भोजकजातिवर्णनम्

साम्ब उवाच
भोजकानां यत्त्वयोक्तमव्यङ्गो देहशोधकः ।
व्रतबन्धस्त्वसौ प्रोक्तस्तेषां जातिश्च का स्मृता । । १
व्यास उवाच
ते पृष्टा भवता सर्वे भोजकानां कुमारकाः ।
किमाख्यातं ततस्तैस्तु तदेवाचक्ष्व कृत्स्नशः । । २
साम्ब उवाच
सन्निवेषा मया प्रोक्ता भोजकानां समन्ततः ।
ममैव ब्रूत तत्त्वं तद्वर्णः कोऽत्र कथं स्थितः । । ३
ततस्तु भगवान्प्राह वाक्यं वाक्यविशारदः ।
ये त्वयोक्ता श्रुताः साम्ब भोजकानां कुमारकाः । । ४
ममैवैते मगा ज्ञेया अष्टौ शूद्रा मदङ्गजाः ।
एतद्बुद्ध्वा तु वचनं प्रणम्य शिरसा रविम् । । ५
दत्ता भोजकुलोत्पन्ना दशभ्यो दशकन्यकाः ।
ततस्तु मन्दकेभ्योऽपि दत्ताश्चाष्टौ हि कन्यकाः । । ६
ततो निवेशितं तेषां मया साम्ब पुरं स्मर ।
दासकन्यास्तु याश्चाष्टौ भोजकन्याश्च या दश । । ७
एतास्तेषां कुमाराणां ज्ञेयास्ता दश चाष्ट च ।
तत्र ते भोजकन्यासु द्विजैरुत्पादिताः सुताः । । ८
भोजकास्तान्गणान्प्राहुर्ब्राह्मणान्दिव्यसंज्ञितान् ।
दासकन्यासु ये जाता मन्दगैरन्त्यसंज्ञितैः । । ९
मदङ्गा नाम ते ज्ञेयाः सवितुः परिचारकाः ।
ते च विप्रपुरे तस्मिन्पुत्रदारशुभैर्वृताः । । 1.141.१०
स्वधर्मैर्यष्टुमारब्धैः शाकद्वीपेऽर्चितो रविः ।
नानाविधैर्वैदिकैस्तु मन्त्रैर्मुनिवरोत्तमाः । । ११
अव्यङ्गधारिणो मर्त्याः पूजयन्ते दिवस्पतिम् ।
दृष्ट्वा व्यङ्गं तु वै तेषां कौतूहलसमन्वितः । । १२
साम्बः प्राह नमस्कृत्य भूयः सत्यवतीसुतम् ।
कथं वरोऽयमव्यङ्गः कथितो मुनिसत्तम । । १३
कुत एष समुत्पन्नः कस्माच्च स शुचिः स्मृतः ।
बन्धनीयः कदा चायं किमर्थं चैव धार्यते । ।
किं प्रमाणं च भगवन्व्यङ्गश्चायं किमुच्यते । । १४
सुमन्तुरुवाच
श्रुत्वैवं वचनं व्यासो जाम्बवत्याः सुतस्य च । । १५
उवाच कुरुशार्दूल साम्बं कालीसुतः स तु । ।
व्यास उवाच
एतच्च मे यथोक्तस्त्वं जातिरेषां न संशयः । । १६
अव्यङ्गस्यापि ते वच्मि लक्षणं गदतः शृणु । । १७

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने भोजकजातिवर्णनं नामैकचत्वारिंशदधिकशततमोऽध्यायः । १४१ ।