भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०५४

← अध्यायः ०५३ भविष्यपुराणम्
अध्यायः ०५४
वेदव्यासः
अध्यायः ०५५ →

बुधाष्टमीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
बुधाष्टमीव्रतं भूयो ब्रवीमि शृणु पांडव ।।
येन चीर्णेन नरकं नरः पश्यति न क्वचित् ।। १ ।।
पुरा कृतयुगस्यादौ इलो राजा बभूव ह ।।
बहुभृत्यसुहृन्मित्रमंत्रिभिः परिवारितः ।। २ ।।
जगाम हिमवत्पार्श्वे महादेवेन वारितः ।।
योऽन्यः प्रविशते भूमौ सा स्त्री भवति निश्चितम् ।। ३ ।।
स राजा मृगसंगेन प्राविशत्तदुमावने ।।
एकाकी तुरगोपेतः क्षणात्स्त्रीत्वं जगाम ह ।। ४ ।।
सा बभ्राम वने शून्ये पीनोन्नतपयोधरा ।।
कुतोऽहमागतेत्येवं न त्वबुध्यत किंचन ।। ५ ।।
तां ददर्श बुधः सौम्यां रूपौदार्यगुणान्विताम् ।।
अष्टम्यां बुधवारेण तस्यास्तुष्टो बुधो ग्रहः ।। ६ ।।
दधौ गर्भं तदुदरे इलाया रूपतोषितः ।।
पुत्रमुत्पादयामास योऽसौ ख्यातः पुरूरवाः ।। ७ ।।
चंद्रवंशकरो राजा आद्यः सर्वमहीक्षिताम्।।
ततः प्रभृति पूज्येयमष्टमी बुधसंयुता ।। ८ ।।
सर्वपापप्रशमनी सर्वोपद्रवनाशिनी ।।
अथान्यदपि ते वच्मि धर्मराज कथानकम् ।। ९ ।।
आसीद्राजा विदेहानां मिथिलायां स वैरिभिः ।।
संग्रामे निहतो वीरस्तस्य भार्या दरिद्रिणी ।। 4.54.१० ।।
ऊर्मिला नाम बभ्राम महीं बालकसंयुता ।।
अवंती विषयं प्राप्ता ब्राह्मणस्य निवेशने ।। ११ ।।
चकारोदरपूर्त्यर्थं नित्यं कंडनपेषणे ।।
हृत्वा सा स्तोकगोधूमान्ददौ बालकयोस्तदा ।। १२ ।।
कारुण्यान्मातृवात्सल्यात्क्षुधासंपीड्यमानयोः ।।
कालेन बहुना साध्वी पञ्चत्वमगमच्छुभा ।।१३।।
पुत्रस्तस्या विदेहायां गत्वा स्वपितुरासने ।।
उपविष्टः सत्त्वयोगाद्बुभुजे गामनाकुलः ।। १४ ।।
अन्विष्य धर्मराज्ञो वै सा कन्या मिथिवंशजा ।।
विवाहिता हिता भर्तुः सा महानायिकाऽभवत् ।। १५ ।।
श्यामला नाम चार्वंगी प्रसिद्धा श्रूयते श्रुतौ ।।
तामुवाच वरारोहां धर्मराजः स्वयं प्रियाम् ।। १६ ।।
वहस्व सर्वव्यापारं श्यामले त्वं गृहे मम ।।
कुरु स्वजनभृत्यानां दानक्षेपं यथेप्सितम् ।। १७ ।।
किं त्वेते पंजराः सप्त कीलकैरतियंत्रिताः ।।
कदाचिदपि नोद्धाट्यास्त्वया वैदेहनंदिनि ।। १८ ।।
एवमस्त्विति साप्युक्ता निजं कर्म चकार ह ।।
कदाचिद्व्याकुलीभूते धर्मराजे विदेहजा ।।
उद्धाटयित्वा प्रथमं ददर्श जननीं स्वकाम्।। १९।।
सा पच्यमाना क्रंदंती भीषणैर्यमकिंकरैः ।।
हेलया क्षिप्यते बद्ध्वा तप्ततैले पुनःपुनः ।। 4.54.२० ।।
तथैव तालकं दत्त्वा व्रीडिता सा मनस्विनी ।।
द्वितीये पंजरे तद्वत्सा तामेवं ददर्श ह ।। २१ ।।
सुधावल्लिप्यमानां तां शिलातल्पेष्टकेन तु ।।
तृतीयपञ्जरे तद्वत्तां ददर्श स्वमातरम् ।।
क्रकचैः पाट्यते मूर्ध्नि घण्टायुक्तैः करोल्बणैः ।। २२ ।।
चतुर्थे पञ्जरे स्थाने भीषणैर्दारुणाननैः ।।
भक्ष्यमाणां श्वापदैश्च क्रंदंतीं तां पुनः पुनः.।। २३ ।।
पञ्चमे निहिता भूमौ कण्ठे पादेन पीडिता ।।
संदंशैर्वनघातैश्च विदीर्णा क्रियते रुषा ।। २४ ।।
षष्ठे चेक्षुयन्त्रगतां मस्तके मुद्गराहताम् ।।
संपीड्यमानामनिशं सुदृढामिक्षुखंडवत् ।। २५ ।।
सप्तमे पञ्जरे चीर्णस्वनां पूतिकगंधिनीम् ।।
दृष्ट्वा तथा गतां तां तु मातरं दुःखकर्षिता ।।
श्यामला म्लानवदना किंचिन्नोवाच भामिनी ।। २६ ।।
अथागतं यमं प्राह सरोषा श्यामला पतिम् ।।
किं तवापहृतं राजन्मम मात्रा सुदारुणम् ।।
येनेयं विविधैर्घातैर्वध्यते बहुधा त्वया ।। २७ ।।
यमः प्राह प्रियां दृष्ट्वा भद्रे ह्युद्घाटितास्त्वया ।।
एते पञ्जरकाः सप्त निषिद्धा त्वं मया पुरा ।। २८ ।।
तव मात्रा सुतस्नेहाद्गोधूमा ये हृताः किल ।।
किं न जानासि तद्भद्रे येन रुष्टा ममोपरि ।। २९ ।।
ब्रह्मस्वं प्रणयाद्भुक्तं दहत्यासप्तमं कुलम्।।
तदेव चौर्यरूपेण दहत्याचंद्रतारकम् ।। 4.54.३० ।।
गोधूमास्त इमे भूताः कृमिरूपाः सुदारुणाः ।।
ये पुरा ब्राह्मणगृहे हृतास्तव कृतेऽनया ।।३१।।
।। श्यामलोवाच ।। ।।
जानामि तदहं सर्वं यन्मे मात्रा कृतं पुरा ।।
तथापि त्वां समासाद्य सा च जामातरं शुभम् ।।
मुच्यते कृमिराशित्वाद्यथा तदधुना कुरु ।। ३२ ।।
तच्छ्रुत्वा चिन्तयाविष्टश्चिरं स्थित्वा जगाद ताम् ।।
धर्मराजः सहासीनां प्रियां प्राणधनेश्वरीम् ।। ३३ ।।
इतश्च सप्तमेऽतीते जन्मनि ब्राह्मणी शुभा ।।
आसीस्तस्मिंस्त्वया संगात्सखीनां पर्युपासिता ।।
बुधाष्टमी सुसंपूर्णा यथोक्तफलदायिनी ।। ३४ ।।
तत्फलं यद्ददास्यस्यै सत्यं कृत्वा ममाग्रतः ।।
तेन मुच्येत ते माता नरकात्पापसंकटात् ।। ३५ ।।
तच्छ्रुत्वा त्वरितं स्नात्वा ददौ पुण्यं स्वकं कृतम् ।।
स्वमातुः श्यामला तुष्टा तेन मोक्षं जगाम सा ।। ३५ ।।
ऊर्मिला रूपसंपन्ना दिव्यदेहधरा शुभा ।।
विमानवरमारूढा दिव्यमाल्यांबरावृता ।। ३६ ।।
भर्तुः समीपे स्वर्गस्था दृश्यतेऽद्यापि सा जनैः ।।
बुधस्य पार्श्वे नभसि मिथिराजसमीपतः ।।
विस्फुरंती महाराज बुधाष्टम्याः प्रभावतः ।। ३७ ।।
।। युधिष्ठिर उवाच ।। ।।
यद्येवं प्रवरा कृष्ण सा तिथिर्वै बुधाष्टमी ।।
तस्या एव विधिं ब्रूहि यदि तुष्टोसि मे प्रभो ।। ३८ ।।
।। श्रीकृष्ण उवाच ।। ।।
शृणु पांडव यत्नेन बुधाष्टम्या विधिं शुभम् ।।
यदायदा सिताष्टम्यां बुधवारो भवेद्यदि ।।
तदातदा च सा ग्राह्या एकभक्ताशनैर्नृभिः ।। ३९ ।।
स्नात्वा नद्यां तु पूर्वाह्ने गृहीत्वा कलशं नवम् ।।
जलपूर्णं तु सद्रव्यं पूर्णपात्रसमन्वितम् ।। 4.54.४० ।।
अष्टवारान्प्रकर्तव्या विधानैस्तु पृथक्पृथक् ।।
प्रथमा मोदकैः कार्या द्वितीया फेणकैस्तथा ।। ४१ ।।
तृतीया घृतपूपैश्च चतुर्थी वटकैर्नृप ।।
पञ्चमी शुभ्रकारैश्च षष्ठी सोहालकैस्तथा ।।४२।।
अशोकवर्तिभिः शुभ्रैः सप्तमी खंडसंयुतैः।।
अष्टमी फलपुष्पैश्च केवलाखण्डफेणिकैः ।।
एवं क्रमेण कर्तव्या सुहृत्स्वजनबांधवैः ।।४३।।
सह कृत्वा स्थितैर्भोज्यं भोक्तव्यं स्वस्थमानसैः ।।
उपोष्याणामिदं श्रेष्ठं कथयद्भिः शनैःशनैः ।।४४।।
श्रुत्वाष्टमी बुधस्यापि माहात्म्यं भोजनं त्यजेत् ।।
तावदेव न भोक्तव्यं कथा यावत्समाप्यते ।। ४५ ।।
तथा भुक्त्वा बुधस्याग्रे आचम्य च पुनःपुनः ।।
विप्राय वेदविदुषे तं ब्रुवन्प्रतिपादयेत् ।। ४६ ।।
साक्षतं सहिरण्यं च जातरूपमयं शुभम् ।।
अर्चितं विविधैः पुष्पैर्धूपदीपैः सुगंधिभिः ।।४७ ।।
पीतवस्त्रैः समाच्छन्नं बुधं सोमात्मजाकृतिम् ।।
माषकेण सुवर्णेन तदर्धार्धेन वा पुनः ।।४८।।
ॐ बुधाय नमः ।।
ॐ सोमात्मजाय नमः ।।
ॐ दुर्बुद्धिनाशनाय नमः ।।
ॐ सुबुद्धिप्रदाय नमः ।।
ॐ ताराजाताय नमः ।।
ॐ सौम्यग्रहाय नमः ।।
ॐ सर्वसौख्यप्रदाय नमः ।। एते पूजामन्त्राः ।।
अष्टमी तु यदा पूर्णा तदा राजर्षिसत्तम ।।
ब्राह्मणान्भोजयेदष्टौ गां दद्याच्च सवत्सिकाम् ।।४९।।
वस्त्रालंकरणैः सर्वैर्भूषणैर्विविधैरपि ।।
सपत्नीकं समभ्यर्च्य कर्णमात्रांगुलीयकैः ।।
मन्त्रेणानेन कौंतेय दद्यादेवं समाचरन् ।। 4.54.५० ।।
बुधोऽयं प्रतिगृह्णातु द्रव्यस्थोऽयं बुधः स्वयम् ।।
दीयते बुधराजाय तुष्यतां च बुधो मम ।। ५१ ।। ।। (इति दानमंत्र ।) ।। ।।
बुधः सौम्यस्तारकेयो राजपुत्र इलापतिः ।।
कुमारो द्विजराजस्य यः पुरूरवसः पिता ।। ५२ ।। ।। ( इति प्रतिग्रहणमंत्रः ।) ।।
दुर्बुद्धिबाधजनितं नाशयित्वा च मे बुधः ।।
सौख्यं च सौमनस्यं च करोतु शशिनंदनः ।। ५३ ।।
इत्युच्चार्य गृहीत्वा तु दद्यान्मंत्रपुरःसरम् ।।
सप्तजन्मनि राजेन्द्र जातो जातिस्मरो भवेत् ।।५४।।
धनधान्यसमायुक्तः. पुत्रपौत्रप्रवर्द्धनः ।।
दीर्षायुर्विपुलान्भोगान्भुक्त्वा चैव महीतलं ।। ५५ ।।
ततः सुतीर्थे मरणं ध्यात्वा नारायणं विभुम् ।।
मृतोऽसौ स्वर्गमाप्नोति पुरन्दरसमो नरः ।। ५६ ।।
वसते यावदासृष्टेः पुनराभूतसंप्लवम् ।।
एवमेतन्मया ख्यातं व्रतानामुत्तमं व्रतम् ।। ५७ ।।
एषैवं च मयाख्याता गुह्या पार्थ बुधाष्टमी ।।
यां श्रुत्वा ब्रह्महा गोघ्नः सर्वपापैः प्रमुच्यते ।। ५८ ।।
यश्चाष्टमीं बुधयुतां समवाप्य भक्त्या सम्पूजयेद्विधुसुतं कनपृष्ठसं स्थम् ।।
पक्वान्नपात्रसहितैः सहिण्यवस्त्रैः पश्येदसौ यमपुरं न कदाचिदेव ।। ५९ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसं वादे बुधाष्टमीव्रतवर्णनं नाम चतुष्पञ्चाशत्तमोऽध्यायः ।। ५४ ।।