भोजकोत्पत्तिवर्णनम्

सुमन्तुरुवाच
एवं स आनयित्वा तु मगान्साम्बो महीपते ।
स महात्मा पुरा साम्बश्चन्द्रभागासरित्तटे । । १
पुरं निवेशयामास स्थापयित्वा दिवाकरम् ।
कृत्वा धनसमृद्धं तु भोजकानां समर्पयत् । । २
तत्पुरं सवितुः पुण्यं त्रिषु लोकेषु विश्रुतम् ।
सांबेन कारितं यस्मात्तस्मात्साम्बपुरं स्मृतम् । । ३
तस्मिन्प्रतिष्ठितो देवः पुरमध्ये दिवाकरः ।
सत्कृत्य स्थापिताः सर्वे आत्मनामाङ्किते पुरे । । ४
मगानां तु सदाचारो दृष्टाचारकुलोचितः ।
देवशुश्रूषणं गीतं वेदप्रोक्तेन कर्मणा । । ५
कृतकृत्यस्तदा साम्बो वरं लब्ध्वा पुनर्युवा ।
आदिदेवं सुरज्येष्ठमादित्यं प्रणिपत्य सः । । ६
अनन्तरं मगान्सर्वान्प्रणिपत्याभिवाद्य च ।
प्रस्थितो निर्मलः साम्बः पुरीं द्वारवतीं तदा । । ७
मगानां कारणार्थेन प्रार्थिता भोजवंशजाः ।
वसुदेवस्य पौत्रेण गोत्रजेन महात्मना । । ८
कन्यादानं कृतं तेषां मगानां भोजकोत्तमैः ।
सर्वास्ताः सहिताः कन्याः प्रवालमणिभूषिताः । । ९
अर्चयित्वा तु ताः सर्वाः प्रेषिताः सवितुर्गृहम् ।
पुनर्गत्वा तु सांबेन पृष्टो देवो दिवाकरः । । 1.140.१०
मगानां ज्ञानमाख्याहि१ वेदानव्यङ्गमेव च ।
साम्बस्य वचनं श्रुत्वा भास्करो वाक्यमब्रवीत् । । ११
पृच्छ त्वं नारदं गत्वा स ते सर्वं वदिष्यति ।
एवमुक्तोऽथ वै साम्बो गतवान्नारदं प्रति । । १२
गत्वा कृत्स्नमिदं सर्वं तस्मै तेन निवेदितम् ।
स चाप्याह ततः साम्बं न जाने ज्ञानमुत्तमम् । । १३
भोजकानां यदुश्रेष्ठ ज्ञानं व्यासो महामुनिः ।
तं गत्वा परिपृच्छ त्वं प्रणम्य शिरसा मुनिम् । । १४
कृष्णानुरोधात्ते सर्वं स वक्ष्यति न संशयः ।
नारदेनैवमुक्तस्तु साम्बो जाम्बवतीसुतः । । १५
व्यासाश्रमं स गत्वा तु प्रणम्य शिरसा मुनिम् ।
कृताञ्जलिपुटो भूत्वा इदं वचनमब्रवीत् । । १६
शाकद्वीपं मया गत्वा आनीता मगपुङ्गवाः ।
बाला यौवनसम्पन्नाः सन्निविष्टा मगोत्तमाः । । १७
सत्कृत्य पूजयित्वा तु पुरं तेषां समर्पितम् ।
सम्प्राप्य तु पुरं ते वै ज्येष्ठमध्यकनीयसः । । १८
भोजवंशसमुत्पन्नाः कन्यकाः समलङ्कृताः ।
वरयित्वा कृतं तेषां विप्रप्रणयनं शुभम् । । १९
अहो सभाग्याः श्लाघ्याश्च कृतपुण्याश्च ते सदा ।
पूजायां ये रता भानोर्येषां चैव वरप्रदः । । 1.140.२०
पर्याप्तं सर्वमेतेषामिह चामुष्मिकं फलम् ।
अनित्ये सति मानुष्ये देवपूजारता हि ये । । २१
किन्तु चिन्तयतः सूर्यं चिन्तयित्वा तु भोजकान् ।
ज्ञानं प्रति तथा चैषां हदये संशयो मम । । २२
कथं पूजाकरा ह्येते के मगाः के च भोजकाः ।
ज्ञानं किं परमं तेषां ज्ञेयस्तेषां क एव तु । । २३
दिव्येति ते कथं प्रोक्ताः किमर्थं कूर्चधारणम् ।
सौरव्रतं किमर्थं तु वाचकास्ते कथं स्मृताः । । २४
किमर्थं तेजसा वेदान्गायन्तश्चैव ते कथम् ।
अथाहिकञ्चुकस्याङ्गं किं प्रमाणं च कस्य वै । । २५
कस्य वै का समाख्याता यदुत्पन्नं कथं स्मृतम् ।
कथं देवांश्च गायन्ति यज्ञं कुर्वन्ति ते कथम् । । २६
अग्निहोत्रं च किं तेषां पञ्च दोलाश्च काः स्मृताः ।
एतत्सर्वं समाख्याहि भोजकानां विचेष्टितम् । । २७
साम्बस्य वचनं श्रुत्वा कृष्णद्वैपायनो मुनिः ।
कालीसुतो महातेजा उवाच परमं वचः । । २८
साधुसाधु यदुश्रेष्ठ साधु पृष्टोऽस्मि सुव्रत ।
दुर्ज्ञेयचेष्टितं किञ्चिद्भोजकानां न संशयः । । २९
भास्करस्य प्रसादेन ममापि स्मृतिमागतम् ।
यथाख्यातं वशिष्ठेन तथा ते वच्मि कृत्स्नशः । । 1.140.३०
मगानां चरितं श्रेष्ठं शृणु त्वं कृष्णनन्दन ।
ज्ञानवेदिन एवैते कर्मयोगं समाश्रिताः । । ३१
श्रूयन्ते ऋषयः सर्वे मौनेन नियमस्थिताः ।
भुञ्जते चापि मौनेन सर्वे वै परमर्षयः । । ३२
मुनिचर्याकृतस्तेऽपि शाकद्वीपनिवासिनः ।
तस्मान्मौनेन भोक्तव्यमगुणत्वमनिच्छता । । ३३
वचः सूर्यसमाख्यातं कारणं च वरं तथा ।
अर्चायां ते च ते नित्यमर्चयन्तश्च ते स्मृताः । । ३४ भोजकन्यासुजातत्वाद्भोजकास्तेन ते स्मृताः ।
ब्राह्मणानां यथा प्रोक्तो वेदाश्चत्वार एव तु । । ३५
ऋग्वेदोऽथ यजुर्वेदः सामवेदस्त्वथर्वणः ।
ब्रह्मणोक्तास्तथा वेदा मगानामपि सुव्रत । । ३६
त एव विपरीतास्तु तेषां वेदाः प्रकीर्तिताः ।
वेदो विश्वमदश्चैव विद्वद्वह्निरसस्तथा । । ३७
वेदा ह्येते मगानां तु पुरोवाच प्रजापतिः ।
मगा वेदमधीयन्ते वेदाङ्गास्तेन ते स्मृताः । । ३८
शेषो न हि महाभागः सर्वसत्त्वसुखावहः ।
ससूर्यरथमासाद्य रथिभिः सह वर्षति । । ३९
यस्तस्य तु पुनर्मोकं स रवेर्हि महानकः ।
वन्दितव्यो मगानां तु अस्त्रमन्त्रेण नित्यशः । ।1.140.४ ०
यथा स्रजो द्विजानां तु पूजाकाले प्रमीयते ।
सर्वसंस्कारयज्ञेषु यथा दर्भा द्विजातिषु । ।४ १
पवित्राः कीर्तितास्तेषां तथा धर्मो मगस्य तु ।
एभिर्जयन्ति भूयिष्ठं तस्मिन्द्वीपे मगाधिपाः । ।४२
विद्यावन्तः कुलश्रेष्ठाः शौचाचारसमन्विताः ।
यज्ञावसक्ता१ भक्ताश्च जपन्तो मन्त्रमादितः । ।४ ३
प्रियास्तु यदुशार्दूल भोजका यदुनन्दन ।
अस्त्रमिव वै मन्त्रो वेदस्य परिपठ्यते । ।४४
सर्वेषां ब्राह्मणानां तु सावित्री परिकल्प्यते ।
अस्माकं तु यदुश्रेष्ठ महाव्याहतिपूर्तिका । ।४५
अमोहकेनाथ विमानभुञ्जी मौनेन चैवापि यथा हि युक्तम् ।
न चापि किञ्चित्स्मृतिकं स्पृशेच्च तच्चापि नात्रैव च संस्पृशेद्धि । । ४७
श्वसन्त्यनिच्छंस्तु परिक्षिपेत्तु स्वाभीष्टसूर्यं तु नमेत्सदैव ।
यथा यज्ञं हि मन्त्रेण वेदप्रोक्तेन कर्मणा । ।४७
तत्त्वमन्यन्मगानान्तु विधिमन्त्रपुरस्कृतम् ।
हविः सम्पद्यते यस्मात्तेन ते यज्विनः स्मृताः । ।४८
यथाग्निहोत्रं प्रथितं द्विजानां तथाध्वहोत्रं विहितं मगानाम् ।
अच्छं च नामेति तदध्वरस्य मुनेर्वचो नात्र विचारणास्ति । ।४९
पञ्चधूपाः प्रदातव्याः सिद्धिरस्येह सर्वदा ।
दण्डनायकवेले द्वे त्रिसन्ध्यं भास्करस्य तु । । 1.140.५०

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने भोजकोत्पत्तिवर्णनं नाम चत्वारिंशदधिकशततमोऽध्यायः । १४० ।