पुरुषलक्षणवर्णनम्

ब्रह्मोवाच
दक्षिणावर्तलिङ्गश्च नरो वै पुत्रमान्भवेत् ।
वामावर्ते तथा लिङ्गे नरः कन्यां प्रसूयते । । १
स्थूलैः शिरालैर्विषमैर्लिङ्गैर्दारिद्र्यमादिशेत् ।
ऋजुभिर्वर्तुलाकारैः पुरुषा पुत्रभागिनः । । २
निम्नपादोपविष्टस्य भूमिं स्पृशति मेहनः ।
दुःखितं तं विजानीयात्पुरुषं नात्र संशयः । । ३
भूमौ पादोपविष्टस्य गुल्फौ स्पृशति मेहनः ।
ईश्वरं तं विजानीयात्प्रमदानां च वल्लभम्२ । । ४
सिंहव्याघ्रसमो यस्य ह्रस्वौ भवति मेहनः ।
भोगवान्स तु विज्ञेयोऽशेषभोगसमन्वितः । । ५
रेखाकृतिर्मणिर्यस्य मेहने हि विराजते ।
पार्थिवः स तु विज्ञेयः समुद्रवचनं यथा । । ६
सुवर्णरजतप्रख्यैर्मणिमुक्तासमप्रभैः ।
प्रवालसदृशैः स्निग्धैर्मणिभिः पार्थिवो भवेत् । । ७
पाण्डुरैर्मलिनै रूक्षैर्दीर्घव्यासैर्दिशो व्रजेत् ।
समैस्तथोन्नतैश्चापि सुस्निग्धैर्मणिभिर्गृही । । ८
धनरक्षास्तथा स्त्रीणां भोक्तारस्ते भवन्ति हि ।
मणिभिर्मध्यनिम्नैस्तु पितरस्ते भवन्ति हि । । ९
युवतीनां महाबाहो निःस्वाश्चापि भवन्ति ते ।
नोल्बणैश्चापि धनिनो नरा वीरा भवन्ति हि । । 1.25.१०
मूत्रधारा पतेदेका वलिता दक्षिणा यदि ।
स भवेत्पार्थिवः पृथ्व्याः समुद्रवचनं यथा । । ११
द्वे धारे च तथा स्निग्धे धनवान्भोगवान्स्मृतः ।
बहुधारास्तथा रूक्षाः सशब्दाः पुरुषाधमाः । । १२
मीनगन्धि भवेद्रेतो धनवान्पुत्रवान्भवेत् ।
हविगन्धि भवेद्यस्य धनाढ्यः श्रोत्रियः स्मृतः । । १३
१मूषगन्धिर्भवेत्पुत्री पद्मगन्धिर्नृपः स्मृतः ।
लाक्षागन्धिर्भवेद्यश्च बहुकन्यः प्रजायते । ।
मद्यगन्धिर्भवेद्योद्धा क्षारगन्धिर्दरिद्रकः । । १४
शीघ्रमैथुनगामी यः स दीर्घायुरतोऽन्यथा ।
अल्पायुर्देवशार्दूल विज्ञेयो नात्र संशयः । । १५
तनुशुक्रः स्त्रीजनको मांसगन्धी च भोगवान् ।
पद्मवर्णं भवेद्रक्तं स नरो धनवान्भवेत् । । १६
किञ्चिद्रक्तं तथा कृष्णं भवेद्यस्य तु शोणितम् ।
अधमः स तु विज्ञेयः सदा दुःखैकभाजनम् । । १७
प्रवालसदृशं स्निग्धं भवेद्यस्य च शोणितम् ।
राजानं तं विजानीयात्सप्तद्वीपाधिपं गुह । । १८
विस्तीर्णा मांसला स्निग्धा वस्तिः पुंसां प्रशस्यते ।
निर्मांसा विकटा रूक्षा बस्तिर्येषां न ते शुभाः । । १९
गोमायुसदृशी यस्य श्वानोष्ट्रमहिषस्य च ।
स भवेद्दुःखितो नित्यं पुरुषो नात्र संशयः । । 1.25.२०
यश्चैकवृषणस्तात जले प्राणान्विमुञ्जति ।
स्त्रीचञ्चलस्तु विषमैः समै राज्यं प्रचक्षते । । २१
ऊर्ध्वगैश्चापि ह्रस्वायुः शतञ्जीवी प्रलम्बधृक् ।
मानवाश्चापि रक्तैस्तु धनवन्तो भवन्ति वै । । २२
स्थूलस्फिग्भवति क्षेमी द्रव्ययुक्तः समांसधृक् ।
व्याघ्रस्फिङ्मण्डलो राजा मण्डूकस्फिङ्नराधिपः । ।
द्विमण्डलो महाबाहो सिंहस्फिक्सार्वभौमता । । २३
उष्ट्रवानरयोर्यस्तु धारयेत्स्फिङ्महामते ।
धनधान्यविहीनोऽसौ विज्ञेयो भीमनन्दन । । २४
पुमान्मृगोदरो धन्यो मयूरोदर एव च ।
व्याघ्रोदरो नरपती राजा सिंहोदरो भवेत् । । २५
मण्डूकसदृशं यस्य पुरुषस्योदरं भवेत् ।
स भवेत्पार्थिवः पुष्ट्या समुद्रवचनं यथा । । २६
मांसलैर्ऋजुभिर्वृत्तैः पार्श्वैर्नृपतयः स्मृताः ।
ईश्वरो व्याघ्रपृष्ठस्तु सेनायाश्चैव नायकः । । २७
सिंहपृष्ठो नरो यस्तु बन्धनं तस्य निर्दिशेत् ।
कूर्मपृष्ठास्तु राजानो धनसौभाग्यभागिनः । । २८
विस्तीर्णं हदयं येषां मांसलोमचितं समम् ।
शतायुषो विजानीयाद्भोगभाजो महाधनान् । । २९
विरलाः शुष्कास्तथा रूक्षा दृश्यन्तेऽङ्गुलयः करे ।
स भवेद् दुःखितो नित्यं नरो दारिद्र्यभाजनम् । । 1.25.३०
यस्य मीनसमा रेखा कर्मसिद्धिभ्र तस्य तु ।
धनवान्स तु विज्ञेयो बहुपुत्रश्च मानवः । । ३१
तुला यस्य तु वेदी वा करमध्ये तु दृश्यते ।
तस्य सिध्यति वाणिज्यं पुरुषस्य न संशयः । । ३२
सौम्ये पाणितले यस्य द्विजस्य तु विशेषतः ।
यज्ञयाजी भवेन्नित्यं बहुवित्तश्च मानवः । । ३३
शैलं वाप्यथ वा वृक्षः करमध्ये तु दृश्यते ।
अचलां श्रियमाप्नोति बहुभृत्यसमन्वितः । । ३४
शक्तितोमरबाणासिरेखा १ चापोपमा तथा ।
यस्य हस्ते महाबाहो स जयेद्विग्रहे रिपून् । । ३५
ध्वजभ्राप्यथ वा शंखः करमध्ये तु दृश्यते ।
समुद्रयायी स भवेद्धनी च सततं गुह । । ३६
श्रीवत्समथ वा पद्मं वज्रं वा चकमेव च ।
रथो वाप्यथ वा कुम्भो यस्य हस्ते प्रकाशते । ।
राजानं तं विजानीयात्परसैन्यविदारणम् । । ३७
दक्षिणे तु कराङ्गुष्ठे यवो यस्य तु दृश्यते ।
सर्वविद्याप्रवक्ता च भवेद्वै नात्र संशयः । । ३८
यस्य पाणितले रेखा कनिष्ठामूलमुत्थिता२ ।
गता मध्यं प्रदेशिन्याः स जीवेच्छरदः शतम् । । ३९

इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि चतुर्थीकल्पे पुरुषलक्षणवर्णनं नाम पञ्चविंशोऽध्यायः । २५ ।