भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०२२

← अध्यायः ०२१ भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)
अध्यायः ०२२
अज्ञातलेखकः
अध्यायः ०२३ →

चतुर्थीतिथिव्रतमाहात्म्यम्

सुमन्तुरुवाच
चतुर्थ्यां तु सदा राजन्निराहारव्रतान्वितः ।
दत्त्वा तिलान्नं विप्रस्य स्वयं भुंक्ते तिलौदनम् । । १
वर्षद्वये समाप्तिर्हि व्रतस्य तु यदा भवेत् ।
विनायकस्तस्य तुष्टो ददाति फलमीहितम्१ । । २
याति भाग्यनिवासं हि क्रीडते विभवैः सह ।
इह चागत्य पुण्यान्ते दिव्यो दिव्यवपुर्यशाः । । ३
मतिमान्धृतिमान्वाग्मी भाग्यवान्कामकारवान्२ ।
असाध्यान्यपि साध्येह क्षणादेव महान्त्यपि । । ४
हन्त्यश्वरथसम्पन्नं षलीपुत्रसहायवान् ।
राजा भवति दीर्घायुः सप्तजन्मान्यसौ नृप । ।
एतद्ददाति सन्तुष्टो विघ्नहन्ता४ विनायकः । । ५
शतानीक उवाच
विघ्नः कस्य कृतस्तेन येन विघ्नविनायकः ।
एतद्वदस्व विघ्नेश विघ्नकारणमद्य मे । । ६
सुमन्तुरुवाच
कौमारे लक्षणे पुंसां स्त्रीणां च सुकृते कृते ।
विघ्नं चकार विघ्नेशो गाङ्गेयस्य विनायकः । । ७
तं तु विघ्नं विदित्वासौ कार्त्तिकेयो रुषान्वितः ।
उत्कृष्य दन्तं तस्यास्याद्धन्तुं तं च समुद्यतः । । ८
निवार्यापृच्छद्देवेशो रोषः कार्यः कुतस्त्वया ।
तं चाचख्यौ स पित्रे वै कृतं पूरुषलक्षणम् । ।
तत्र विघ्नकृते मह्यं योषिता न च लक्षणम् । । ९
अथोवाच महादेवः प्रहसन्त्स्वसुतं किल ।
मम किं लक्षणं पुत्र पश्यसे त्वं वदस्व मे । । 1.22.१०
स चोवाच करे तुभ्यं कपालं द्विजलक्षितम् ।
अविचारेण संस्थाप्यं कपाली तेन चोच्यते । ।
स तल्लक्षणमादाय समुद्रे प्राक्षिपद्रुषा । । ११
अथ देवसमाजे वै प्रवृत्ते ब्रह्मरुद्रयोः ।
अहं ज्यायानहं ज्यायान्विवादोऽभूत्तयोर्द्वयोः । ।
तव संभूत्यभिज्ञोऽस्ति मां तु वेद न कश्चन । । १२
एवं शिवेऽति ब्रुवति ब्रह्मणः पञ्चमं शिरः ।
मुक्ताट्टहासं प्रोवाच त्वामहं वेदिता भव । । १३
एवं ब्रुवन्तु रुद्रेण ब्राह्मं हयशिरो महत् ।
नखाग्रेण निकृत्तं च तस्यैव च करे स्थितम् । । १४
करस्थेनैव तेनासावागच्छद्यत्र वै हरिः ।
तपस्तेपे तदा मेरौ तत्रासौ भगवान्वशी । । १५
कृत्ते हयशिरे तस्मिन्स्थानात्तस्मात्तु ब्रह्मणः ।
रोषाद्विनिःसृतस्त्वन्यः पुरुषः श्वेतकुण्डली । । १६
कवची सशिरस्कश्च सशरः सशरासनः ।
अनिर्देश्यवपुः स्रग्वी किं करोमि स चाब्रवीत् । । १७
अथोवाच रुषा ब्रह्मा हन्यतां स सुदुर्मतिः ।
स तु मार्गेण रुद्रस्य आगच्छद्रोषतो द्रुतम् । । १८
रुद्रोऽपि विष्णुतेजोभिः प्रविष्टः स त्वधिष्ठितः ।
स प्रविश्य तदापश्यत्तपन्तं चोत्तमं तपः । ।
हरो नारायणं देवं वैकुण्ठमपराजितम् । । १९
हरं दृष्ट्वाथ सम्प्राप्तं कार्यं चास्य विचिन्त्य च ।
उवाच शूलिनं देवो भिन्धि शूलेन मे भुजम् । । 1.22.२०
स बिभेद महातेजा भुजं शूलेन तं हरः । । २१
शूलभेदादसृक्चोर्ध्वं जगामावृत्य रोदसी ।
विनिवृत्य ततः पश्चात्कपाले निपपात ह । । २२
असृक्कपाले पतितं प्रदेशिन्या व्यवर्द्धयत् ।
यदा हि विनिवृत्तिः स्याद्देवस्य रुधिरं प्रति । । २३
तदा तु व्यसृजत्तोयं स कृत्वा वारुणीं तनुम् ।
तोये प्रवृत्तेऽसृग्भूते कपाले यत्र तच्छिरः । । २४
कपाले तु प्रदेशिन्या रुद्रोऽसौ रुधिरेऽसृजत् ।
आमुक्तकवचं रक्तं रक्तकुण्डलिनं नरम् । । २५
अथोवाच भवं देवं किं करोमीति मानद ।
असावपि ससर्जाथ श्वेतकुण्डलिनं नरम् । । २६
तावुभौ समयुध्येतां धनुष्प्रवरधारिणौ ।
यथा राजन्बलीयांसौ कुजकेतू युगात्यये । । २७
तयोस्तु युध्यतोरेवं संवर्तश्चाधिको गतः ।
न चादृश्यत विजय एकस्यापि तदा तयोः । । २८
अथान्तरिक्षे तौ दृष्ट्वा वागुवाचाशरीरिणी ।
अवतारोऽथ भविता युवयोर्हि मया सह । । २९
भारापनोदः कर्त्तव्यः पृथिव्यर्थे सुरैः सह ।
तदाश्चर्यो हि भविता देवकार्यार्थसिद्धये । । 1.22.३०
भूलोकभावं निर्धूय भूयो गन्ता सुरालयम् ।
एवमुक्त्वा तु वैकुण्ठो ददावेकं रवेस्तदा । । ३१
श्वेतकुण्डलिनं दृप्तं१ तं जग्राह रविर्मुदा ।
इन्द्रस्यापि ततः पश्चाद्रक्तकुण्डलिनं ददौ ।।३२
जग्राह च मुदा युक्त इन्द्रः स्वं च पुरं ययौ ।
गतौ रवीन्द्रौ प्रगृह्य पुरुषौ क्रोधसम्भवौ ।।३ ३
अथोवाच तदा रुद्रं देवः कमलसंस्थितः ।
गच्छ त्वमपि कापाले कपालव्रतचर्यया ।।
अवतारो व्रतस्यास्य मर्त्यलोके भविष्यति ।। ३४
ये च व्रतं त्वदीयं वै धारयिष्यन्ति मानवाः ।
न तेषां दुर्लभं किञ्चिद्भवितेह परत्र च ।।३५
एवं संलप्य बहुशः सुमुखं प्रतिनन्द्य च ।
आहूय च समुद्रं स प्रत्युवाचाविचारयन् ।।३६
कुरुष्वाभरणं२ स्त्रीणां लक्षणं यद्विलक्षणम् ।
कार्त्तिकेयेन यत्प्रोक्तं तद्वदस्वाविचारयन् ।। ३७
स चाह मम नाम्नेदं भवेत्पुरुषलक्षणम् ।
देवेन तत्प्रतिज्ञातमेवमेतद्भविष्यति ।।३८
कार्त्तिकेयेन यत्प्रोक्तं तद्वदस्वाविचारयन् ।।३९
प्रयच्छास्य विषाणं वै निष्कृष्टं यत्त्वयाऽधुना ।
अवश्यमेव तद्भूतं भवितव्यं तु कस्यचित् ।।1.22.४०
ऋते विनायकं तद्वै दैवयोगान्न कामतः ।
गृहाण एतत्सामुद्रं यत्त्वया परिकीर्तितम् ।।४१
स्त्रीपुंसोर्लक्षणं श्रेष्ठं सामुद्रमिति विश्रुतम ।
इमं च सविषाणं वै कुरु देवविनायकम ।।४२
अथोवाच च देवेशं बाहुलेयः समत्सरम् ।
विषाणं दद्मि चास्याहं तव वाक्यान्न संशयः । । ४३
यदा त्वयं विषाणं च मुक्त्वा तु विचरिष्यति ।
तदा विषाणमुक्तः सन्भस्म ऐतं करिष्यति । । ४४
एवमस्त्विति तं चोक्त्वा विषाणं तत्करे ददौ ।
विनायकस्य देवेशः कार्तिकेयमते स्थितः । । ४५
सविषाणकरोऽद्यापि दृश्यते प्रतिमा नृप ।
भीमसूनोर्महाबाहोर्विघ्नं कर्त्तुं महात्मनः । । ४६
एतद्रहस्यं देवानां मया ते समुदाहृतम् ।
यत्र देवो न वै वेद देवानां भुवि दुर्लभम् । । ४७
मया प्रसन्नेन तव गुह्यमेतदुदाहृतम् ।
कथितं तिथिसंयोगे विनायककथामृतम् । । ४८
य इदं श्रावयेद्विद्वान्ब्राह्मणान्वेदपारगान् ।
क्षत्रियांश्च स्ववृत्तिस्थान्विट्शूद्रांश्च गुणान्वितान् । । ४९
न तस्य दुर्लभं किञ्चिदिह चामुत्र विद्यते ।
न च दुर्गतिमाप्नोति न च याति पराभवम् । । 1.22.५०
निर्विघ्नं सर्वकार्याणि साधयेन्नात्र संशयः ।
ऋद्धिं वृद्धिं श्रियं चापि विन्देत भरतोत्तम । । ५१

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि चतुर्थीकल्पवर्णनं नाम द्वाविंशोऽध्यायः । २२ ।