चतुर्थीकल्पे पुरुषलक्षणवर्णनम्

शतानीक उवाच
नराणां योषितां चैव लक्षणानि महामते ।
प्रोक्तानि यानि विप्रेन्द्र व्योमकेशस्य सूनुना । । १
क्रुद्धेन यानि क्षिप्तानि ईश्वरेण महोदधौ ।
कृष्णस्य वचनाद् भूयः समुद्रेणार्पितानि वै । । २
अर्पितानि ततस्तस्य तेन प्राप्तानि वै कथन् ।
बाहुलेयेन विप्रेन्द्र तानि मे वद सुव्रत । । ३
सुमन्तुरुवाच
यथा गुहेन राजेन्द्र स्त्रीपुंसां लक्षणानि वै ।
प्रोक्तानि कुरुशार्दूल तथा ते कथयामि वै । । ४
शक्तिपाताद्धते क्रौञ्चे व्योमकेशस्य सूनुना ।
ब्रह्मा तुष्टोऽब्रवीदेनं वरं वरय मेऽनघ । । ५
असावपि महातेजाः प्रणम्य शिरसा विभुम् ।
पितामहं बभाषेदं लक्षणं ब्रूहि मे विभो । । ६
नराणां युवतीनां च कौतुकं परमं मम ।
यन्मयोक्तं पुरा देव प्रक्षिप्तं लवणार्णवे । । ७
मत्पित्रा देवदेवेश सक्रोधेन पुरा तथा ।
प्राप्तं च विस्मृतं भूयस्तन्मे ब्रूहि ह्यशेषतः । । ८
ब्रह्मोवाच
साधु पृष्टोऽस्मि देवेश भीमस्यानन्दवर्धन ।
लक्षणानि निबोध त्वं पुरुषाणामशेषतः । ।
अधमोत्तममध्यानि यानि प्राप पयोनिधिः । । ९
शिवेऽहनि सुनक्षत्रे ग्रहे सौम्ये शुभे रवौ ।
पूर्वाह्णे मङ्गलैर्युक्ते परीक्षेत विचक्षणः । । 1.24.१०
प्रमाणं संहतिं छायां गतिं सर्वाङ्गलक्षणम् ।
दन्तकेशनखश्मश्रु एतत्सर्वं विचक्षणः । । ११
पूर्वमायुः परीक्षेत पश्चाल्लक्षणमादिशेत् ।
क्षीणे ह्यायुषि मर्त्यानां लक्षणैः किं प्रयोजनम् । । १२
जघन्यो नवतिः प्रोक्तो मध्यमस्तु शताड्गुलः ।
अष्टोत्तरशतं यस्य उत्तमं तस्य लक्षणम् । । १३
प्रमाणलक्षणं प्रोक्तं समुद्रेण शुभाशुभम् ।
यन्मे पुरा देववर मया वै कथितं तव । ।
अतः परं प्रवक्ष्यामि देहावयवलक्षणम् । । १४
पादैः समांसकैः २ स्निग्धै रक्तं सौम्यैः सुशोभनैः ।
उन्नतैः स्वेदरहितैः शिराहीनैश्च पार्थिवः । । १५
यस्य पादतले रेखा सांकुशेव प्रकाशते ।
सततं हि सुखं तस्य पुरुषस्य न संशयः । । १६
अस्वेदनौ मृदुतलौ कमलोदरसन्निभौ ।
श्लिष्टाङ्गुली १ ताम्रनखौ सुपार्ष्णी व्योमकेशज । । १७
उष्णौ शिराविरहितौ गूढगुल्फौ च भीमज ।
कूर्मोन्नतौ च चरणौ प्रख्यातौ पार्थिवस्य तु । १८
शूर्पाकृती महाबाहो रूक्षौ श्वेतनखौ तथा ।
वक्रौ शिरासन्ततौ च संशुष्कौ विरलाङ्गुली । । १९
दारिद्र्यदुःखदौ ज्ञेयौ चरणौ भीमनन्दन ।
ब्रह्मघ्नौ देवशार्दूल ३ पक्वमृत्सदृशौ पदौ । । 1.24.२०
पीतावगम्यानिरतौ कृष्णौ पानरतौ सदा ।
अभक्ष्यभक्षणे श्वेतौ ज्ञेयौ सेनाधिपोत्तम । । २१
अङ्गुष्ठौ पृथुलौ येषां ते नरा भाग्यवर्जिताः ।
क्लिश्यन्ते विकृताङ्गुष्ठास्ते नराः पादगामिनः । । २२
चिपिटैर्विकृतैर्भग्नैरङ्गुष्ठैरतिनिन्दिताः ।
वक्रैर्भग्नैस्तथा ह्रस्वैरङ्गुष्ठैः क्लेशभागिनः । । २३
शूर्पाकारैश्च विकृतैर्भग्नर्वक्रैः शिराततैः ।
सस्वेदैः पाण्डुरूक्षैश्च चरणैरतिनिन्दिताः । । २४
यस्य प्रदेशिनी दीर्घा अङ्गुष्ठं या अतिक्रमेत् ।
स्त्रीभोगं लभते नित्यं पुरुषो नात्र संशयः । ।
कनिष्ठायां तु दीर्घायां सुवर्णस्य तु भागिनः । । २५
चिपिटा विरलाः शुष्का यस्याङ्गुल्यो भवन्ति वै ।
स भवेद्दुःखितो नित्यं धनहीनश्च वै ४ गुह । । २६
श्वेतैर्नखैर्विरूक्षैश्च पुरुषा दुःखजीविनः ।
कुशीलाः कुनखैर्ज्ञेयाः कामभोगविवर्जिताः । ।
विकृतैः स्फुटितैरूक्षैर्नखैर्दारिद्र्यभागिनः । । २७
ब्रह्महत्यां च कुर्वन्ति पुरुषा हरितैर्नखैः ।
बन्धुभिश्च वियुज्यन्ते कुलक्षयकराश्च ते । । २८
इन्द्रगोपकसंकाशैर्नखैर्नृपतयः स्मृताः ।
शङ्खावर्तप्रतीकाशैर्नखैर्भवति पार्थिवः । । २९
ताम्रैर्नखैस्तथैश्वर्यं धन्याः पद्मनखा नराः ।
रक्तैर्नखैस्तथैश्वर्यं पुष्पितैः सुभगो भवेत् । ।
सूक्ष्मैरुपचितैस्ताम्रैर्नखैर्नृपतयः स्मृताः । । 1.24.३०
रोमशाभ्यां च जङ्घाभ्यां दुःखदारिद्र्यभागिनः ।
बन्धनं ह्रस्वजङ्घानामैश्वर्यं चैव निर्दिशेत् । । ३१
१मृगजङ्घाश्च राजानो जायन्ते नात्र संशयः ।
दीर्घजङ्घाः स्थूलजङ्घा नित्यं भाग्यविवर्जिताः । । ३२
शृगालजङ्घाः पुरुषा नित्यं भाग्यविवर्जिताः ।
काकजंघा नरा ये तु भवेयुर्दुःखभागिनः । । ३३
२पीनजङ्घास्तथैश्वर्यं प्राप्नुवन्ति न संशयः ।
सिंहव्याघ्रसमा जङ्घा धनिनः परिकीर्तिताः । । ३४
पार्थिवानां भवेद्रोम चैकैकं रोमकूपके ।
पंडितश्रोत्रियाणां च द्वेद्वे ज्ञेये महामते । । ३५
त्रिभिस्त्रिभिस्तथा निःस्वा मानवा दुःखभागिनः ।
केशाश्चैव महाबाहो निन्दिता पूजितास्तथा । । ३६
निर्मांसजानुर्म्रियते प्रवासे शिवनन्दन ३ । । ३७
सौभाग्यमल्पै कथितं दारिद्र्यं विकटैस्तथा ।
निम्नैः स्वस्त्रीजिता ज्ञेयाः समांसै राज्यभागिनः । । ३८
४हंसभासशुकानां च तुल्या यस्य गतिर्भवेत् ।
स भवेत्पार्थिवः पूज्यः समुद्रवचनं यथा । । ३९
अन्येषामपि शस्तानां पक्षिणां च शुभा गतिः ।
वृषसिंहगजेन्द्राणां ६गतिर्भोगविवर्धिनी । । 1.24.४०
जलोर्मिसदृशी या च काकोलूकसमा च या ।
गतिर्द्रव्यविहीनानां दुःखशोकभयङ्करा । । ४१
श्वानोष्ट्महिषाणां १खरसूकरयोस्तथा ।
गतिर्मेषसमा येषां ते नरा भाग्यवर्जिताः । । ४२

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि चतुर्थीकल्पे पुरुषलक्षणवर्णनं नाम चतुर्विंशोध्यायः । २४ ।