प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ८१ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः ८२
[[लेखकः :|]]
अध्यायः ८३ →

अथ द्व्यशीतितमोऽध्यायः
नन्द उवाच
श्रुतं सर्वं महाभाग दुःस्वप्नं कथय प्रभो ।
उवाच तं वै भगवाञ्छ्रूयतामिति तद्वचः ।। १ ।।

श्रीभगवानुवाच
स्वप्ने हसति यो हर्षाद्विवाहं यदि पश्यति ।
नर्तनं गीतमिष्टं च विपत्तिस्तस्य निश्चितम् ।। २ ।।

दन्ता यस्य विबीड्यन्ते विचरन्तं च पश्यति ।
धनहानिर्भवेत्तस्य पीडा चापि शरीरजा ।। ३ ।।

अम्यङ्गितस्तु तैलेन यो गच्छेद्दक्षिणां दिशम् ।
खरोष्ट्रमहिषारूढो मृत्युस्तस्य न संशयः ।। ४ ।।

स्वपने कर्णे जपापुष्पमशोकं करवीरकम् ।
विपत्तिस्तस्य तैलं च लवणं यदि पश्यति ।। ५ ।।

नग्नां कृष्णां छिन्ननासां शूद्रस्य विधवां तथा ।
कपर्दकं तालफलं दृष्ट्वा शोकमवाप्नुयात् ।। ६ ।।

स्वप्ने रुष्टं ब्राह्मणं च ब्राह्मणीं कोपसंयुताम् ।
विपत्तिश्च भवेत्तस्य लक्ष्मीर्याति गृहाद्ध्रुवम् ।। ७ ।।

वनपुष्पं रक्तपुष्पं पलाशं च सुपुष्पितम् ।
कार्पासं शुक्लवस्त्रं च दृष्ट्वा दुःखमवाप्नुयात् ।। ८ ।।

गायन्तीं च हसन्तीं च कृष्णाम्बरधरां स्त्रियम् ।
दृष्ट्वा कृष्णां च विधवां नरो मृत्युमवाप्नुयात् ।। ९ ।।

देवता यत्र नृत्यन्ति गायन्ति च हसन्ति च ।
आस्फोटयन्ति धावन्ति तस्य देहो मरिष्यति ।। १० ।।

वान्तं मूत्रं पुरीषं च वैद्यं रौप्यं सुवर्णकम् ।
प्रत्यक्षमथवा स्वप्ने जीवितं दशमावधि ।। ११ ।।

कृष्णाम्बरधरां नारीं कृष्णमाल्यानुलेपनाम् ।
उपगूहति यः स्वप्ने तस्य मृत्युर्भविष्यति ।। १२ ।।

मृतवत्सं च मुण्डं च मृगस्य च नरस्य च ।
यः प्राप्तोत्यस्थिमालां च विपत्तिस्तस्य निश्चितम् ।। १३ ।।

रथं खरोष्ट्रसंयुक्तमेकाकी योऽधिरोहयेत् ।
तत्रस्थोऽपि च जागर्ति मृत्युरेव न संशयः ।। १४ ।।

अम्यङ्गिस्तु हविषा क्षीरेण मधुनाऽपि च ।
तक्रेणापि गुडेनैव पीडा तस्य विनिश्चितम् ।। १५ ।।

रक्ताम्बरधरां नारीं रक्तमाल्यानुलेपराम् ।
उपगूहति यः स्वप्ने तस्य व्याधिर्विनिश्चितम् ।। १६ ।।

पतितान्नखरेशांश्च निर्वाणाङ्गारमेव च ।
भस्मबूर्णां चितां दृष्ट्वा लभते मृत्युमेव च ।। १७ ।।

श्मशानं शुष्ककाष्ठं च तृणानि लोहमेव च ।
शमीं च किं चित्कृष्णाश्वं दृष्ट्वा दुःखं लभेद्ध्रुवम् ।। १८ ।।

पादुकां फलकं रक्तं पुष्पमाल्यं भयानकम् ।
माषं मसूरं मुद्गं वा दृष्ट्वा सद्यो व्रणं लभेत् ।। १९ ।।

कटकं सरठं काकं भल्लूकं वानरं गवम् ।
पूयं गात्रमलं स्वप्ने केवलं व्याधिकारणम् ।। २० ।।

भग्नभाण्डं क्षतं शूद्रं गलत्कुष्ठं च रोगिणम् ।
रक्ताम्बरं च जटिलं सूकरं महिषं खरम् ।। २१ ।।

अन्धकारं महाघोरं मृतजीवं भयंकरम् ।
दृष्ट्वा स्वप्ने योनिलिङ्ग विपत्तिं लभतेध्रुवम् ।। २२ ।।

कुवेषरुपं मलेच्छं च यमदूतं भयंकरम् ।
पाशहस्तं पाशशस्त्रं दृष्ट्वा मृत्युं लभेन्नरः ।। २३ ।।

ब्रह्मणो ब्राह्मणी बाला बालको वा सुतः सुता ।
विलापं कुरुते कोपाद्दृष्ट्वा दुःखमवाप्नुयात् ।। २४ ।।

कृष्णं पुष्पं च तन्माल्यं सस्यं शस्त्रास्त्रधारिणम् ।
म्लेच्छां च विकृताकारं दृष्ट्वा मृत्युंलभेद्ध्रुवम् ।। २५ ।।

त्यक्तप्राणं मृतं दृष्ट्वा मृत्युं च लभते ध्रुवम् ।
मत्स्यादि धारयेद्यो हि तद्भ्रातुर्मरणं ध्रुवम् ।। २६ ।।

वाद्यं च नर्तनं गीतं गायनं रक्तवाससम् ।
मृदङ्गवाद्यमानं तं दृष्ट्वा दुःखं लभेद्ध्रुवम् ।। २७ ।।

छिन्नं वाऽपि कबन्धं वा विकृतं मुक्तकेशिनम् ।
क्षिपं नृत्यं च कुर्वन्तं दृष्ट्वा मृत्युं लभेन्नरः ।। २८ ।।

मृतो वाऽपि मृता वाऽपि कृष्णा म्लेच्छा भयानका ।
उपगूहति यं स्वप्ने तस्य मृत्युर्विनिश्चितम् ।। २९ ।।

येषां दन्ताश्च भग्नाश्च केशाश्चापि पतन्ति हि ।
धनहानिर्भवेत्तस्य पीडा वा तच्छरीरजा ।। ३० ।।

उपद्रवन्ति यं स्वप्ने श्रृङ्गिणो दंष्ट्रिणोऽपि वा ।
बालका मानवाश्चैव तस्य राजकुलाद्भयम् ।। ३१ ।।

छिन्नवृङं पतन्तं च शिलावृष्टिं तुषंक्षुरम् ।
रक्ताङ्गारं भस्मवृष्टिं दृष्ट्वा दुःखमावाप्नुयात् ।। ३२ ।।

गृहं पतन्तं शैलं वा धूमकेतुं भयानकम् ।
भग्नस्कन्धं तरोर्वाऽपि दृष्ट्वा दुःखमवाप्नुयात् ।। ३३ ।।

रथगेहशैलवृक्षगोहस्तितुरगाम्बरात् ।
भूमौ पतति यः स्वप्ने विपत्तिस्तस्य निश्चितम् ।। ३४ ।।

उच्चैः पतन्ति गर्तेषु भस्माङ्गारयुतेषु च ।
क्षारकुण्डेषु चूर्णेषु मृत्युस्तेषां न संशयः ।। ३५ ।।

बलाद्गृह्णाति दुष्टश्चच्छत्रं च यस्य मस्तकात् ।
पितुर्नाशो भवेत्तस्य गुरोर्वाऽपि नृपस्य वा ।। ३६ ।।

सुरभिर्यस्य गेहाच्च याति त्रस्ता सवत्मिका ।
प्रयाति पापिनस्तस्य लक्ष्मीरपि वसुंधरा ।। ३७ ।।

पाशेन कृत्वा बद्वं च यं गृहीत्वा प्रयान्ति च ।
यमदूताश्च ये म्लेच्छास्तस्य मृत्युर्विनिश्चितम् ।। ३८ ।।

गणको ब्राह्मणो वाऽपि ब्राह्मणी वा गुरुस्तथा ।
परिरुष्टः शपति यं विपत्तिस्तस्य निश्चितम् ।। ३९ ।।

विरोधिनश्य काकाश्च कुक्कुटा भल्लुकास्तथा ।
पतन्त्यागत्य यद्गात्रे तस्य मृत्युर्न संशयः ।। ४० ।।

महिषा भल्लुका उष्ट्रा सूकरा गर्दभास्तथा ।
रुष्टा धावन्ति यं स्वप्ने स रोगी निश्चितं भवेत् ।। ४१ ।।

रक्तचन्दनकाष्ठानि घृताक्तानि जुहोति यः ।
गायत्र्याश्च महस्रेण तेन शान्तिर्विधीयते ।। ४२ ।।

सहस्रधा चपेद्यो हि भक्त्यैनं मधुसूदनम् ।
निष्पाणो हि भवेत्सोऽपि दुःस्वप्नः सुस्वप्नो भवेत् ।। ४३ ।।

अच्युतं केशवं विष्णुं हरिं सत्यं जनार्दनम् ।
हंसं नारायणं चैव ह्येतन्नामाष्टकं शुभम् ।। ४४ ।।

शुचिः पूर्वमुखः प्राज्ञो दशकृत्वश्च यो जपेत् ।
निष्पापोऽपि भवेत्सोऽपि दुःस्वप्नः शुभवान्भवेत् ।। ४५ ।।

विष्णुं नारायणं कृष्णं माधवं मधुमूदनम् ।
हरिं नरहरिं रामं गोविन्दं दधिवामनम् ।। ४६ ।।

भक्त्या चेमानि नामानि दश भद्राणियो जपेत् ।
शतकृत्यो भक्तियुक्तो जप्त्वा नीरोगतां व्रजेत् ।। ४७ ।।

लक्षधा हि जपेद्यो हि बन्धनान्मुच्यते ध्रुवम् ।
जप्त्वा च दशलक्षं च महावन्ध्या प्रसूयते ।। ४८ ।।

हविष्याशी यतः शुद्धो दरिद्रो धनवान्भवेत् ।
शतलक्षं च जप्त्वा च जीवन्मुक्तो भवेन्नरः ।। ४९ ।।

ओं नमः शिवं दुर्गां गणपतिं कार्तिकेयं दिनेश्वनम् ।
धर्मं गङ्गां च तुलसीं राधां लक्ष्मीं सरस्वतीम् ।। ५० ।।

नामान्येतानि भद्राणि जले स्नात्वा च यो जपेत् ।
वाञ्छितं च लभेत्सोऽपि दुःस्वप्नः शुभवान्भवेत् ।। ५१ ।।

ओं ह्रीं क्लीं पूर्वदूर्गतिनाशिन्यै महामायायै स्वाहा ।
कल्पवृक्षो हि लोकानां सन्त्रः सप्तदशाक्षरः ।। ५२ ।।

शुचिश्च दशधा जप्त्वा दुःस्वप्नः सुखवान्भवेत् ।
शतलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम् ।। ५३ ।।

सिद्धमन्त्रस्तु लभते सर्वसिद्धिं च वाञ्छितम् ।
ओं नमो मृत्युंजयायेति स्वाहान्तं लक्षधा जपेत् ।। ५४ ।।

दृष्ट्वा च मरणं स्वप्ने शतायुश्च भवेन्नरः ।
पूर्वोत्तरमुखो भूत्वा स्वप्नं प्राज्ञे प्रकाशयेत् ।। ५५ ।।

काश्यपे दुर्गते नीचे देवब्राह्मणनिन्दके ।
मूर्खे चैवानभिज्ञे च न च स्वप्नं प्रकाशयेत् ।। ५६ ।।

अश्वत्थे गणके विप्रे पितृदेवासनेषु च ।
आर्ये च वैष्णवे मित्रे दिवा स्वप्नं प्रकाशयेत् ।। ५७ ।।

इति ते पुण्यमाख्यातं कथितं पापनाशनम् ।
धन्यं यशस्यमायुष्यं किं भूयः श्रोतुमिच्छसि ।। ५८ ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo भगवन्नन्दसंo
द्व्यशीतितमोऽध्यायः ।। ८२ ।।