भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १४३
← अध्यायः १४२ | भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व) अध्यायः १४३ अज्ञातलेखकः |
अध्यायः १४४ → |
धूपादिविविधविधिवर्णनम्
सुमन्तुरुवाच
श्रुत्वैवमेव साम्बेन व्यासात्सत्यवतीसुतात् ।
अव्यङ्गस्य च उत्पत्तिं पुनरागान्महामतिः । । १
अथागत्य महातेजाः साम्बो गत्वाश्रमं पुनः । । २
नारदस्य महाबाहोर्नारदं वाक्यमब्रवीत् ।
कथमुत्क्षिप्य वै धूपं भोजकैः सवितुर्मुने । । ३
स्नानमाचमनं चैवमर्घ्यदानं महात्मने ।
साम्बस्य वचनं श्रुत्वा नारदो मुनिसत्तमः । । ४
उवाच कुरुशार्दूल साम्बं जाम्बवतीसुतम् ।
हन्त ते कथयिष्यामि रवेर्धूपविधिक्रमम् । । ५
स्नानमाचमनं चैव स्वर्णदानं तथैव च ।
आचान्तस्त्रिस्ततः स्नात्वा वाससी निर्मले शुभे । । ६
अनार्द्रे संवसीतैव पवित्रे परिधाय च ।
उदङ्मुखः प्राङ्मुखो वाप्याचामेच्च प्रयत्नतः । । ७
जले जलस्थो नाचामेज्जलादुत्तीर्य यत्नतः ।
अप्सु सूर्यस्तथाग्निश्च माता देवी सरस्वती । । ८
तस्मादुत्तीर्य चाचामेन्नाचामेत्तु जलाशये ।
उपविश्य शुचौ देशे प्रयतः प्रागुदङ्मुखः । । ९
पादौ प्रक्षाल्य हस्तौ च अन्तर्जानुस्तथाचमेत् ।
प्रसन्नास्त्रिः पिबेत्त्वापः प्रयतः सुसमाहितः । । 1.143.१०
सम्मार्जनं तु द्विः कुर्यात्त्रिभिरभ्युक्षणं पुनः ।
मूर्धानं खानि चात्मानमुपस्पृश्यानु पूर्वशः । । ११
आचान्तोऽर्कं नमस्कृत्य शौचेषु शुचितामियात् ।
क्रियां यः कुरुते मोहादनाचम्येह नास्तिकः । । १२
भवन्तीह क्रियाः सर्वा वृथा तस्य न संशयः ।
शुचिकामा हि वै देवा वेदैरेवमुदाहृताः । । १३
इनोपासाकृतश्चैव सर्वे देवाः प्रयत्नतः ।
शौचमेव प्रशंसन्ति शौचाङ्गैर्हि विधीयते । । १४
आचान्तो मौनमास्थाय देवागारं ततो व्रजेत् ।
श्वासरोधनिमित्तं तु प्राणमाच्छाद्य वाससा । । १५
शिरः प्रावृत्य यत्नेन केशोदकनिवृत्तये ।
ततः पूजां रवेः कुर्यात्पुष्पैर्नानाविधैः शुभैः । । १६
गायत्रीं सशिरस्कां च यजमानः प्रयत्नतः ।
धूपं ततोऽग्नये दद्यात्प्रथमं गुग्गुलाहुतम् । । १७
पुष्पाञ्जलिं ततो गृह्य तच्छिखायां प्रयत्नतः ।
रवेर्मूर्धनि तं दद्याद्देवमन्त्रमुदाहरन् । । १८
ॐ व्रतेन यद्व्रतिनो वर्जयन्ति देवा मनुष्याः पितरश्च सर्वे ।
तस्यादित्यं प्रसरं च मनामहे यस्तेजसा प्रथमं नाविभाति । । १९
धूपवेलाः स्मृताः पञ्च धूपेष्वेव तु पञ्चसु ।
हवनाद्याः क्रियाः पञ्च रक्षिष्येऽहं तथा पुनः । 1.143.२०
दण्डनायकवेला तु प्रत्यूषे ऋक्षदर्शनात् ।
नाज्ञावेला प्रदोषस्तु तत्त्वकार्यं विजानता । । २१
त्रिकालं तु रवेः पूजा कर्तव्या सूर्यदर्शनात् ।
अर्धोदितस्तु पूर्वाह्णे ततोऽर्द्धस्तु रविर्विभुः । । २२
हेलयेति च पूर्वाह्णे मध्याह्ने ज्वलनाय च ।
तथैव मण्डले देयं नीचाह्ने ज्वलनाय च । । २३
चन्दनोदकमिश्राणि गन्धोदकयुतानि च ।
पद्मानि करवीराणि तथा रक्तोत्पलानि च । । २४
कुसुमोदकमिश्राणि कुरुंटकुसुमं तथा ।
गन्धादीनि च दिव्यानि कृत्वा वै ताम्रभाजने ।।२५
धूपं दत्त्वाग्नये वीर प्रयत्नाद्गुग्गुलाहुतिम् ।
अर्घ्यपात्रं तदा गृह्य कुर्यादावाहनं रवेः ।।२६
एहि सूर्य सहस्रांशो तेजोराशे जगत्पते ।
अनुकम्प्य मां देव गृहाणार्घ्यं दिवाकर ।।२७
अनेनावाहनं कृत्वा जानुभ्यामवनीं गतः ।
रवेर्निवेदयेदर्घ्यमादित्यहृदये गतः ।।२८
ॐ नमो भगवते१ आदित्याय विश्वाय खेशाय ब्रह्मणेलोककर्तृणे।
ईशानाय पुराणाय सहस्राक्षाय ते नमः ।।२९
सोमाय ऋग्यजुरथर्वाय।
ॐ भूर्भुवःस्वःॐमहः ॐजनः ॐतपः ॐ सत्यं ब्रह्मणे मुण्डे मध्ये पुरतः ।। आदित्याय नमः ।।1.143.३ ०
नारद उवाच
सावित्र्याश्च परे तन्त्रे त्रैलोक्यत्राणकारिणे ।
परितः परिगृह्याथ धूपभाजनमुत्क्षिपेत् ।।३ १
निवेदयेत्ततो धूपं वाचमेतामुदीरयेत् ।
त्वमेक एव रुद्राणां वसूनां च पुरातनः ।।३२
देवानां गीर्भिरभितः संस्तुतः शाश्वतो दिवि ।
पूर्वाह्णे च त्वया तेन मध्याह्ने चापरेण तु ।।३ ३
ॐ नमो भगवते ज्ञानात्मने त्वां च ।
विष्णोस्तत्परमं पदं सदा पश्यंति सूरयः ।।३४
दिवाकरस्तु सायाह्ने मन्त्रेणार्घ्यं निवेदयेत् । ॐ
नमो वरुणाय शम्भवे ।।३५
ॐ आकृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च ।
हिरण्ययेन सविता रथेनादेवो याति भुवनानि पश्यन्।।३६
अनेन विधिना दत्त्वा धूपं सूर्याय भोजकः ।
उत्क्षिपेच्चैव धूपेन विशेद्गर्भगृहं ततः । । ३७
ततः प्रविश्य धूपं तु प्रतिमार्थं निवेदयेत् ।
मन्त्रेण मिहिरायेति निक्षुभायेति नित्यशः । । ३८
ततो राज्ञै नमश्चेति निक्षुभायै ततो नमः ।
दण्डनायकसंज्ञाय पिङ्गलाय च वै नमः । । ३९
तथा राज्ञाय स्रौषाय तथेशाय गरुत्मते ।
ततः प्रदक्षिणं कुर्वन्दिग्देवेभ्यो निवेदयेत् । । 1.143.४०
दिण्डिने तु ततो दद्याद्धेमन्ताय यदूत्तम ।
महेश्वराय दद्यात्तु तथा व्योमाय यादव । ।४ १
(विश्वेभ्यो देवेभ्यो नमः । रुद्रेभ्यो नमः) ।
ॐ ब्रह्मणे मुण्डपतये आदित्याय पुरुषेश्वराय सूर्याय नमोनमः । । ४२
ॐ अनेककान्तये नत्वा शेषाय वासुकितक्षककर्कोटकाय पद्मशङ्खकुलिकेभ्यो नागराजेभ्यो नमः । ।४ ३
तलसुतलपातालातलवितलरसातलादिवासिभ्यो दैत्यादानवपिशाचेभ्यो नमः ।
ततः प्रदक्षिणं कुर्यान्मातृकाभ्यो नमोनमः ( ॐ ग्रहेभ्यो नमः । । ४४
ॐ दण्डनायकाय नमः । ॐ मार्तंडाय नमः । ॐ विनायकाय नमः । । ४५)
एवमुद्दिश्य नामानि धूपं दत्त्वा वरानन ।
उत्क्षिप्तो यत्र वै धूपो मुक्त्वा तत्रैव तं पुनः । । ४६
सूर्यगुप्तैरभिष्टूय एवं विज्ञाय ते ततः ।
अर्चितस्त्वं यथा शक्त्या मया भक्त्या विभावसो । ।
ऐहिकामुष्मिकीं नाथ कार्यसिद्धिं वदस्व मे । । ४७
एवं त्रिषवणं स्नात्वा योऽर्चयेत्प्रणतो रविम् ।
विधिना तु यथोक्तेन सोऽश्वमेधफलं लभेत् । । ४८
यश्चैवं कुरुते नित्यं यथोक्तं धूपविस्तरम् ।
स पुत्रवानरोगी च मृतः संलीयते रवौ । । ४९
विधिना तु यथोक्तेन क्रियमाणानि यत्नतः ।
सर्वकार्याणि सिद्ध्यन्ति सफलानि भवन्ति च । । 1.143.५०
पुष्पं श्रेष्ठं यदा न स्यात्पत्राणि समुपाहरेत् ।
पत्रं न स्यात्ततो धूपं धूपो न स्यात्ततो जलम् । । ५१
सर्वं न स्याद्यदा चैव प्रणिपातेन पूजयेत् ।
अशक्तः प्रणिपातस्य मनसा पूजयेद्रविम् । । ५२
असम्भवे तु द्रव्याणां विधिरेष प्रकीर्तितः ।
द्रव्याणां सम्भवे चैव सर्वमेवोपहारयेत् । । ५३
मन्त्रैः कर्मयुतो यस्तु मित्रे धूपं निवेदयेत् ।
उच्चारणाच्च वै तेषां धूपप्रीतो भवेद्रविः । । ५४
शिरो नासामुखं चैव भृशमावृत्य यत्नतः ।
पूजयेद्भास्करं वीर शिथिलं१ तु न कारयेत् । । ५५
नलिनेन तु राजेन्द्र नरो याति दिवाकरम् ।
तस्माद्युक्तं सदा कार्यं पूज्यते च दिवाकरः । । ५६
तेऽश्वमेधफलं प्राप्य सूर्यलोकं व्रजन्ति हि ।
धूपेन पूज्यमानं तु नराः पश्यन्ति यादव । । ५७
यान्ति ते परमं स्थानं यन्न पश्यन्ति सूरयः ।
क्रियमाणं तथार्कं च भक्त्या पश्यन्ति ये नराः । ।
सर्वान्कामानिह प्राप्य ते यान्ति परमं पदम् । । ५८
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने धूपादिविविधवर्णनं नाम त्रिचत्वारिंशदधिकशततमोऽध्यायः । १४३ ।