प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १२७ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः १२८
[[लेखकः :|]]
अध्यायः १२९ →

अथाष्टाविंशत्यधिकशततमोऽध्यायः
नारायण उवाच
श्रीकृष्णश्च समाह्वानं गोपांश्चापि चकार सः ।
भाण्डीरे वटमूले च तत्र स्वयमुवास ह ।। १ ।।

पुराऽन्नं च ददौ तस्मै यत्रैव ब्राह्मणीगणः ।
उवास राधिका देवी वामपार्श्वे हरेरपि ।। २ ।।

दक्षिणे नन्दगोपश्च यशोदासहितस्तथा ।
तद्दक्षिणो वृषभानस्तद्वामे सा कलावती ।। ३ ।।

अन्ये गोपाश्च गोप्यश्च बान्धवाः सुहृदस्तथा ।
तानुवाच स गोविन्दो यथार्थ्यं समयोचितम् ।। ४ ।।

श्रीभगवानुवाच
शृणु नन्द प्रवक्ष्यामि सांप्रतं समयोचितम् ।
सत्यं च परमार्थं च परलोकसुखावहम् ।। ५ ।।

आब्रह्मस्तम्बपर्यन्तं भ्रमं सर्वं निशामय ।
विद्युद्दीप्तिर्जले रेषा यथा तोयस्य बुद्बुदम् ।। ६ ।।

मथुरायां सर्वमुक्तं नावशेषं च किंचन ।
यशोदां बोधयामास राधिका कदलीवने ।। ७ ।।

तदेव सत्यं परमं भ्रमध्वान्तप्रदीपकम् ।
विहाय मिथ्यामायां च स्मर तत्परमं पदम् ।। ८ ।।

जन्ममृत्युजराव्याधिहरं हर्षकरं परम् ।
शोकसंतापहरणं कर्ममूलनिकृन्तनम् ।। ९ ।।

मामेव परमं ब्रह्म भगवन्तं सनातनम् ।
ध्यायं ध्यायं पुत्रबुद्धिं त्यक्त्वा लभ परं पदम् ।। १० ।।

गोलोकं गच्छ शीघ्रं त्वं सार्धं गोकुलवासिभिः ।
आरात्कलेरागमनं कर्ममूलनिकृन्तनम् ।। ११ ।।

स्त्रीपुंसोर्नियमो नास्ति जातीनां च तथैव च ।
विप्रे संध्यादिकं नास्ति चिह्नं यज्ञोपवीतकम् ।। १२ ।।

यज्ञसूत्रं च तिलकं शेषं लुप्तं सुनिश्चितम् ।
दिवाव्यवायनिरतं विरतं धर्मकर्मणि ।। १३ ।।

यज्ञानां च व्रतानां च तपसां लुप्तमेव च ।
केदारकन्याशापेन धर्मो नास्त्येव केवलम् ।। १४ ।।

स्वच्छन्दगामिनीस्त्रीर्णा पतिश्च सततं वशे ।
ताडयेत्सततं तं च भर्त्सयेच्छ दिवानिशम् ।। १५ ।।

प्राधान्यं स्त्रीकुटुम्बानां स्त्रीणां च सततं व्रज ।
स्वामी च भक्तस्तासां च पराभूतो निरन्तरम् ।। १६ ।।

कलौ च योषितः सर्वा जारसेवासु तत्पराः ।
शतपुत्रसमः स्नेहस्तासां जारे भविष्यति ।। १७ ।।

ददाति तस्मै भक्ष्यं च यथा भृत्याय कोपतः ।
सस्मिता सकटाक्षा साऽमृतदृष्ट्या निरन्तरम् ।। १८ ।।

जारं पश्यति कामेन विषदृष्ट्या पतिं सदा ।
सततं गौरवं तासां स्नेहं च जारबान्धवे ।। १९ ।।

पत्यौ करप्रहारं च नित्यं नित्यं करोति च ।
मिष्टान्नं श्रद्धया भक्त्या जाराय प्रददाति च ।। २० ।।

वेषयुक्ता च सततं जारसेवनतत्परा ।
प्राणा बन्धुर्गतिश्चाऽऽत्मा कलौ जारश्च यौषिताम् ।। २१ ।।

लुप्ता चातिथिसेवा च प्रलुप्तं विष्णुसेवनम् ।
पितृणामर्चनं चैव देवानां च तथैव च ।। २२ ।।

विष्णुवैष्णवयोर्द्वेषी सततं च नरो भवेत् ।
वाममन्त्रोपासकाश्च चतुर्वर्णाश्च तत्पराः ।। २३ ।।

शालग्रामं च तुलसीं कुशं गङ्गोदकं तथा ।
न स्पृशेन्मानवो धूर्तो म्लेच्छाचाररतः सदा ।। २४ ।।

कारणं कारणानां च सर्वेषां सर्वबीजकम् ।
सुखदं मोक्षदं शश्वद्दातारं सर्वसंपदाम् ।। २५ ।।

त्यक्त्वा मां परया भक्त्या क्षुद्रसंपत्प्रदायिनम् ।
वेदनिघ्नं वाममन्त्रं जपेद्विप्रश्च मायया ।। २६ ।।

सनातनी विष्णुमाया वञ्चितं तं करिष्यति ।
ममाऽऽज्ञया भगवती जगतां च दुरत्यया ।। २७ ।।

कलेर्दशसहस्राणि मदर्चा भुवि तिष्ठति ।
तदर्धानि च वर्षाणि गङ्गा भुवनपावनी ।। २८ ।।

तुलसी विष्णुभक्ताश्च यावद्गङ्गा च कीर्तनम् ।
पुराणानि च स्वल्पानि तावदेव महीतले ।। २९ ।।

मम चोत्कीर्तनं नास्ति एतदन्ते कलौ व्रज ।
एकवर्णा भविष्यन्ति किराता बलिनः शठाः ।। ३० ।।
पित्रोः सेवा गुरोः सेवा सेवा च देवविप्रयोः ।
विवर्जिता नराः सर्वे चातिथीनां तथैव च ।। ३१ ।।

सस्यहीना भवेत्पृथ्वी साऽनावृष्ट्या निरन्तरम् ।
फलहीनोऽपि वृक्षश्च जलहीना सरित्तथा ।। ३२ ।।

वेदहीनो ब्राह्मणश्च बलहीनश्च भूपतिः ।
जातिहीना जनाः सर्वे म्लेच्छो भूपो भविष्यति ।। ३३ ।।

भृत्यवत्ताडयेत्तातं पुत्रः शिष्यस्तथा गुरुम् ।
कान्तं च ताडयेत्कान्ता लुब्धकुक्कुटवद्गृही ।। ३४ ।।

नश्यन्ति सकला लोकाः कलौ शेषे च पापिनः ।
सूर्याणामातपात्केचिज्जलौघेनापि केचन ।। ३५ ।।

हे वैश्येन्द्र प्रतिकलौ न नश्यति वसुंधरा ।
पुनः सृष्टौ भवेत्सत्यं सत्यबीजं निरन्तरम् ।। ३६ ।।

एतस्मिन्नन्तरे विप्र रथमेव मनोहरम् ।
चतुर्योजनविस्तीर्णमूर्ध्वे च पञ्चयोजनम् ।। ३७ ।।

शुद्धस्फटिकसंकाशं रत्नेन्द्रसारनिर्मितम् ।
अम्लानपारिजातानां मालाजालविराजितम् ।। ३८ ।।

मणीनां कौस्तुभानां च भूषणेन विभूषितम् ।
अमूल्यरत्नकलशं हीरहारविलम्बितम् ।। ३९ ।।

मनोहरैः परिष्वक्तं सहस्रकोटिमन्दिरैः ।
सहस्रद्वयचक्रं च सहस्रद्वयघोटकम् ।। ४० ।।

सूक्ष्मवस्त्राच्छादितं च गोपीकोटीभिरावृतम् ।
गोलोकादागतं तूर्णं ददृशुः सहसा व्रजे ।। ४१ ।।

कृष्णाज्ञया तमारुह्य ययुर्गोलोकमुत्तमम् ।
राधा कलावती देवी धन्या चायोनिसंभवा ।। ४२ ।।

गोलोकाद गता गोप्यश्चायोनिसंभवाश्च ताः ।
श्रुतिपत्न्यश्च ताः सर्वाः स्वशरीरेण नारद ।। ४३ ।।

सर्वे त्यक्त्वा शरीराणि नश्वराणि सुनिश्चितम् ।
गोलोकं च ययौ राधा सार्घं गोकुलवासिभिः ।। ४४ ।।

ददर्श विरजातीर्र नानारत्नविभूषितम् ।
तदुत्तीर्य ययौ विप्र शतशृङ्गं च पर्वतम् ।। ४५ ।।

नानामणिगणाकीर्णं रासमण्डलमण्डितम् ।
ततो ययौ कियद्दूरं पुण्यं वृन्दावनं वनम् ।। ४६ ।।

सा ददर्शाक्षयवटमूर्ध्वे त्रिशतयोजनम् ।
शतयोजनविस्तीर्णं शाखाकोटिसमावृतम् ।। ४७ ।।

रक्तवर्णैः फलौघैश्च स्थूलैरपि विभूषितम् ।
गोपीकोटिसहस्रैश्च सार्धं वृन्दा मनोहरा ।। ४८ ।।

अनुव्रजं सादरं च सस्मिता सा समाययौ ।
अवरुङ्य रथात्तूर्णं राधां सा प्रणनाम च ।। ४९ ।।

रासेश्वरीं तां संभाष्य प्रविवेश स्वमालयम् ।
रत्नसिंहासने रम्ये हीरहारसमन्विते ।। ५० ।।

वृन्दा तां वासयामास पादसेवनतत्परा ।
सप्तभिश्च सखीभिश्च सेवितां श्वेतचामरैः ।। ५१ ।।

आययुर्गोपिकाः सर्वा द्रष्टुं तां परमेश्वरीम् ।
नन्दादिकं प्रकल्प्यैतद्राधा वासं पृथकपृथक् ।। ५२ ।।

परमानन्दरूपा सा परमानन्दपूर्वकम् ।
स्ववेश्मनि महारम्ये प्रतस्थे गोपिका सह ।। ५३ ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo
अष्टाविंशत्यधिकशततमोऽध्यायः ।। १२८ ।।