प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ११७ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः ११८
[[लेखकः :|]]
अध्यायः ११९ →

अथाष्टादशाधिकशततमोऽध्यायः
नारायण उवाच
गणेशं बोधयित्वा तु शंभुरम्यन्तरं ययौ ।
तत्र सिंहासने रम्ये दुर्गा दुर्गतिनाशिनी ।। १ ।।

भैरवी भद्रकाली च उग्रचण्डा च कोटरी ।
ताः समुत्थाय सहसा प्रणेमुर्जगदीश्वम् ।। २ ।।

तत्राऽऽययौ गणेशश्च कार्तिकेयश्च वीर्यवान् ।
बाणश्च वीरभद्रश्च स्वयं नन्दी सुनन्दकः ।। ३ ।।

महाकालो महामन्त्री ह्यथाष्टौं भैरवास्तथा ।
सिद्धेन्द्राश्चापि योगीन्द्रा रुद्राश्चैकादशैव ते ।। ४ ।।

एतस्मिन्नन्तरे तत्र मणिभद्रः समाययौ ।
सिहद्वारे स्वयं द्वारी तभीश्वरमुवाच सः ।। ५ ।।

मणिभद्र उवाच
असंख्यानि च सैन्यानि यादवानां महेश्वर ।
बलदेवश्च प्रद्युम्नः साम्बश्च सात्यकिस्तथा ।। ६ ।।

राजा महोग्रसेनश्च भीमश्च स्वयमर्जुनः ।
अक्रूनश्चोद्यवश्चैव जयन्तः शक्रनन्दनः ।। ७ ।।

रत्नेनद्रसारनिर्माणरथेन्द्रे सुमनोहरे ।
विधेर्विधाता भगवाञ्छ्रीकृष्णः परमेश्वरः ।। ८ ।।

सप्तभिः पार्षदैगोंपैः सेवितः श्वेतयामरैः ।
कन्दर्पकोटिलीलाभो वनमालाविभूषितः ।। ९ ।।

दधार चक्रमतुलं कोटिसूर्यसमप्रभम् ।
गदां कौमोदकीं शूलमव्यर्थं संनिधाय च ।। १० ।।

रथमध्ये महाशङ्खं विश्वसंहारकारणम् ।
महारथानां लक्षैश्च रथानां च त्रिकोटिभिः ।। ११ ।।

त्रिकोटिभिर्गजेन्द्राणां मल्लानां च त्रिकोटिमिः ।
शतकोटिभिरश्वानां चर्मिणां तच्चतुर्गुणैः ।। १२ ।।

खड्गिनां तत्सप्तगुणैर्द्विगुणैस्तद्धनुष्मताम् ।
एभिः सार्ध च त्वरितमाययौ शोणितं पुरम् ।। १३ ।।

परितो वेष्टयामास लङ्कां दाशरथिर्यथा ।
सहस्रतालमानां च ज्वलदग्निशिखोज्ज्वलाम् ।। १४ ।।

ऊर्ध्वे च परिखायुक्तां दुर्लङ्ध्यामसुरैः सुरैः ।
स्वर्गगङ्गाम्बुराशीनां समूहैर्वृष्टिभिस्तथा ।। १५ ।।

पक्षीन्द्रो गरुडः साक्षान्निर्वाणं च चकार सः ।
मणीन्द्रसारनिर्माणं प्राकाराभ्रंलिहं पुरम् ।। १६ ।।

बभञ्ज लक्षं मल्लानां बलदेवश्च लाङ्गलैः ।
उद्यानानां त्रिलक्षं च चकारोत्पाटनं प्रभो ।। १७ ।।

प्रविवेश महाद्वारं द्वारपालान्निपत्य च ।
एवं श्रुत्वा महादेवश्चोवाच सुरसंसदि ।। १८ ।।

पार्वती भद्रकाली च स्कन्दं गणपतिं तथा ।
अष्टौ च भैरवांश्चैव रुद्राश्च वीरभद्रकम्
महाकालं नन्दिनं च सर्वान्सेनापतीन्नव ।। १९ ।।

महादेव उवाच
गोलोकनाथो भगवांश्चक्रपाणिः समागतः ।
विश्वौघं भङ्क्तुमीशो यः क्षणेन नगरं च किम् ।। २० ।।

सर्वोपायैश्च सर्वे ते बाणं रक्षन्तु यत्नतः ।
बाणो गच्छतु संग्रामं स्मृत्वा लम्बोदरं परम् ।। २१ ।।

बाणस्य दक्षिणो स्कन्दः पुरतश्च गणेश्वरः ।
वामे च भैरवा रुद्राः स्वयं नन्दी सहारथः ।। २२ ।।

महाकालो वीरभद्रो ये चान्यो सैनिकास्तथा ।
ऊर्ध्वे दुर्गा भद्रकाली ह्यग्रण्डा च कोटरी ।। २३ ।।

बाणं रक्ष महाभागे दुर्गे दुर्गतिनाशिनि ।
कृष्णस्य भवती शक्तिस्तेन नारायणी स्मृता ।। २४ ।।

विष्णुमाये जगन्मातः सर्वमङ्गलमङ्गले ।
अव्यर्थाच्चक्रसारच्च रक्ष बाणं सुदर्शनात् ।। २५ ।।

बाणः प्रियो मे सर्वेम्यो गणेशात्कार्तिकादपि ।
बाणमूर्ध्नि करं धेहि पादाब्जरजसा सह ।। २६ ।।

शिवस्य वचनं श्रुत्वा दुर्गा दुर्गतिनाशिनी ।
प्रहस्योवाच मधुरं याथार्थ्यं समयोचितम् ।। २७ ।।

पार्वत्युवाच
मणिरत्नादिकं यद्यन्मुक्तामाणिक्यहीरकम् ।
सर्वस्वं कन्यकामूषां रत्नभूषणभूषिताम् ।। २८ ।।

रत्नभूषणभूषाढ्यमनिरुद्धं परं वरम् ।
पुरस्कृत्य देहि बाण कृष्णाय परमात्मने ।। २९ ।।

राज्यं कुरुष्व निर्विघ्नं किं युद्धमात्मना सह ।
यस्मिन्गते गताः प्राणाः क जीवश्चैन्द्रियैः सह ।
शक्तिश्चाहं मनो ब्रह्मा स्वयं ज्ञानात्मकं शिवः ।। ३० ।।

सद्यः पतति देहश्च शिवं त्यक्त्वा शवो भवेत् ।
को वा तिष्ठति संग्रामे चक्रस्य तेजसा शिव ।। ३१ ।।

नाऽऽत्माऽऽकाशो बाणविद्धो युद्धं किं स्वात्मना सह ।
परमात्मा च सर्वेषां भक्तानुग्रहविग्रहः ।। ३२ ।।

नित्यः सत्यो हि कृष्णश्च परिबूर्णतमः प्रभुः ।
गणेशः कार्तिकेयश्च भवानपि तयोः परः ।। ३३ ।।

किंकरेषु प्रियो बाणो न हि कृष्णात्परः प्रियः ।
वैकुण्ठेऽहं महालक्ष्मीर्गोलोके राधिका स्वयम् ।। ३४ ।।

शिवाऽहं शिवलोकेऽपि ब्रह्मलोके सरस्वती ।
अहं निहत्य दैत्यांश्च दक्षकन्या सती पुरा ।। ३५ ।।

त्वन्निन्दया त्यक्तदेहा सा चाहं शैलकन्यका ।
रक्तबीजस्य युद्धे च कानी च मूर्तिभेदतः ।। ३६ ।।

सावित्री वेदमाताऽहं सीता जनककन्यका ।
रुक्मिणी द्वारवत्यां च भारते भीष्मकन्यका ।। ३७ ।।

सुदाम्नः शापतो दैवाद्वृषभानसुताऽधुना ।
धर्मपत्नी च कृष्णस्य पुण्ये वृन्दावने वने ।। ३८ ।।

भगवन्तं च सर्वज्ञं त्वां शिवं च सनातम् ।
किं वाऽहं कथयामीति कर्तव्यं समयोचितम् ।। ३९ ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo बाणयुद्धेऽष्टाद-
शाधिकशततमोऽध्यायः ।। ११८ ।।