भोजकस्योत्पत्तिवर्णनम्

सुमन्तुरुवाच
अथाजगाम भगवान्व्यासो द्वारवतीं पुरीम् ।
द्रष्टुं नारायणं देवं शङ्खचक्रगदाधरम् । । १
तमागतमृषिं दृष्ट्वा वासुदेवो विशांपते ।
अभ्युत्थाय महातेजाः पूजयामास भारत । । २
स्वयमेवासनं दत्त्वा पाद्यमर्घ्यं तथैव च ।
पप्रच्छ प्रयतो भूत्वा व्यासं सत्यवतीसुतम् । । ३
य एते भोजका विप्रा आनीता मत्सुतेन वै ।
शाकद्वीपमितो गत्वा ज्ञानिनो मोक्षगामिनः । । ४
तान्दृष्ट्वा रूपतो विप्र प्रवेशात्कर्मतस्तथा।
कौतूहलं समुत्पन्नं हर्षश्च परमो मम । । ५
कथमेते क्षणमपि तिष्ठन्ते पृथिवीतले ।
येषां रविः सदा पूज्यस्तेषां मुक्तिः सदा वसेत् । । ६
नागत्वा भोजकत्वं हि मोक्षमाप्नोति कश्चन ।
इदं मे मनसो ब्रह्मन्सदा सम्प्रतिभाति वै । । ७
व्यास उवाच
एवमेव यथात्थ त्वं शङ्खचक्रगदाधर ।
धन्या एते महात्मानो भोजका नात्र संशयः । । ८
ये पूजयन्ति सततं भानुमन्तं दिवाकरम् ।
ज्ञानिनः कर्मनिष्ठाश्च सदा मोक्षगतिं गताः । । ९
यजन्ते सततं भानुं बलिपुष्पफलैस्तथा ।
अन्नेनौषधिभिश्चैव आज्यहोमैश्च कृत्स्नशः । । 1.144.१०
होमं च शाश्वतं कृत्वा परं होमं ततः श्रिताः ।
परहोमस्य करणात्पूतात्मानो ह्यकल्मषाः । । ११
विशन्ति परमां दिव्यां भास्करीं तैजसीं कलाम् ।
कर्मणः साधने चैका तत्र चाग्नौ प्रतिष्ठिता । । १२
वायुमार्गस्थिता व्योम्नि द्वितीयान्तः प्रकाशिका ।
ततः परं तृतीया तु तत्स्मृतं सूर्यमण्डले । । १३
मण्डलं तच्च सवितुर्दिव्यं ह्यजरमव्ययम् ।
तस्याऽसौ पुरुषो मध्ये योऽसौ सदसदात्मकः । । १४
क्षराक्षरस्तु विज्ञेयो महासूर्यस्तथैव च ।
निष्कलः सकलश्चापि द्वौ च तस्य प्रकल्पितौ । । १५
अक्षरः सकलश्चैव सर्वभूतव्यवस्थितः ।
सतत्त्वः सकलः प्रोक्तस्तत्त्वहीनस्तु निष्कलः । । १६
तृणगुल्मलतावृक्षवृकसिंहद्विजाधिपान् ।
सुरसिद्धमनुष्यांश्च स्थलजाञ्जलजान्हरेत् । । १७
व्यवस्थितः स सर्वत्र सर्वेषामन्तरात्मनि ।
यदा कल्पात्मकश्चैव द्वितीयां तनुमाश्रितः । । १८
निष्कलस्तु सदा ज्ञेयः संस्थितस्तैजसीं कलाम् ।
हिमं घर्मं च वर्षं च त्रैलोक्ये कुरुते सदा । । १९
द्वितीया या तनुस्तस्य अक्षरं तत्परं पदम् ।
देवयानं तु पन्थानं कर्मयोगेन संस्थिता । 1.144.२०
आदित्यसिद्धान्तरिताः साङ्ख्ययोगविदश्च ये ।
तेऽभिगच्छन्ति तत्स्थानं स मोक्षः परिकीर्तितः । । २१
निर्द्वन्द्वो निर्गमश्चैव तत्र गत्वा न शोचति ।
वेदेषु ब्रह्म वदन्ति ध्यायन्ते तत्त्ववेदिनः । । २२
अकारं तत्त्वतश्चापि ध्यायन्ते पुरुषोत्तम ।
त्र्यक्षरं च तमोंकारं सार्धमात्रात्रये स्थितम् । । २३
वदन्ति चार्धमात्रस्थं मकारं व्यञ्जनात्मकम्।
ध्यायन्ति ये मकारीयं ज्ञानं ते हि सदात्मकम् । । २४
मकारो भगवान्देवो भास्करः परिकीर्तितः ।
मकारध्यानयोगाच्च मगा ह्येते प्रकीर्तिताः । । २५
धूपमाल्यैर्युतश्चापि उपहारैस्तथैव च ।
भोजयन्ति सहस्रांशुं तेन ते भोजकाः स्मृताः । । २६
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने भोजकस्योत्पत्तिवर्णनं नाम चतुश्चत्वारिंशदधिकशततमोऽध्यायः । १४४ ।