प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ८० ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः ७१
[[लेखकः :|]]
अध्यायः ८२ →


अथैकाशीतितमोऽध्यायः
श्रीकृष्ण उवाय
एतस्मिन्नन्तरे शुक्रः सुरक्षेणीं ददर्श सः ।
आकाशमार्गादायान्तीं रणशस्त्रास्त्रधारिणीम् ।। १ ।।

पताकार्नां त्रिकोटिश्च शतकोटिर्महारथाः ।
शतकोटिर्गजेन्द्रार्णां रथार्नां तच्चतुर्गुणम् ।। २ ।।

अश्वार्नां तत्छतगुणं समूहं च सुदारुणम् ।
पदातीर्नां समूहं च तुरङ्गेभ्यश्च षड्गुणम् ।। ३ ।।

दुंदूभीवाद्यभाण्डानां पञ्चलक्षं तथैव च ।
पटहानां त्रिलक्षं च डिण्डिमानां द्विलक्षकम् ।। ४ ।।

ऐरावते महेन्द्रं च श्वेताश्वे धर्ममेव च ।
कुबेरं वरुणं वह्निं रथस्थं पवनं तथा ।। ५ ।।

महिषस्थं यमं चैव स्यन्दनस्थं दिवाकरम् ।
ईशानं च वृषेन्द्रस्थमनन्तं नागवाहम् ।। ६ ।।

आदित्यांश्च वसून्रुद्रान्सिद्धगन्धर्वाकिन्नरान् ।
जीवन्मुक्तमुनीनां च समीहं सूर्यवर्चसम् ।। ७ ।।

तान्दृष्ट्वा निर्भयः शुक्रः समाश्वास्य निशाकरम् ।
सुराणां द्विगुणं सैन्यमाजुहाव व्रजेश्वर ।। ८ ।।

रत्नमालानदीतीरे हुताशनप्रियाश्रमे ।
तत्र तस्थौ दैत्यसैन्यं पुण्यक्षीरोदधेस्तटे ।। ९ ।।

एतस्मिन्नन्तरे शुकः समीपे सरसस्तटे ।
पुण्याश्रमेऽक्षयवटे सुरसैन्यात्समागतम् ।। १० ।।

ददर्श वृषभस्थं च शंकरं सर्वंशंकरम् ।
त्रिशलपट्टीशधरं व्याघ्रचर्माम्बरं वरम् ।। ११ ।।

तेजःस्वरूपं परमं भक्तानुग्रहविग्रहम् ।
सर्दसंपत्प्रदातारं सर्वज्ञं सर्वकारणम् ।। १२ ।।

सर्वेश्वरं सर्वपूज्यं सर्वहूपं सनातनम् ।
शरणागतदीनार्तंपरित्राणपरायणम् ।। १३ ।।

सस्मितं परमात्मानं ज्वलन्तं ब्रह्मतेजसा ।
संत्रस्तः सहसोत्थाय प्रणनाम पदाम्बुजे ।। १४ ।।

ददौ शुभाशिषं तस्मै सुप्रसन्नः परात्परः ।
रत्नसिंहासने तं च वासयामास सादरम् ।। १५ ।।

अथ तत्रान्तरे विप्रं पुरतस्तं ददर्श सः ।
शान्तं स्वयं विधातारं रत्नस्यन्दनमुन्दरम् ।। १६ ।।

वह्निशुद्धांशुकाधानं रत्नमालाविभूषितम् ।
प्रसन्नं सुस्मितं शुद्धं जगतामीश्वरं परम् ।। १७ ।।

कर्मणां फलदातारं तपोरूपं तपश्विनाम् ।
वेदानां जनकं वेदप्रसूं कान्तं मनोहरम् ।। १८ ।।

पुटाञ्जलिस्तदा त्रस्तः प्रणनाम सुरेश्वरम् ।
रत्नसिंहासने रम्ये वासयामास भक्तितः ।। १९ ।।

पूजां चकार भक्त्या च तयोश्चरणपङ्कजे ।
नोचितं कुशलप्रश्नं तयोः कल्याणमेव च ।। २० ।।

विधाता जगतां नन्द शकाचार्यं पुरस्थितम् ।
सुनीतिं कथयामास यत्नतः शंमुसंमतः ।। २१ ।।

श्रृणु शुक्र प्रवक्ष्यामि तुर्नीतिं शशिनः सुत ।
लज्जाकारं त्रिजगतां कर्म वेदवहिष्कृतम् ।। २२ ।।

स्नात्वा गृहोन्मुखीं तार्रां गुरुपत्नीं पतिव्रताम् ।
गृहीत्वा शरणापन्नस्त्वयि पापश्च संप्रतम् ।। २३ ।।

प्रस्तुतं देवसैन्यं च पश्य वत्स रणोद्यतम् ।
अहं शंभुस्त्वत्समीपं तदर्थं च समागतौ ।। २४ ।।

शंभुरुवाच
चन्द्रमानय हे विप्र यद्यात्मशिवमिच्छसि ।
संहरिष्ये सिरस्तस्य त्रिशूरेन च पापिनः ।। २५ ।।

अन्यथा संहरिष्यामि सर्वदैत्यान्क्षणेन च ।
मयि रुष्टे रक्षिता को दैत्यार्नां च भवेद्द्विज ।। २६ ।।

सद्यः पाशुपतेनैव वाय्वस्त्रेण च र्सांप्रतम् ।
सुरार्णां रिपुवर्गं च हरिष्यामि च लीलया ।। २७ ।।

दुर्वाससो मदंशस्य गुरुस्तस्याङ्गिरा सुनिः ।
परस्पराच्च संबन्धाद्गुरुपुत्रो गुरुर्मम ।। २८ ।।

बृहस्पतिश्च तेजस्वी तं भस्मीकर्तुमीश्वरः ।
न चकार कृपालुश्चेत्प्रियशिष्येण हेतुना ।। २९ ।।

उतथ्यपत्नीं दृष्ट्वा स पुरा रेमे स्वकामतः ।
तत्पतेः शापतोऽस्यैव परग्रस्ता प्रिया सती ।। ३० ।।

पत्नीं मद्गुरुपुत्रस्य देहि तार्रां मनोहराम् ।
मद्वैरिणं च चन्द्रं च भ्रादृभार्यापहारिणम् ।। ३१ ।।

शरणागतदीनार्तं न हि रक्षेद्यदीश्वरः ।
पच्यते निरये तावद्यावदिन्दाश्चतुदर्श ।। ३२ ।।

अत्र नास्ति विचारो मे पापिष्ठे शरणागते ।
पापी यं शरणं याति स पापी च न संशयः ।। ३३ ।।

देहि तं विप्रशार्दूल पापिनं मातृगामिनम् ।
बहिष्कृत्य स्वाश्रमाच्च तारासाध्वीसमन्वितम् ।। ३४ ।।

शुक्र उवाच
सुराणामसुराणां च सर्वेषां जगतामपि ।
त्वमेव शास्ता भगवान्को वा शास्ति सुरेऽसुरे ।। ३५ ।।

कृत्वा सुराणां साहाय्यं कथं दैत्यान्हनिष्यसि ।
संहर्तुः सर्वजगतां दैत्यौधे किं च पौरुषम् ।। ३६ ।।

त्वं जयोतिः परमं ब्रह्म सगुणो निर्गुणः स्वयम् ।
गुणभेदान्मूर्तिभेदो ब्रह्मविष्णुशिवात्मकः ।। ३७ ।।

बलिद्वारे गदापाणिः स्वयमेव भवान्प्रभो ।
स्वयं प्रदत्ता शक्राय तस्मै श्रीरपि लीलया ।। ३८ ।।

क्षमस्व भगञ्छंभो हर क्रोधं च संहर ।
किं पौरुषं च भवतो ब्रह्मणस्यापि हिंसया ।। ३९ ।।

अहं जीवञ्छरीरेण न दास्यामि निशाकरम् ।
शरणागतदीनार्तं लज्जिर्वं पापसंयुतम् ।। ४० ।।

अहं च त्वत्पदाम्भोजे शरणं यामि शंकर ।
यथोचितं कुरु विभो जगत्सर्वं तथैव च ।। ४१ ।।

शुक्रस्य वचनं श्रुत्वा प्रसन्नो भगवाञ्छिवः ।
इत्युवाच निशानाथं समानय शुभं भवेत् ।। ४२ ।।

एतस्मिन्नन्तरे ब्रह्मा बोधयित्वा कविं विभुः ।
समानीय निशानाथं तारकासहितं व्रज ।। ४३ ।।

शंभोश्च चरणाम्भोजे चकार च समर्पणम् ।
शंभुस्तं प्रीतियुक्तश्च वासयामास वक्षसि ।। ४४ ।।

दत्तवा तस्मै पादरेणुं निष्पापं च चकार सः ।
दत्तवा तन्मस्तके हस्तं कृपालुरभयं ददौ ।। ४५ ।।

क्षीरोदे स्नापयित्वा च प्रायश्चित्तेन शंकरः ।
चकार चन्द्रं निष्पापं ब्रह्मणा सहितः शुचिम् ।। ४६ ।।

योगेन चन्द्रं योगीन्द्रो द्विखण्डं तं चकार सः ।
ररक्षार्धं ललाटे च सोऽप्यर्धं ब्रह्मणः पुरः ।। ४७ ।।

अत एव महादेवो बभूव चन्द्रशेखरः ।
मृगाङ्को लज्जितस्तत्र कलङ्कीं देवसंसदि ।। ४८ ।।

लज्जया च स्वयोगेन देहत्यागं चकार सः ।
तच्छरीरं च क्षीरोदे ब्रह्मणा च समर्पितम् ।। ४९ ।।

रुरोदात्रिश्च कृबया शुचा क्षीरोदधेस्तटे ।
अत्रेश्चक्षुर्जलं तस्य पपात च जले व्रज ।। ५० ।।

तस्माद्बभूव चन्द्रश्च निष्पापो देवसंसदि ।
ब्रह्मा च भगवाञ्छंभुरभिषेकं चकार तम् ।।
उवाच तं महादेवो निर्भयं देवसंसदि ।। ५१ ।।

महादेव उवाच
स्वस्थानं गच्छ पुत्र त्वं कुरुष्व विषयं मुदा ।
पश्चात्तस्याश्च शापेनयक्ष्मग्रस्तोभविष्यसि ।। ५२ ।।

व्यर्थं पतिव्रताशापं कर्तुमीशश्चको भुवि ।
मदाशिषा यक्ष्मणश्च प्रतीकारो भविष्यति ।। ५३ ।।

यस्माद्भाद्रचतुर्थ्यां तु गुरुपत्नीक्षतिः कृता ।
तस्मात्तस्मिन्दिने वत्स पापदृश्यो युगे युगे ।। ५४ ।।

नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ।
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ।। ५५ ।।

देहत्यागेन हे वत्स कर्मभोगो न नश्यति ।
प्रायश्चित्तान्न संदेहो ङ्यस्तमेव भविष्यति ।। ५६ ।।

ताराबहरणावत्स कलङ्कश्चन्द्रमण्डले ।
मृगाकृतिर्विलग्नश्च भविष्यति युगे युगे ।। ५७ ।।

शृणु वाक्यमिहाऽऽगच्छ तारके च पतिव्रते ।
सत्यं ब्रूहि कस्य गर्भंत्यक्त्वा शुद्धाभव प्रिये ।। ५८ ।।

अकामतो बलात्साध्वी न स्त्री जारेण दुष्यति ।
कामतो नरकं याति यावच्चन्द्रदिवाकरौ ।। ५९ ।।

उवाच तारा ब्रह्माणं गर्भं चन्द्रस्य सस्मितम् ।
जहसुर्देवताः सर्वाः शंभुश्च मुनिसंघकाः ।। ६० ।।

ददौ तारां च गुरवे लज्जिताय व्रजेश्वर ।
बृहस्पतिर्ययौ गेहं गृहीत्वा च पतिव्रताम् ।। ६१ ।।

तया प्रसूतं पुत्रं च सुन्दरं कनकप्रभम् ।
गृहीत्वाप्रययौ चन्दौनमस्कृत्य विधिं शिवाम् ।। ६२ ।।

ययुर्देवाश्च मुनयः शंभुश्च कमलोद्भवः ।
प्रययौ स्वगृहं शुक्रौ दैत्ययुक्तौ मुदाऽन्वितः ।। ६३ ।।

एतत्ते कथितं नन्द ह्याख्यानं पुण्यदं शुभम् ।
एतच्छ्रु त्वा तु निष्पापो निष्कलङ्की नरो भवेत् ।। ६४ ।।

धन्यं यशस्यमायुष्यं सर्वसंपत्करं परम् ।
शोकापनोदनं हर्षकरं मर्वत्र मङ्गलम् ।। ६५ ।।

त्यज शोकं सदा नन्द गृहं व्रज व्रजेश्वर ।
ब्रूहि सर्वं यशोदां च मत्प्रसूं गोपिकागणम् ।। ६६ ।।

बोधयिष्यसि सर्वां तां स्त्रीजातिं शोकसंयुताम् ।
सदीयज्ञानदत्तेन हर्षयुक्तः सदा भव ।। ६७ ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo ताराहरणं
नामैकाशीतितमोऽध्यायः ।। ८१ ।।