भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः २०५

← अध्यायः २०४ भविष्यपुराणम्
अध्यायः २०५
वेदव्यासः
अध्यायः २०६ →

सदाचारधर्मवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
प्रतिपन्क्रमयोगेन तिथीनां विस्तरः श्रुतः ।।
सरहस्यः समंत्रश्च प्रारंभोद्यापनैः सह ।। १ ।।
नवग्रहमखात्सर्वं होमकर्मावधारितम् ।।
स्नानक्रमश्च विदितो विज्ञाताश्चोत्सवा मया ।। २ ।।
दानधर्मस्त्वशेषेण श्रुतः सर्वार्थदर्शितः ।।
तडागोत्सर्जनविधिर्विदितः पादपोत्सवः ।। ३ ।।
एवं गतं मम मनो मुह्यते मधुसूदन ।।
व्रतं कथयता कृष्ण तास्ताः संश्रित्य देवताः ।। ४ ।।
देवानां देवकीपुत्र नानात्वं संप्रदर्शितम् ।।
तिथिक्रमान्कथयता पूजामन्त्रोधिवासनम् ।। ५ ।।
व्यासाद्यैर्मुनिभिः सर्वैर्ध्यानयोगपरायणैः ।।
एक एवात्र निर्दिष्टो देवः सर्वगतोऽव्ययः ।। ६ ।।
वर्णाश्रमाचारधर्मः कस्मान्नात्र प्रदर्शितः ।।
एते महर्षयस्तुष्टाः श्रोतुकामा भवद्वचः ।। ७ ।।
।। श्रीकृष्ण उवाच ।। ।।
व्रतदानैकलेशोयं कथितस्तव पार्थिव ।।
विशेषतश्च शक्नोति वक्तुं यदि सरस्वती ।। ८ ।।
सर्वस्तरति दुर्गाणि सर्वो भद्राणि पश्यति ।।
वर्णाश्रमाणां सामान्य इति धर्मः प्रकीर्तितः ।। ९ ।।
कथितोऽयं व्रतत्वोहो देवानुद्दिश्य यो मया ।।
परमार्थः स एवोक्तो देवस्तमुपधारय ।। 4.205.१० ।।
यो ब्रह्मा स हरिः प्रोक्तो यो हरिः स महेश्वरः ।।
महेश्वरः स्मृतः सूर्यः सूर्यः पावक उच्यते ।। ।। ११ ।।
पावकः कार्तिकेयोसौ कार्तिकेयो विनायकः ।।
गौरी लक्ष्मीश्च सावित्री शक्तिभेदाः प्रकीर्तिताः ।। १२ ।।
देवं देवीं समुद्दिश्य यः करोति व्रतं नरः ।।
न भेदस्तत्र मंतव्यः शिवशक्तिमयं जगत् ।। १३ ।।
बहुप्रकारा वसुधा भेदाः साग्न्यनिलांभसाम् ।।
परमार्थतश्चिंत्यमानो न भेदः प्रतिभासते ।। १४ ।।
कञ्चिद्देवं समाश्रित्य करोति किमपि व्रतम् ।।
त्रयीधर्मानुगं पार्थ एकं तत्रापि कारणम् ।। १५ ।।
यश्चैव ते मया ख्यातो व्रतदानविधिः परः ।।
सफलः स तु विज्ञेयः सदाचारवतां सताम् ।। १६ ।।
आचारहीनं न पुनंति वेदा यद्यप्यधीताः सह षड्भिरङ्गैः ।।
छंदांस्येनं मृत्युकाले त्यजंति नीडं शकुन्ता इव जातपक्षाः ।। १७ ।।
कपालस्थं यथा तोयं श्वदृतौ वा यथा पयः ।।
दुष्टं स्यात्स्थानदोषेण वृत्तहीने तथा शुभम् ।। १८ ।।
वृत्तं यत्नेन संरक्षेद्वित्तमेति प्रयाति च ।।
अहीनो वित्ततो हीनो वृत्ततस्तु हतो हतः ।। १९ ।।
एवमाचारधर्मस्य मूलं राजन्कुलस्य च ।।
आचाराद्धि च्युतो जंतुर्न कुलीनो न धार्मिकः ।। 4.205.२०।।
किं कुलेनोपदिष्टेन् विपुलेन दुरात्मनाम् ।।
कृमयः किं न जायंते कुसुमेषु सुगंधिषु ।। २१ ।।
हीनजातिप्रसूतोपि शौचाचारसमन्वितः ।।
सर्वधर्मार्थकुशलः सकुलीनः सतां वरः ।। २२ ।।
न कुलं कुलमित्याहुराचारः कुलमुच्यते ।।
आचारकुशलो राजन्निह चामुत्र नंदते ।। २३ ।।
।। युधिष्ठिर उवाच ।। ।।
सदाचारमहं कृष्ण श्रोतुमिच्छामि शाश्वतम् ।।
सर्वं धर्ममयः कोऽत्र सदाचारः प्रकीर्तितः ।। २४ ।।
।। श्रीकृष्ण उवाच ।। ।।
आचारप्रभवो धर्मः संतश्चाचारलक्षणाः ।।
साधूनां च यथा वृत्तं स सदाचार उच्यते ।। २९ ।।
तस्मात्कुर्यादिहाचारं य इच्छेद्गतिमात्मनः ।।
अपि पापशरीरस्य आचारो हंत्यलक्षणम् ।। २६ ।।
अदृष्टमश्रुतं वेदं पुरुषं धर्मचारिणम् ।।
स्वानि कर्माणि कुर्वाणं तं जनं कुरुते प्रियम् ।। २७ ।।
ये नास्तिका नैष्ठिकाश्च गुरुशास्त्रातिलंघिनः ।।
अधर्मज्ञा दुराचारास्ते भवंति गतायुषः ।। २८ ।।
सर्वलक्षणहीनोपि यः सदाचारवान्नरः ।।
श्रद्दधानोनसूयश्च सर्वान्कामानवाप्नुयात् ।। २९ ।।
ब्राह्मे मुहूर्ते बुध्येत धर्मार्थावनुचिन्तयेत् ।।
ब्राह्मणानलगो सूर्यान्न मेहेत कदाचन ।। 4.205.३० ।।
उदङ्मुखो दिवारात्रावुत्सर्गं दक्षिणामुखः ।।
उत्थायाचम्य तिष्ठेत पूर्वां संध्यां समाहितः ।। ३१ ।।
एवमेवोत्तरां संध्यां समुपासीत वाग्यतः ।।
नेक्षेतादित्यमुद्यन्तं नास्तं यांतं कदाचन ।। ३२ ।।
ऋषयो दीर्घतपसा दीर्घमायुरवाप्नुयुः ।।
उपासते येन पूर्वां द्विजाः संध्यां न पश्चिमाम् ।। ३३ ।।
सर्वांस्तान्धार्मिको राजा शूद्रकर्मणि योजयेत् ।।
आबाधासु यथाकामं कुर्यान्मूत्रपुरीषयोः ।। ३४ ।।
शिरसा प्रावृतेनैव समास्तीर्य तृणैर्महीम् ।।
ग्रामावसथतीर्थानां क्षेत्राणां चैव वर्त्मनि ।। ३५ ।।
न मूत्रमधितिष्ठेत न कृष्टे न च गोव्रजे ।।
अन्तर्जलादावसथाद्वल्मीकान्मूषकस्थलात् ।। ३६ ।।
कृतशौचावशिष्टाश्च वर्जयेत्पञ्च वै मृदः ।।
देवार्चनादिकार्याणि तथा गुर्वभिवादनम् ।। ३७ ।।
कुर्वीत सम्यगाचम्य तद्वदन्नभुजि क्रियाम् ।।
अफेनशब्दगंधाभिरद्भिरच्छाभिरादरात् ।। ।। ३८ ।।
आचामेत्प्रयतः सम्यक्प्राङ्मुखोदङ्मुखोऽपि वा ।।
त्रिवर्गसाधने यच्च सदा कार्यं विपश्चिता ।। ३९ ।।
तत्सांनिध्ये गृहस्थस्य सिद्धिरत्र परत्र च ।।
पादेन कार्यं पारत्र्यं पादं कुर्याच्च संचये ।। 4.205.४० ।।
अर्धेनाहारचरणनित्यनैमित्तिकांतकम् ।।
अर्थस्योपार्जने यत्नः सदा कार्यो विपश्चितैः ।। ४१ ।।
तत्संसिद्धौ हि सिद्ध्यन्ति धर्मकामादयो नृप ।।
केशप्रसाधनादर्शदर्शनं दंतधावनम् ।। ४२ ।।
पूर्वाह्न एव कार्याणि देवतानां च पूजनम् ।।
दूरादावसथान्मूत्रं दूरात्पादावसेचनम् ।। ४३ ।।
उच्छिष्टोत्सर्जनं दूरात्सदा कार्यं हितैषिणा ।।
लोष्टमर्दी तृणच्छेदी नखखादी च यो नरः ।। ४४ ।।
नित्योच्छिष्टः संकरकृन्नेहायुर्विंदते महत् ।।
नग्नां परस्त्रियं नेक्षेन्न पश्येदात्मनः शकृत् ।। ४५ ।।
उदक्यादर्शनस्पर्शं कुर्यात्संभाषणं न च ।।
नाप्सु मूत्रं पुरीषं वा मैथुनं वा समाचरेत् ।। ४६ ।।
नाधितिष्ठेच्छकृन्मूत्रे केशभस्मकपालिकान् ।।
तुषांगारास्थिशीर्णानि रञ्जुवस्त्रादिकानि च ।। ४७ ।।
धारिणो न नमेद्विद्वान्नासनं चापि दापयेत् ।।
ब्राह्मणान्प्रणमेद्विद्वानासनं चापि दापयेत् ।। ४८ ।।
कृतांजलिरुपासीत गच्छंतं पृष्ठतोन्वियात् ।।
न चासीतासने भिन्ने भिन्नं कांस्यं च वर्जयेत् ।। ४९ ।।
नामुक्तकेशैर्भोक्तव्यं न नग्नः स्नानमाचरेत् ।।
स्वप्तव्यं नैव नग्नेन न चोच्छिष्टस्तु संविशेत् ।। 4.205.५० ।।
उच्छिष्टो न स्पृशेच्छीर्षं सर्वे प्राणास्तदाश्रयाः ।।
केशग्रहान्प्रहारांश्च शिरस्येतानि वर्जयेत् ।। ५१ ।।
नान्यत्र पुत्र शिष्याभ्यां शिफया ताडनं स्मृतम् ।।
न पाणिभ्यां संहताभ्यां कंडूयेदात्मनः शिरः ।। ५२ ।।
न चाभीक्ष्णं शिरःस्नानं कार्यं निष्कारणं नरैः ।।
अप्रशस्तं निशि स्नानं राहोरन्यत्र दर्शनात् ।। ५३ ।।
न भुक्तोत्तरकालं च न गम्भीरजलाशये ।।
शिरःस्नानं तु तैलेन नांगं किंचिदुपस्पृशेत्।। ।। ५४ ।।
तिलपिष्टं च नाश्नीयात्तथास्यायुर्न हीयते ।।
दुष्कृतं न गुरोर्भूयात्क्रुद्धं चैनं प्रसादयेत् ।।५५।।
परीवादं न शृणुयादन्येषामपि जल्पताम्।।
सदानुपहतस्तिष्ठेत्प्रशस्ताश्च तथौषधीः ।। ५६ ।।
गारुडानि च रत्नानि बिभृयात्प्रयतो नरः ।।
सुस्निग्धामलकेशश्च सुगन्धिश्चारुवेषधृक् ।।५७।।
सिताः सुमनसो हृद्या बिभृयाच्च नरः सदा।।
किंचित्परस्वं न हरेन्नाल्पमप्यप्रियं वदेत्।।५८।।
प्रियं च नानृतं ब्रूयान्नान्यदोषानुदीरयेत् ।।
नान्याश्रितं तथा वैरं रोचयेत्पुरुषेश्वरः।।५९।।
न दुष्टयानमारोहेत्कूलच्छाया न संश्रयेत् ।।
विद्विष्टपतितोन्मत्तबहुवैरादिसंकरैः ।।4.205.६०।।
बंधकीबंधकीभर्तृक्षुद्रानृत कथैः सह ।।
तथातिव्ययशीलैश्च परिवादरतैः शठैः ।।६१।।
बुधो मैत्रीं न कुर्वीत नैकः पंथानमाश्रयेत् ।।
नावगाहेज्जलौघस्य वेगमग्रे नरेश्वरा।६२।।
प्रदीप्तं वेश्म न विशेन्नारोहेच्छिखरं तरोः ।।
न हुंकुर्याच्छवं चैव शवगन्धो हि सोमजः ।। ६३ ।।
न कुर्याद्दन्तसंवर्षं न कुर्याच्चलनासिकाम् ।।
नासंस्पृष्टमुखो ब्रूयाच्छ्वासकासौ च वर्जयेत् ।। ६४ ।।
नोच्चैर्हसेत्सशब्दं च न मुञ्चेत्पवनं बुधः ।।
नखान्न वादयेच्छिंद्यान्न नखैश्च महीं लिखेत् ।। ।। ६५ ।।
न श्मश्रु भक्षयेच्चैव न लोष्ठानि च मर्दयेत् ।।
पादेन नाक्रमेत्पादं न पूज्याभिमुखं नयेत ।।६६।।
नोच्चासने समासीत गुरोरग्रे कदाचन ।।
तस्मात्सदाचारपरो भवेत्कामचरो न हि ।। ६७ ।।
लोकद्वये शुभं प्रेप्सुः प्रेत्य स्वर्गे महीयते ।।
चतुष्पथं चैत्यतरुं श्मशानोपवनानि च ।। ६८ ।।
दुष्टस्त्रीसंनिकर्षं च वर्जयेन्निशि सर्वदा ।।
ग्रीष्मवर्षासु चच्छत्री मौनी रात्रौ वनेषु च ।। ६९ ।।
केशास्थिकण्टकामेध्यबलिभस्मतुषांस्तथा ।।
स्नानार्द्रां धरणीं चैव दूरतः परिवर्जयेत्।।4.205.७०।।
पंथा देयो ब्राह्मणेभ्यो राजभ्यः स्त्रीभ्य एव च ।।
विद्याधिकस्य गुर्विण्या भारार्तस्य महीयसः।।७१।।
मूकांधबधिराणां च मत्तस्योन्मत्तकस्य च ।।
उपानद्वस्त्रमाल्यं च धृतमन्यैर्न धारयेत् ।। ७२ ।।
न हीदृशमनायुष्यं लोके किञ्चन विद्यते ।।
यादृशं पुरुषस्येह परदारोपसेवनम् ।।७३।।
न चेर्ष्या स्त्रीषु कर्तव्या दारा रक्ष्याः प्रयत्नतः ।।
अनायुष्या भवेदीर्ष्या तस्मात्तां परिवर्जयेत् ।। ७४ ।।
मूर्खोन्मत्तव्यसनिनो विरूपान्मानिनस्तथा ।।
हीनांगानधिकांगांश्च विद्याहीनांश्च नाक्षिपेत् ।। ७५ ।।
पानीयस्य क्रिया नक्तं तथैव दधिसक्तवः ।।
वर्जनीया महाराज निशीथे भोजनक्रियाः ।। ७६ ।।
नोर्ध्वजानुश्चिरं तिष्ठेन्न रहस्यपरो भवेत् ।।
तद्वन्नोपविशेत्प्राज्ञः पादेनाक्रम्य वासनम् ।।७७।।
न चातिरक्तवासाः स्याच्चित्रासितधरोऽपि वा ।।
न च कुर्याद्विपर्यासं वाससो न विभूषणे ।। ७८ ।।
स्त्रीं कृशां नावजानीयाद्दीर्घमायुर्जिजीविषुः ।।
ब्राह्मणं क्षत्रियं सर्वं सर्वे ह्याशीविषोपमाः ।।७९।।
हन्यादाशीविषः क्रुद्धो यावत्स्पृशति दंष्ट्रया ।।
क्षत्रियोऽपि दहेत्क्रुद्धो यावत्पश्यति तेजसा।।4.205.८०।।
ब्राह्मणः सकुलं हन्याद्ध्याने नावेक्षितेन च ।।
नातिकल्यं नातिसायं न च मध्यं दिने तथा।।८१।।
नाज्ञातैः सह गंतव्यं नैकेन बहुभिः सह ।।
नारुंतुदः स्यान्न परोक्षवादी न सही नतः ।। ८२ ।।
रोहते चाग्निना दग्धं वनं परशुना हतम् ।।
वचो दुरुक्तबीभत्सं न संरोहति चाशतम् ।। ८३ ।।
नास्तिक्यं वेदनिंदा च देवतानां च कुत्सनम् ।।
द्वेषस्तंभादिमानस्य क्लैब्यं च परिवर्जयेत् ।। ८४ ।।
न ब्राह्मणं परिवदेन्न नक्षत्राणि दर्शयेत् ।।
तिथिं पक्षस्य न ब्रूयाद्ययास्यायुर्न रिष्यते ।। ८५ ।।
तेजो निष्ठीव्य वासश्च परिधायाचमेद्बुधः ।।
जितामित्रो नृपो यश्च बलवान्कर्मतत्परः ।।८६ ।।
तत्र नित्यं वसेत्प्राज्ञः कृतकृत्यः पतौ सुखम् ।।
पौराः सुसंहता यत्र सततन्यायवर्तिनः ।। ८७ ।।
यत्र स्त्रियोऽमत्सरिण्यस्तत्र वासः सुखोदयः ।।
यस्मिन्कृषीवला राष्ट्रे प्रायशो नातिभाषिणः ।। ८८ ।।
यत्रौषधान्यशेषाणि वसेत्तत्र विचक्षणः ।।
तत्र राजन्न वस्तव्यं यत्रैतत्त्रितयं सदा ।। ८९ ।।
जिगीषुः पूर्ववैरं च जनश्च विरतोत्सवः ।।
तत्र राजन्न वस्तव्यं यत्र नास्ति चतुष्टयम् ।। 4.205.९० ।।
ऋणप्रदाता वैद्यश्च श्रोत्रियः सजला नदी ।।
अवलोक्यो न चादर्शो मलिनो बुद्धिमत्तरैः ।। ९१ ।।
न च रात्रौ महाराज दीर्घराज्यमभीप्सता ।।
हेमकारगृहे चान्नमश्नीयान्न च विश्वसेत्।। ९२ ।।
न च मित्रं प्रकुर्वीत हेमकारं कदाचन ।।
भिन्नभांडं च खट्वां च कुक्कुरं कुक्कुटं तथा ।।९३।।
अप्रशस्तानि चत्वारि ये च वृक्षाः सकंटकाः ।।
भिन्न भांडे बलिः प्रायः खद्वायां चेह निश्चयः ।। ९४ ।।
नाश्नंति पितरस्तस्य यत्र कुक्कुरकुक्कटौ ।।
वृक्षमूले पिशाचानां सर्वेषामेव संस्थितिः ।। ९५ ।।
अतस्तेषां तले भुजन्नश्नुते पूयशोणितम् ।।
असंस्कृतान्नभुङ्मूत्रं बालादिप्रभवं स्वयम् ।। ९६ ।।
सुवासिनीं गुर्विणीं च वृद्धां बालातुरांस्तथा ।।
भोजयेत्संस्कृतान्नेन प्रथमं चरमं गृही ।। ९७ ।।
अघं स केवलं भुंक्ते बद्धगोवाहनादिकम् ।।
यो भुंक्ते च बहिर्ज्येष्ठप्रेक्षतामप्रदाय च ।। ९८ ।।
वैश्वदेवं ततः कुर्याद्यावदाहुतयः क्रमात् ।।
प्रथमां ब्रह्मणे दद्यात्प्रजानां पतये ततः ।। ९९ ।।
तृतीयां चैव गुह्येभ्यः कश्यपाय तथा पराम् ।।
ततश्चानुमते दद्याद्दत्त्वा गृहबलिं ततः ।। 4.205.१०० ।।
पूर्वाख्यातं मया यत्ते नित्यकर्मक्रियाविधौ ।।
दद्यादथ धरित्रीणां दद्यात्तु मणिकत्रयम् ।। १०१ ।।
प्राच्यादिक्रमयोगेन इंद्रादीनां बलिं क्षिपेत् ।।
ब्रह्मणे चान्तरिक्षाय सूर्याय च यथाक्रमम् ।।१०२।।
विश्वेभ्यश्चैव देवेभ्यो विश्वभूतेभ्य एव च ।।
कृत्वापसव्यं वायव्यं यक्ष्मैतत्ते निवेदयेत् ।।१०३।।
ततश्चाग्रं समुद्धृत्य हंतकारोपकल्पितम् ।।
यथाविधि यथान्यायं ब्राह्मणायोपपादयेत् ।।१०४।।
दत्त्वा विधिभ्यो देवेभ्यो गुरुभ्यः सुश्रुताय च ।।
पुण्यगंधांबरधरो माल्यधारी नरेश्वर ।। १०५ ।।
नैकवस्त्रधरोऽश्नीयान्नार्द्रपादो महीपते ।।
विशुद्धवदनः प्रीतो भुंजीत न विदिड्मुखः ।। १०६ ।।
प्राङ्मुखोदङ्मुखो वापि न चैवान्यमना नरः ।।
कुत्सितेन हतं चैव जुगुप्सावदसंस्कृतम् ।।१०७।।
दत्त्वा तु भुंक्ते शिष्टेभ्यः क्षुधितेभ्यस्तथा गृही ।।
प्रशस्तशुद्धपात्रेषु भुञ्जीताकुपितो नृप ।। १०८ ।।
नासंदीसंस्थिते पात्रे नादेशे च नरेश्वर ।।
ना काले नातिसंकीर्णे दत्त्वाग्रं च नरो मही ।। १०९ ।।
अश्नीयात्तन्मयो भूत्वा पूर्वं तु मधुरं रसम् ।।
लवणोग्रौ ततः पश्चात्कटुतीक्ष्णादिकं ततः ।। ।। 4.205.११० ।।
मार्दवं पुरुषोश्नन्वै मध्ये च कठिनाशनम् ।।
अंते पुनर्द्रवाशी च नरो रोगेण मुच्यते ।।१११।।
दिवाधानासु वसति रात्रौ च दधिसक्तुषु ।।
अलक्ष्मीः कोविदारेषु सर्वदैव कृतालया ।। ११२ ।।
अनिंद्यं भक्षयेन्नित्यं वाग्यतोऽन्नमकुत्सयन् ।।
भुक्त्वा सम्यग्यथाचम्य प्राङ्मुखोदङ् मुखोऽपि वा ।। ११३ ।।
यथावत्पुनराचामेत्पाणी प्रक्षाल्य यत्नतः ।।
अभीष्टदेवतानां च कुर्वीत स्मरणं नरः ।। ११४ ।।
प्राणापानसमानानामुदानव्यानयोस्तथा ।।
अन्नपुष्टिकरं चास्तु ममाद्याव्याहतं सुखम् ।। ११५ ।।
अगस्तिरग्निर्वडवानलश्च भुक्तं प्रपात्रं जरयत्वशेषम् ।।
सुखं च मे तत्परिणामसंभव यच्छत्वरोगं खलु वासुदेवः ।। ११६ ।।
इत्युच्चार्य स्वहस्तेन पीरमार्ज्य तथोदरम् ।।
अनायासप्रदायीति कुर्यात्कर्माण्यतंद्रितः।।११७।।
संध्यायां पथिकः कश्चित्समागच्छति भारत ।।
पादशौचासनैः प्रह्वः स्वागतोक्त्या च पूजयेत् ।। ११८ ।।
ततश्चान्नप्रदानेन शयनेन च पार्थिव ।।
दिवा तिथौ च विमुखो यदैकं पातकं भवेत् ।।११९।।
तदेवाष्टगुणं पुंसां सूर्ये हंसमुखे गते ।।
गच्छेच्छय्यामस्फुटितामपि दारुमयीं नृप ।। 4.205.१२० ।।
नाविशालां न वा भग्नां नासमां मलिनां न च ।।
न च जंतुमयीं शय्यां समातिष्ठेदनापदि ।। १२१ ।।
प्राच्यां दिशि शिरः शस्तं याम्यायामपि भूपते ।।
सदैव स्वपतां पुंसां विपरीतं तु रोगदम् ।। १२२ ।।
ऋतावुपगमः शस्तः सपत्न्यां ह्यवनीपते ।।
पुण्यर्क्षे च शुभे काले पुत्रा युग्मासु रात्रिषु ।। १२३ ।।
न चास्नातां स्त्रियं गच्छेद्गर्भिणीं न रजस्वलाम् ।।
नानिष्टां वै न कुपितां नाशस्तां न च रोगिणीम् ।। १२४ ।।
नादक्षिणां नान्यकामां नाकामां नान्ययोषितम् ।।
सुक्षामामत्यभुक्तां च स्वयं चैभिर्गुणैर्युतः ।।१२५।।
स्नातः सुगन्धधृग्धृष्टो न श्रांतः क्षुधितोऽपि वा ।।
सकामः सानुरागश्च व्यवायं पुरुषो व्रजेत् ।। १२६ ।।
चतुर्दश्यां तथाष्टम्यां पंचदश्यां च पर्वसु ।।
तैलाभ्यंगं तथा भोगान्योषितश्च विवर्जयेत् ।। १२७ ।।
क्षुर कर्मणि चांते च स्त्रीसंभोगे च भारत ।।
स्नायीत चैलवान्प्रातः कटभूमिमुपेत्य च ।। १२८ ।।
गुरोः पतिव्रतानां च तथा यज्ञतपस्विनाम् ।।
परिवादं न कुर्वीत परिहासेऽपि भारत ।। १२९ ।।
युगपज्जलमग्निं च बिभृयान्न विचक्षणः ।।
गुरुं देवान्प्रति तथा न च पादौ प्रसारयेत् ।। 4.205.१३० ।।
नाचक्षीत धयंतीं गां जलं नांजलिना पिबेत् ।।
वातातपौ न सेवेत अनुतापं च वर्जयेत् ।।१३१।।
दासं शपेन्न वै क्रुद्धः सर्वबन्धूनमत्सरी ।।
भीताश्वासनकृत्साधुः स्वर्गस्तस्याव्ययं फलम् ।। १३२ ।।
नोर्ध्वं तु पत्तनद्वारं निरीक्ष्य पर्यटेन्नरः।।
युगमात्रं महीपृष्ठे नरो गच्छेद्विलोकयन् ।। १३३ ।।
शेषाहे त्वपि शेषांश्च वश्यात्मा यो निरस्यति ।।
तस्य धर्मार्थकामानां हानिर्नाल्पापि जायते ।। १३४ ।।
वृथा मांसं न खादेत पृष्ठमांसं तथैव च ।।
आक्रोशं च विवादं च पैशुन्यं च विवर्जयेत् ।। १३५ ।।
संयावं कृशरं मांसं शष्कुलीपायसं तथा ।।
आत्मार्थे न प्रकर्तव्यं देवतानां प्रकल्पयेत् ।। ।। १३६ ।।
अजाश्च नावकर्षेत ता बहिर्धारयंति च ।।
रक्तमाल्यं न धार्यं स्याच्छुक्लं धार्यं तु पंडितैः ।। १३७ ।।
वर्जयित्वात्र कमलं तथा कुवलयं विभो ।।
रक्तं शिरसि धार्यं च तथा पानेयमित्यपि ।। १३८ ।।
कांचनीयापि या माला सा न दुष्यति कर्हिचित् ।।
अन्यदेव भवेद्वासः शयनीये नरोत्तम ।। १३९ ।।
अन्यदर्चासु देवानामन्यद्धार्यं सभासु च ।।
पिप्पलं च वटं चैव शीर्णश्लेष्मांतकं तथा ।। 4.205.१४० ।।
उदुबरं न खादेत भवार्थी पुरुषोत्तमः ।।
पतितैश्च कथांते च च्छेदनं च विवर्जयेत् ।। १४१ ।।
पतितः स्यान्नरो राजन्पतितैस्तु सहाचरन् ।।
वृद्धो ज्ञातिस्तथा मित्रं दरिद्रो यो भवेदिह ।। १४२ ।।
गृहे वा संस्थापितास्ते गृहवृद्धिमभीप्सता ।।
गृहे पारावता धन्याः शुकाश्च सहसारिकाः।। १४३ ।।
भवंत्येते तथा पापास्तथा वै तिलपायिकाः ।।
आजोक्षा चंदनं वीणा आदर्शो मधुसर्पिषी ।। १४४ ।।
जलाग्नी चैव बिभृयाद्गृहे नित्यमिति स्थितिः।।
धनुर्वेदे च सततं यत्नः कार्यो नराधिप ।। १४५ ।।
हस्तिपृष्ठेऽश्वपृष्ठे च रथचर्यासु चैव हि।।
यत्नवान्भव राजेन्द्र नयवान्सुखमेधते ।। १४६ ।।
प्रजापालन युक्तश्च न क्षांतिं लभते नृप ।।
यज्ञशास्त्रं च विज्ञाय शब्दशास्त्रं च भारत ।। १४७ ।।
गांधर्वशास्त्रं विज्ञेयं कला ज्ञेयाश्च भारत ।।
पुराणमितिहासं च तथाख्यानानि यानि च ।। १४८ ।।
एष ते लक्षणोद्देश आचारस्य प्रकीर्तितः ।।
शेषाश्च वेद्या वृद्धेभ्यः प्रत्याहार्या नराधिप।। १४९ ।।
आचारो भूतिजनन आचारः कीर्तिवर्धनः ।।
आचाराद्वर्धते ह्यायुराचारो हंत्यलक्षणम् ।। 4.205.१५० ।।
आगमानां हि सर्वेषामाचारः श्रेष्ठ उच्यत ।।
आचारः परमो धर्म आचाराद्वर्धते धनम् ।। १५१ ।।
पुण्यं यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत् ।।
सर्ववर्णानुकंपार्थं मयैतत्समुदाहृतम् ।। ।। १५२ ।।
आचार एव नरपुंगव सेव्यमानो धर्मार्थकामफलदो भवतीह पुंसाम् ।।
तस्मात्सदैव विदुषावहितेन राजञ्छास्त्रोदितो ह्यनुदिनं परिपालनीयः ।। १५३ ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे सदाचारधर्मवर्णनं नाम पञ्चाधिकद्विशततमोऽध्यायः ।। २०५ ।।