रता ।। १२ ।।

ब्रह्महत्यासहस्रं च तस्याः संगमने लभेत् ।
पुत्रस्त्वं तव माताऽहं धैर्य कुरु सुरेश्वार ।। १३ ।।

धिक्त्वां श्रुत्वा सुरगुरुर्भस्मीभूतं करिष्यति ।
पुत्राधिकश्च शिष्यश्च प्रियो मत्स्वामिनो भवान् ।। १४ ।।

स्वधर्म रक्ष पापिष्ठ मामेवं मातरं त्यज ।
दास्यामि स्त्रीवधं तुम्यं यदिमां संग्रहीष्यसि ।। १५ ।।

विलङ्ध्य तारावचनं तां च संभोक्तुमुद्यतम् ।
शशाप तारा कोपेन निष्कामा सा पतिव्रता ।। १६ ।।

राहुग्रस्तो घनग्रस्तः पापदृश्यो भवान्भव ।
कलङ्की यक्ष्मणा ग्रस्तो भविष्यसि न संशयः ।। १७ ।।

चन्द्रं शप्त्वा तदा तूर्ण कामदेवं शशाप सा ।
तेजस्विना केनचित्त्वं भस्मीभूतो भविष्यसि ।। १८ ।।

चन्द्रस्तारां गृहीत्वा च कृत्वाऽपि रमणं व्रज ।
क्रोडेनिधाय प्रययौ रुदतीं ता शुचाऽन्विताम् ।। १९ ।।

निर्जने निर्जने रम्ये शैले शैले मनोहरे ।
सरोनदनदीनां च तीरे तीरे मनोहरे ।। २० ।।

मधुव्रतपिकोक्ते च पुष्पोद्याने सुपुष्पिते ।
रम्यायां पुष्पशथ्यायां स रेमे रामया सह ।। २१ ।।

चदनोक्षितसर्वाङ्गो मधुपानरतः सुरः ।
सुखसंभोगसंसक्तो बुबुधे न दिवानिशम् ।। २२ ।।

मलये मलयारण्ये मलयानिलसंयुते ।
स्यन्दने चन्दनवने पश्चिमोदधिसंनिधौ ।। २३ ।।

त्रिकूटे वटमूले च तत्र चन्द्रसरोवरे ।
सुचारुशतपत्राणां पत्रे चन्दनचर्चिते ।। २४ ।।

सुचारुचम्पकोद्याने चम्पकानिलपूजिते ।
क्षीरोदकाञ्चनीभूमौ क्रौञ्चकाञ्चनपर्वते ।। २५ ।।

रत्नशैले मणिमये मणिमन्दिरसुन्दरे ।
माणिक्यमुक्तासारेण हीरहारेण शोभिते ।। २६ ।।

सुचारुवस्त्रचित्राढ्ये श्वेतचामारदर्पणैः ।
भूषिते रत्नदीपैश्च देवक्रीडे प्रियस्थले ।। २७ ।।

वारुणीं मदिरां पीत्वा वरुणानीसमन्वितः ।
बरुणो रमते यत्र तत्र रेमे तया सह ।। २८ ।।

पावने पवनोद्याने परिजातानिलेन च ।
सुगन्धिमोहिते रत्नमालातीरे च निर्मले ।। २९ ।।

ऋक्षशैले कल्पवृक्षवने वह्निप्रियाश्रमे ।
पपौ च कामधेनूनां क्षीरं क्षीरोदधेस्तटे ।। ३० ।।

वह्निशुद्धांशुकयुगं वह्निस्तस्मै ददौ मुदा ।
वरुणो रत्नमालां च नत्नच्छत्रं समीरणः ।। ३१ ।।

तत्र दृष्ट्वाऽसुरगुरं बलिगेहात्समागतम् ।
प्रणम्य सर्वमुक्त्वा च चन्द्रस्तं शरणं ययौ ।। ३२ ।।

शुक्रस्तं बोधयामास वचनं नीतियुक्तितः ।
निरपेक्षो सुनिश्रेष्ठो वेदवेदाङ्गपारगः ।। ३३ ।।

शुक्र उवाच
शृणु वत्स प्रवक्ष्यामि गुरवे देहि तारकाम् ।
शंभोश्च सुरुपुत्राय पौत्राय ब्रह्मणश्च वै ।। ३४ ।।

पूजिताय सुरार्णा च देया तस्मै निशापते ।
प्रियाय तत्प्रिर्यां दत्तवा शीघ्रं त्वं शरणं व्रज ।। ३५ ।।

गुरुपत्नीं मातृतुल्यां त्यज सद्वचनाद्विधो ।
कुरु पापक्षयं पापनिवृत्तिस्तु महाफला ।। ३६ ।।

सतीनां गुरुपत्नीर्नां ग्रहणे च बलेन च ।
ब्रह्महत्यासहस्रार्णां पातकं लभते जनः ।। ३७ ।।

कुम्भीपाके च पच्यन्ते यावद्वै ब्रह्मणः शतम् ।
साम्यं नारायणस्थाने तृणपर्वतयोः सुर ।। ३८ ।।

कस्त्वं वत्स हरेः स्थाने कर्मभोगोऽस्ति ब्रह्मणः ।
नारायणाश्रीताः सर्वे जीविनस्त्रिविधा भवे ।। ३९ ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo
भगवन्नन्दसंo ताराहरणेऽशीतितमोऽध्यायः ।। ८० ।।