प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १२८ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः १२९
[[लेखकः :|]]
अध्यायः १३० →

अथैकोनत्रिंशदधिकशततमोऽध्यायः
नारायण उवाच
श्रीकृष्णो भगवांस्तत्र परिपूर्णतमः प्रभुः ।
दृष्ट्वा सारोक्यमोक्षं च सद्यो गोकुलवासिनाम् ।। १ ।।

उवास पञ्चभिर्गोपैर्भाण्डीरे वटमूलके ।
ददर्श गोकुलं सर्व गोकुलं व्याकुलं तथा ।। २ ।।

अरक्षकं च व्यस्तं च शून्यं वृन्दावनं वनम् ।
योगेनामृतवृष्ट्या च कृपया च कृपानिधिः ।। ३ ।।

गोपीभिश्च तथा गोपैः परिपूर्णं चकार सः ।
तथा वृन्दावनं चैव सुरम्यं च मनोहरम् ।। ४ ।।

गोकुलस्थाश्च गोपाश्च समाश्वासं चकार सः ।
उवाच मधुरं वाक्यं हितं नीतं च दुर्लभम् ।। ५ ।।

श्री भगवानुवाच
हे गोपगण हे बन्धो सुखं तिष्ठ स्थिरो भव ।
रमणं प्रियया सार्धं सुरम्यं रासमण्डलम् ।। ६ ।।

तावत्प्रभृति कृष्णस्य पुण्ये वृन्दावने वने ।
अधिष्ठानं च सततं यावच्चन्द्रदिवाकरौ ।। ७ ।।

तथा जगाम भाण्डीरं विधाता जगतामपि ।
स्वयं शेषश्च धर्मश्च भवान्या च भवःस्वयम् ।। ८ ।।

सूर्यश्चापि महेन्द्रश्च चन्द्रश्चापि हुनाशनः ।
कुबेरो वरुणश्चैव पवनश्च यमस्तथा ।। ९ ।।

ईशानश्चापि देवाश्च वसवोऽष्टौ तथैव च ।
सर्वे ग्रहाश्च रुद्राश्च मुनयो मनवस्तथा ।। १० ।।

त्वरिताश्चाऽऽययुः सर्वे यत्राऽऽस्ते भगवान्प्रभुः ।
प्रणम्य दण्डवद्भूभौ तमुवाच विधिः स्वयम् ।। ११ ।।

ब्रह्मवाच
परिबूर्णतम् ब्रह्मस्वरूप नित्यविग्रह ।
ज्योतिःस्वरूप परम नमोऽस्तु प्रकृतेः पर ।। १२ ।।

सुनिर्लिप्त निराकार साकार ध्यानहेतुना ।
स्वेच्छामय परं धाम परमात्मन्नमोऽस्तु ते ।। १३ ।।

सर्वकार्यस्वरूपेश कारणानां च कारण ।
ब्रह्मेशशेषदेवेश सर्वेश ते नo ।। १४ ।।

सरस्वतीश पद्मेश पार्वतीश परात्पर ।
हे सावित्रीश राधेश रासेश्वर नo ।। १५ ।।

सर्वेषामादिभूतर्स्त्वं सर्वः सर्वेश्वरस्तथा ।
सर्वपाता च संहर्ता सृष्टिरूप नo ।। १६ ।।

त्वत्पादपद्मरजसा धन्या पूता वसुंधरा ।
शून्यरूपा त्वयि गते हे नाथ परमं पदम् ।। १७ ।।

यत्पञ्चविंशत्यधिकं वर्षाणां शतकं गतम् ।
त्यक्त्वेमां स्वपदं यासि रुदतीं विरहातुराम् ।। १८ ।।

महादेव उवाच
ब्रह्मणा प्रार्थितस्त्वं च समागत्य वसुंधराम् ।
भूभारहरणं कृत्वा प्रयासि स्वपदं विभो ।। १९ ।।

त्रैलोक्ये पृथिवी धन्या सद्यः पूता पदाङ्किता ।
वयं च मुनयो धन्याः साक्षाद्दृष्ट्वा पदाम्बुजम् ।। २० ।।

ध्यानासाध्यो दुराराध्यो मुनीनामूर्ध्वरेतसाम् ।
अस्माकमपि यश्चेशः सोऽधुना चाक्षुषो भुवि ।। २१ ।।

वासुः सर्वनिवासश्च विश्वनि यस्य लोमसु ।
देवस्तस्य महाविष्णुर्वासुदेवो महीतले ।। २२ ।
सुचिरं तपसा लब्धं सिद्धेन्द्राणां सुदुर्लभम् ।
यत्पादपद्ममतुलं चाक्षुषं सर्वजीविनाम् ।। २३ ।।

अनन्त उवाच
त्वमनन्तो हि भगवन्नाहमेव कलांशकः ।
विश्वैकस्थे क्षुद्रकूर्मे मशकोऽहं गजे यथा ।। २४ ।।

असंख्यशेषाः कूर्माश्च ब्रह्मविषणुशिवात्मकाः ।
असंख्यानि च विश्वानि तेषामीशः स्वयं भवान् ।। २५ ।।

अस्माकमीदृशं नाथ सुदिनं क्व भविष्यति ।
स्वप्नादृष्टश्चयश्चेशः स दृष्टः सर्वजीविनाम् ।। २६ ।।

नाथ प्रयासि गोलोकं पूतां कृत्वा वसुंधराम् ।
तामनाथां रुदन्तीं च निमग्नां शोकसागरे ।। २७ ।।

देवा ऊचुः
वेदाःस्तोतुं न शक्ता यं ब्रह्मेशानादयस्तथा ।
तमेव स्तवनं किं वा वयं कुर्मो नमोऽस्तु ते ।। २८ ।।

इत्येवमुक्त्वा देवास्ते प्रययुर्द्वारकां पुरीम् ।
तत्रस्थं भगवन्तं च द्रष्टुं शीघ्रं मुदाऽन्विताः ।। २९ ।।

अथ तेषां च गोपाला ययुर्गोलोकमुत्तमम् ।
पृथिवी कम्पिता भीता चलन्तः सप्तसागराः ।। ३० ।।

हतश्रियं द्वारकां च त्यक्त्वा च ब्रह्मशापतः ।
मूर्तिं कदम्बमूलस्थां विवेश राधिकेश्वरः ।। ३१ ।।

ते सर्वे चैरकायुद्धे निपेतुर्यादवास्तथा ।
चितामारुह्य देव्यश्च प्रययुः स्वामिभिः सह ।। ३२ ।।

अर्जुनः स्वपुरं गत्वा समुवाच युधिष्ठिरम् ।
स राजा भ्रातृभिः सार्धं ययौ स्वर्गं च भार्यया ।। ३३ ।।

दृष्ट्वा कदम्बमूलस्थं तिष्ठन्तं परमेश्वरम् ।
देवा ब्रह्मादयस्ते च प्रणेमुर्भक्तिपूर्वकम् ।। ३४ ।।

तुष्टुवुः परमात्मानं देवं नारायणं प्रभुम् ।
श्यामं किशोरवयसं भूषितं रत्नभूषणैः ।। ३५ ।।

वह्निशुद्धांशुकाधानं शोभितं वनमालया ।
अतीव सुन्दरं शान्तं लक्ष्मीकान्तं मनोहरम् ।। ३६ ।।

व्याधास्त्रसंयुतं पादपद्मं पद्मादिवन्दितम् ।
दृष्ट्वा ब्रह्मादिदेवांस्तानभयं सस्मितं ददौ ।। ३७ ।।

पृथिवीं तां समाश्वास्य रुदतीं प्रेमविह्वलाम् ।
व्याधं प्रस्थापयामास परं स्वपदमुत्तमम् ।। ३८ ।।

बलस्य तेजः शेषे च विवेश परमाद्भुतम् ।
प्रद्युम्नस्य च कामे वै वाऽनिरुद्धस्य ब्रह्मणि ।। ३९ ।।

अयोनिसंभवा देवी महालक्ष्मीश्च रुक्मिणी ।
वैकुण्ठं प्रययौ साक्षात्स्वशरीरेण नारद ।। ४० ।।

सत्यभामा पृथिव्यां च विवेश कमलालया ।
स्वयं जाम्बवती देवी पार्वत्यां विश्वमातरि ।। ४१ ।।

या या देव्यश्च यासां चाप्यंशरुपाश्च भूतले ।
तस्यां तस्यां प्रविविशुस्ता एव च पृथक्पृथक् ।। ४२ ।।

साम्बस्य तेजः स्कन्दे च विवेश परमाद्भुतम् ।
कश्यपे वसुदेवश्चाप्यदिव्यां देवकी तथा ।। ४३ ।।

रुक्मिणीमन्दिरं त्यकत्वा समस्तां द्वारकां पुरीम् ।
स जग्राह समुद्रश्च प्रफुल्लवदनेक्षणः ।। ४४ ।।

लपणोदः समागत्य तुष्टाव पुरुषोत्तमम् ।
रुरोद तद्वियोगेन साश्रुनेत्रश्च विह्वलः ।। ४५ ।।

गङ्गा सरस्वती पद्मावती च यमुना तथा ।
गोदावरी स्वर्णरेखा कावेरी नर्मदा मुने ।। ४६ ।।

शरावती बाहृदा च कृतमाला च पुण्यदा ।
समाययुश्च ताः सर्वाः प्रणेमुः परमेश्वरम् ।। ४७ ।।

उवाच जाह्नवी देवी रुदती परमेश्वरम् ।
साश्रुनेत्राऽतिदीना सा विरहज्वरकातरा ।। ४८ ।।

भागीरथयुवाच
हे नाथ रमणश्रेष्ठ यासि गोलोकमुत्तमम् ।
अस्माकं का गतिश्चात्र भविष्यति कलौ युगे ।। ४९ ।।

श्रीभगवानुवाच
कलेः पञ्चसहस्राणि वर्षाणि तिष्ठ भूतले ।
पापानि पापिनो यानि तुभ्यं दास्यन्ति स्नानत ।। ५० ।।

मन्मन्त्रोपासकस्पर्शाद्भस्मीभूतानि तत्क्षणात् ।
भविष्यन्ति दर्शनाच्च स्नानादेव हि जाह्नवि ।। ५१ ।।

हरेर्नामानि यत्रैव पुराणानि भवन्ति हि ।
तत्र गत्वा सावधानमाभिः सार्धं च श्रोष्यसि ।। ५२ ।।

पुराणश्रवणाच्चैव हरेर्नामानुकीर्तनात् ।
भस्मीभूतानि पापानि ब्रह्महत्यादिकानि च ।। ५३ ।।

भस्मीभूतानि तान्येव वैष्णवालिङ्गनेन च ।
तृणानि शुष्ककाष्ठानि दहन्ति पावका यथा ।। ५४ ।।

तथाऽपि वैष्णवा लोके पापानि पापिनामपि ।
पृथिव्यां यानि तीर्थानि पुण्यान्यपि च जाह्नवि ।। ५५ ।।

मद्भक्तानां शरीरेषु सन्ति पूतेषु संततम् ।
मद्भक्तपादरजसा सद्यः पूता वसुंधरा ।। ५६ ।।

सद्यः पूतानि तीर्थानि सद्याः पूतं जगत्तथा ।
मन्मन्त्रोपासका विप्रा ये मदुच्छिष्टभोजिनः ।। ५७ ।।

मामेव नित्यं ध्यायन्ते ते मत्प्राणाधिकाः प्रियाः ।
तदुपस्पर्शमात्रेण पूतो वायुश्च पावकः ।। ५८ ।।

कलेर्दशसहस्राणि मद्भक्ताः सन्ति भूतले ।
एकवर्णा भविष्यन्ति मद्भक्तेषु गतेषु च ।। ५९ ।।

मद्भक्तशून्या पृथिवी कलिग्रस्ता भविष्यति ।
एतस्मिन्नन्तरे तत्र कृष्णदेहाद्विनिर्गतः ।। ६० ।।

चतुर्भुजश्च पुरुषः शतचन्द्रसमप्रभः ।
शङ्खचक्रगदापद्मधरः श्रीवत्सलाञ्छनः ।। ६१ ।।

सुन्दरं रथमारुह्य श्रीरोदं स जगाम ह ।
सिन्धुकन्या च प्रययौ स्वयं मूर्तिमती सती ।। ६२ ।।

श्रीकृष्णमनसा जाता मर्त्यलक्ष्मीर्मनोहरा ।
श्वेतद्वीपं गते विष्णौ जगत्पालनकर्तरि ।। ६३ ।।

शुद्धसत्त्वस्वरूपे च द्विधारूपो बभूव सः ।
दक्षिणांशश्च द्विभुजो गोपबारकरूपकः ।। ६४ ।।

नपीनजलदश्यामः शोभितः पीतवाससा ।
श्रीवंशवदनः श्रीमान्सस्मितः पद्मलोचनः ।। ६५ ।।

शतकोटीन्दुसौन्दर्यं शतकोटिस्मरप्रभाम् ।
दधानः परमानन्दः परिबूर्णतमः प्रभुः ।। ६६ ।।

परं धाम परं ब्रह्मस्वरूपो निर्गुणः स्वयम् ।
परमात्मा च सर्वेषां भक्तानुग्रहविग्रहः ।। ६७ ।।

नित्यदेहश्च भगवानीश्वरः प्रकृतेः परः ।
योगिनो यं वदन्त्येवं ज्योतीरूपं सनातनम् ।। ६८ ।।

ज्योतिरम्यन्तरे नित्यरूपं भक्ता विदन्ति यम् ।
वेदा वदन्ति सत्यं यं नित्यमाद्यं विचक्षणाः ।। ६९ ।।

यं वदन्ति सुराः सर्वे परं स्वेच्छामयं प्रभूम् ।
सिद्धेन्द्रा मुनयः सर्वे सर्वरूपं वदन्ति यम् ।। ७० ।।

यमनिर्वचनीयं च योगीन्द्रः शंकरो वदेत् ।
स्वयं विधाता प्रवदेत्कारणानां च कारणम् ।। ७१ ।।

शेषो वदेदनन्तं यं नवधारूपमीश्वरम् ।
तर्काणामेव षण्णां च षड्विधं रूपमीप्सितम् ।। ७२ ।।

वैष्णवानामेकरूपं वेदानामेकमेव च ।
पुराणानामेकरूपं तस्मान्नवविधं स्मृतम् ।। ७३ ।।

न्यायोऽनिर्वचनीयं च यं मतं शंकरो वदेत् ।
नित्यं वैशेषिकाश्चाऽऽद्यं तं वदन्ति विचक्षणाः ।। ७४ ।।

सांख्य वदन्ति तं देवं ज्योतीरूपं सनातनम् ।
मीमांसा सर्वरूपं च वेदान्तः सर्वकारणम् ।। ७५ ।।

पातञ्जलोऽप्यनन्तं च वेदाः सत्यस्वरूपकम् ।
स्वेच्छामयं पुराणं च भक्ताश्च नित्यविग्रहम् ।। ७६ ।।

सोऽयं गोलोकनाथश्च राधेशो नन्दनन्दनः ।
गोकुले गोपवेषश्च पुण्ये वृन्दावने वने ।। ७७ ।।

चतुर्भुजश्च वैकुण्ठे महालक्ष्मीपतिः स्वयम् ।
नारायणश्च भगवान्यन्नाम मुक्तिकारणम् ।। ७८ ।।

सकृन्नारायणेत्युक्त्वा पुमान्कल्पशतत्रयम् ।
गङ्गादिसर्वतीर्थेषु स्नातो भवति नारद ।। ७९ ।।

सुनन्दनन्दकुमुदैः पार्षदैः परिवारितः ।
शङ्खचक्रगदापद्मधरः श्रीवत्सलाञ्छनः ।। ८० ।।

कौस्तुभेन मणीन्द्रेण भूषितो वनमालया ।
देवैः स्तुतश्च यानेन वैकुण्ठं स्वपदं ययौ ।। ८१ ।।

गते वैकुण्ठनाथे च राधेशश्च स्वयं प्रभुः ।
चकार वंशीशब्दं च त्रैलोक्यमोहनं परम् ।। ८२ ।।

मूर्च्छांप्रापुर्देवगणा मुनयश्चापि नारद ।
अचेतना बभूवुश्च मायया पार्वतीं विना ।। ८३ ।।

उवाच पार्वती देवी भगवन्तं सनातनम् ।
विष्णुमाया भगवती सर्वरूपा सनातनी ।। ८४ ।।

परब्रह्मस्वरूपा या परमात्मस्वरूपिणी ।
सगुणा निर्गुणा सा च परा स्वेच्छामयी सती ।। ८५ ।।

पार्वत्युवाच
एकाऽहं राधिकारूपा गोलोके रासमण्डले ।
रासशून्यं च गोलोकं परिपूर्ण कुरु प्रभो ।। ८६ ।।

गच्छ त्वं रथमारुह्य मुक्तामाणिक्यभूषितम् ।
परिबूर्णतमाऽहं च तव वङः स्थलस्थिता ।। ८७ ।।

तवाऽऽज्ञया महालक्ष्मीरहं वैकुण्ठगामिनी ।
सरस्वती च तत्रैव वामे पार्श्वे हरेरपि ।। ८८ ।।

तवाहं मनसा जाता सिन्धुकन्या तवाऽऽज्ञया ।
सावित्री वेदमाताऽहं कलया विधिसंनिधौ ।। ८९ ।।

तैजःसु सर्वदेवानां पुरा सत्ये तवाऽऽज्ञया ।
अधिष्ठानं कृत तत्र धृतं देव्या शरीरकम् ।। ९० ।।

शुम्भादयश्च दैत्याश्च निहताश्चावलीलया ।
दुर्ग निहत्य तुर्गाऽहं त्रिपुरा त्रिपुरे वधे ।। ९१ ।।

निहत्य रक्तबीजं च रक्तबीजविनाशिनी ।
तवाऽऽज्ञया दक्षकन्या सती सत्यस्वरूपिणी ।। ९२ ।।

योगेन त्यक्त्वा देहं च शैलजाऽहं तवाऽऽज्ञया ।
त्वया दत्तवा (त्ताः शंकराय गोलोके रासमण्डले ।। ९३ ।।

विष्णुभक्तिरहं तेन विष्णुमाया च वैष्णवी ।
नारायणस्य मायाऽहं तेन नारायणी स्मृता ।। ९४ ।।

कृष्णप्राणाधिकाऽहं च प्राणाधिष्ठातृदेवता ।
महाविष्णोश्च वासोश्च जननी राधिका स्वयम् ।। ९५ ।।

तवाऽऽज्ञया पञ्चधाऽहं पञ्चप्रकृतिरूपिणी ।
कलाकलांशयाऽहं च देवपत्नयो गृहे गृहे ।। ९६ ।।

शीघ्रं गच्छ महाभाग तत्राऽहं विरहातुरा ।
गोवीभिः सहिता रासं भ्रमन्ती परितः सदा ।। ९७ ।।

पार्वतीवचनं श्रुत्वा प्रहस्य रसिकेश्वरः ।
रत्नयानं समारुह्य ययौ गोलोकमुत्तमम् ।। ९८ ।।

पार्वती बोधयामास स्वयं देवगणं तथा ।
मायावंशीरवाच्छन्नं विष्णुमाया सनातनी ।। ९९ ।।

कृत्वा ते हरिशब्दं च स्वगृहं विस्मयं ययुः ।
शिवेन सार्धं दुर्गा सा प्रहृष्टा स्वपुरं ययौ ।। १०० ।।

अथ कृष्णं समायान्तं राधा गोपीगणैः सह ।
अनुव्रजं ययौ हृष्टा सर्वज्ञा प्राणवल्लभम् ।। १०१ ।।

दृष्ट्वा समीपमायान्तमवरुह्य रथात्सती ।
प्रणनाम जगन्नाथं सिरसा सखिभिः सह ।। १०२ ।।

गोपा गोप्यश्च मुदिताः प्रफुल्लवदनेक्षणाः ।
दुंदुभिं वादयामासुरीश्वरागमनोत्सुकाः ।। १०३ ।।

विरजां च समुत्तीर्य दृष्ट्वा राधां जगत्पतिः ।
अवरुह्य रथात्तूर्णं गृहीत्वा राधिकाकरम् ।। १०४ ।।

शतशृङ्गं च बभ्राम सुरम्यं रासमण्डलम् ।
दृष्ट्वाऽक्षयवटं पुण्यं पुण्यं वृन्दावनं ययौ ।। १०५ ।।

तुलसीकाननं दृष्ट्वा प्रययौ मालतीवनम् ।
वामे कृत्वा कुन्दवनं माधवीकाननं तथा ।। १०६ ।।

चकार दक्षिणे कृष्णश्चम्पकारण्यमीप्सिनम् ।
चकार पश्चात्तूर्णं च चारुचन्दनकाननम् ।। १०७ ।।

ददर्श पुरतो रम्यं राधिकाभवनं परम् ।
उवास राधया सार्धं रत्नसिंहासने वरे ।। १०८ ।।

सकर्पूरं च ताम्बूलं बुभुजे वासितं जलम् ।
सुष्वाप पुष्पतल्पे च सुगन्धिचन्दनार्चिते ।। १०९ ।।

स रेमे रामया सार्धं निमग्नो रससागरे ।
इत्येवं कथितं सर्वं धर्मवक्त्राच्च यच्छ्रुतम् ।। ११० ।।

गोलोकारोहणं रम्यं किं भूयः श्रोतुमिच्छसि ।। १११ ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo गोलोकारोहणं
नामैकोनत्रिंशदधिकशततमोऽध्यायः ।। १२९ ।।