व्यड्गोत्पत्तिनामवर्णनम्

व्यास उवाच
देवता ऋषयो नागा गन्धर्वाप्सरसां गणाः ।
यक्षरक्षांसि वै भानौ निवसन्ति ऋतुक्रमात् । । १
तत्र तु वासुकिर्ह्यब्दमुद्यत्सूर्यरथं जवात् ।
स्वस्थानमाजगामाशु नमस्कृत्य दिवाकरम् । । २
अव्यङ्गमेव सूर्याय प्रीत्यर्थं वै समर्पयत् ।
गाङ्गेयभूषितं दिव्यं नातिरक्तसितं शुभम् । । ३
बबन्ध तं च तत्प्रीत्यै मध्यभागे तमात्मनः ।
नागराजाङ्गसम्भूतो धृतो यस्माच्च भानुना । । ४
तत्तस्माद्धार्यते सूर्यप्रीत्यै तद्भक्तिमिच्छता ।
विधानेन च तत्त्वेन शुचिर्भवति भोजकः । । ५
नित्यं च धारणात्तस्य भवेत्प्रीतो दिवाकरः ।
न धारयन्ति ये त्वेवं भोजकाः पूजकाः रवेः । । ६
सौरहीना न ते याज्या उच्छिष्टा नात्र संशयः ।
स्मृत्याचारे ते हि भग्ना रविं नार्हन्ति पूजितुम् । । ७
पूजयन्तो रविं ते हि नरकं यान्ति रौरवम् ।
न वै हसेन्न उत्तिष्ठेद्यावदर्चा लभन्ति ते । । ८
इत्थं ज्ञात्वा न सन्देहो ह्यव्यङ्गेन विना रविः ।
नागराजस्य संस्पृष्टो ह्यारसुस्तेन संस्मृतः । । ९
एकवर्णः स कर्तव्यः कार्यसिद्धिकरस्तथा ।
प्रमाणेनाङ्गुलानां तु शताद्धि शतमुत्तरम् । । 1.142.१०
उत्कृष्टोऽयं प्रमाणेन मध्यमो विंशदुत्तरः ।
शतमष्टोत्तरं ह्रस्वो न तु ह्रस्वतरस्ततः । । ११
तदाकृतिः कृतश्चैष निर्मितो विश्वकर्मणा ।
मध्यमे भोजकानां तु परः शत उदाहृतः । । १२
संस्कृतोऽपि विना तेन शुचिर्नैव भवत्युत ।
तेनास्य धारणाद्वीर शुचिरेव तदा भवेत् । । १३
हविर्होमादिकाः सर्वा भवन्त्यस्य क्रियाः शुभाः ।
अव्यङ्गः पतिताङ्गश्च अव्यङ्गोऽथ महीपते । । १४
एष सारश्च सा रम्या वै ज्ञेया जयनामभिः ।
अहेरङ्गात्समुत्पन्नो ह्यव्यङ्गस्तु ततः स्मृतः । । १५ यस्मादस्मादहेरङ्गमव्यङ्गस्तेन चोच्यते ।
अर्हेति पूजायां धातोः प्रत्ययो ण्वुल्ततः स्मृतः । । १६
पूजितश्च पवित्रश्च यस्मात्तेनार्हकः स्मृतः ।
सारसार्तः स्मृतं रूपं प्रधानं सार उच्यते । । १७
षण भक्तौ स्मृतौ धातुस्तस्मात्सारसनः स्मृतः ।
यस्मादर्चितमेवं तु सुवर्णमणिमौक्तिकैः । । १८
स ज्ञेयः पतिताङ्गस्तु नित्ययज्ञैरुपाहृतः ।
इत्येते कथिता वीर अव्यङ्गा व्यङ्गभोजकाः । । १९
ऋद्धिवृद्धिकरो नित्यं कायशुद्धिकरस्तथा ।
सर्ववेदमयश्चायं सर्वदेवमयस्तथा । । 1.142.२०
सर्वभूतमयः साम्ब सर्वलोकमयस्तथा ।
मध्येऽस्य संस्थितो ब्रह्मा मूले विष्णुर्महामते । । २१
शशाङ्कमौलिरन्त्ये तु संस्थितो यदुनंदन ।
ऋग्वेदोऽस्य स्थितो मूले यजुर्वेदोऽस्य मध्यगः । । २२
अग्रे स्थितः सामवेदो ग्रन्थिराङ्गिरसोनघ ।
पृथ्वी मूलमाश्रित्य स्थिता च यदुसत्तम । । २३
मूलाशनास्त्वपः साम्ब मध्ये देवो विभावसुः ।
तासामनन्तरं वात आकाशोऽग्रे समास्थितः । । २४
मूले स्थितस्तु भूर्लोको भुवर्लोकस्तु मध्यगः ।
स्वर्लोकश्चाग्रमाश्रित्य स्थितो व्यङ्गस्य यावता । । २५
एवं देवमयः सांब एवं लोकमयस्तथा ।
धारणीयो महान्भक्त्या पूजकः प्रीतये रवेः । । २६
पूजयन्ति रविं ये वै विनानेन यदूत्तम ।
पूजाफलं न तेषां स्यान्नरकं च व्रजन्ति हि । । २७
तथा तेषां भवेन्नित्यमव्यङ्गो भोजकः सदा ।
अन्यकाले यदुश्रेष्ठ इत्येतत्कथितं तव । । २८
बन्धने कारणं वीर भूषणानि च सुव्रत । । २९

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने व्यङ्गोत्पत्तिर्नाम द्विचत्वारिंशदधिकशततमोऽध्यायः । १४२ ।