महाभारतम्-04-विराटपर्व-009

← विराटपर्व-008 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-009
वेदव्यासः
विराटपर्व-010 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

युधिष्ठिरेण यतिवेषपरिग्रहेण विराटसभाप्रवेशः ।। 1 ।।
प्रत्युत्थानादिना सत्कृतेन युधिष्ठिरेण विराटभवने निवासः ।। 2 ।।


वैशंपायन उवाच।

4-9-1x

ततस्तु ते पुण्यजलां शिवां शुभां महर्षिगन्धर्वनिषेवितोदकाम्।
त्रिलोककान्तामवतीर्य जाह्नवीमृषींश्च देवांश्च पितृनतपर्यन् ।। 1 ।।

4-9-1a
4-9-1b

वरप्रदानं ह्यनुचिन्त्य पार्थिवे हुत्वाऽग्निहोत्रं कृतजप्यमङ्गलः ।
दिशं तथैन्द्रीमभितः प्रपेदिवान्कृताञ्जलिर्धर्ममुपाह्वयच्छनैः ।। 2 ।।

4-9-2a
4-9-2b

युधिष्ठिर उवाच।

4-9-3x

वरप्रदानं मम दत्तवान्पिता प्रसन्नचेता वरदः प्रजापतिः ।
जलार्थिनो मे तृषितस्य सोदरा मया प्रयुक्ता विविशुर्जलाशयम् ।। 3 ।।

4-9-3a
4-9-3b

निपातिता यक्षवरेण ते वने महाहवे वज्रभृतेव दानवाः ।
मया च गत्वा वरदो हि तोषितो विवक्षता प्रश्नसमुच्चयं गुरुः ।। 4 ।।

4-9-4a
4-9-4b

स मे प्रसन्नो भगवान्वरं ददौ परिष्वजंश्चाह तथैव सौहृदात्।
वृणीष्व यद्वाञ्छसि पाण्डुनन्दन स्थितोऽन्तरिक्षे वरदोऽस्मि पश्य माम् ।। 5 ।।

4-9-5a
4-9-5b

स वै मयोक्तो वरदः पिता प्रभुः सदैव मे धर्मरता मतिर्भवेत्।
इमे च जीवन्तु ममानुजाः प्रभो वयं स्वरूपं च जयं तथाऽऽप्नुमः ।। 6 ।।

4-9-6a
4-9-6b

क्षमा च कीर्तिश्च यथेप्सितं भवेद्व्रतं तु सत्यं च समाप्तिरेव च।
वरो ममैषोस्तु यथाऽनुकीर्तितो न तन्मृषा देववृषो यथाऽब्रवीत् ।। 7 ।।

4-9-7a
4-9-7b

वैशंपायन उवाच।

4-9-8x

इत्येवमुक्त्वा धर्मात्मा धर्ममेवानुचिन्तयन्।
तदैव तत्प्रसादेन रूपमेवाभवत्स्वयम् ।। 8 ।।

4-9-8a
4-9-8b

स वै द्विजातिस्तरुणस्त्रिदण्डभृत्कमण्डलूष्णीषधरो व्यजायत।
सुरक्तमाञ्जिष्ठवराम्बरः शिखी पवित्रपाणिर्ददृशे तदाऽद्भुतम् ।। 9 ।।

4-9-9a
4-9-9b

तथैव तेषामपि धर्मचारिणां यथोचितार्हाभरणाम्बरस्रजः।
क्षणेन राजन्नभवन्महात्मनां प्रशस्तधर्माग्र्यफलाभिकाङ्क्षिणाम् ।। 10 ।।

4-9-10a
4-9-10b

नवेन रूपेण विशांपतिर्युतस्त्वथर्वरूपेण बभौ प्रतापवान्।
निबद्धवैडूर्यसितान्सकाञ्चनान्नृपस्तथाऽक्षान्परिवेष्ट्य वाससः ।। 11 ।।

4-9-11a
4-9-11b

ततो विराटं प्रथमं युधिष्ठिरो ददर्श दूरात्सुसमृद्धतेजसम्।
अनन्ततेजोज्वलितं हुताशनं दुरासदं तीक्ष्णविषं यथोरगम् ।। 12 ।।

4-9-12a
4-9-12b

सभासदं प्राञ्जलिभिर्जनैर्वृतं विचित्रनानाविधशस्त्रपाणिभिः ।
उपायनौघैः प्रविशद्भिराचितं द्विजैश्च शिक्षाक्षरमन्त्रधारिभिः ।। 13 ।।

4-9-13a
4-9-13b

गजैरुदीर्मं तुरगैश्च सङ्कुलं मृगद्विपैः कुब्जगणैः समावृतम् ।
सितोच्छ्रितोष्णीषनिरुद्धमूर्धजं विचित्रवैडूर्यविकारकुण्डलम् ।
विराटमायाच्च युधिष्ठिरस्तदा बृहस्पतिः शक्रमिव त्रिविष्टपे ।। 14 ।।

4-9-14a
4-9-14b
4-9-14c

तमाव्रजन्तं प्रसमीक्ष्य पाण्डवं विराटराजो मुदितेन चक्षुषा ।
पप्रच्छ चैनं स नराधिपो मुहुर्द्विजाश्च ये चास्य सभासदस्तदा ।। 15 ।।

4-9-15a
4-9-15b

विराट उवाच ।

4-9-16x

को वा विजानाति पुराऽस्य दर्शनं युवा सभां योऽयमुपैति मामिकाम्।
रूपेण सारेण विराजयन्महीं श्रिया ह्ययं वैश्रवणो द्विजो यथा ।। 16 ।।

4-9-16a
4-9-16b

मृगेन्द्रराड्वारणयूथपोपमः प्रभात्ययं काञ्चनपर्वतो यथा।
विराजते पावकसूर्यसन्निभं सचन्द्रनक्षत्र इवांशुमान्ग्रहः ।। 17 ।।

4-9-17a
4-9-17b

न दृश्यतेऽस्यानुचरो न कुञ्जरो न चोष्णरश्म्यावरणं समुच्छ्रितम् ।
न कुण्डलं नाङ्गदमस्य न स्रजो विचित्रिताङ्गश्च रथश्रतुर्युजः ।। 38 ।।

4-9-18a
4-9-18b

क्षात्रं च रूपं हि बिभर्त्ययं भृशं गजेन्द्रशार्दूलमहर्षभोपमः ।
अभ्यागतोऽस्माननलंकृतोपि सन् विरोचते भानुरिवाचिरोदितः ।। 19 ।।

4-9-19a
4-9-19b

विभात्ययं क्षत्रिय एव सर्वथा विराट इत्येवमुवाच तं प्रति।
ससागरान्तामयमद्य मेदिनीं प्रशासितुं चार्हति वासवोपमः ।। 20 ।।

4-9-20a
4-9-20b

नाक्षत्रियो नूनमयं भविष्यति मूर्धाभिषिक्तः प्रतिभाति मां प्रति ।
तुल्यं हि रूपं प्रतिदृश्यतेऽस्य गजस्य सिंहस्य तथर्षभस्य ।। 21 ।।

4-9-21a
4-9-21b

यमेष कामं परिमार्गते द्विजः स चास्य सर्वः क्रियतामसंशयम् ।
प्रियं च मे दर्शनमीदृशे जने द्विजेषु मुख्येषु तथाऽतिथिष्वपि ।। 22 ।।

4-9-22a
4-9-22b

धनेषु रत्नेष्वथ गोषु वेश्मसु प्रकामतो मे विचरत्ववारितः ।। 23 ।।

4-9-23a

वैशंपायन उवाच ।

4-9-24x

एवं ब्रुवाणस्तमनन्ततेजसं विराजमानं सहसोत्थितो नृपः।
अन्येन रूपेण समीपमागतं त्रिदण्डकुण्ड्यङ्कुशशिक्यपाणिनम् ।। 24 ।।

4-9-24a
4-9-24b

समुत्थिता सा हि सभा सपार्थिवा सविप्रराजन्यविशा सशूद्रका ।
सभागत प्रेक्ष्य तपन्तमर्चिषां विनिःसृतं राहुमुखाद्यथा रविम् ।। 25 ।।

4-9-25a
4-9-25b

स तेन पूर्वं जयतां भवानिह द्विजातिनोक्तोऽभिमुखः कृताञ्जलिः ।
जयं जयार्हेण समेत्य वर्धितो विराटराजो ह्यभिवादयच्च तम् ।। 26 ।।

4-9-26a
4-9-26b

तमब्रवीत्प्राञ्जलिरेष पार्थिवो विराटराजो मधुराक्षरं वचः।
प्राप्तः कुतस्त्वं भगवन्किमिच्छसि क्व यास्यसे किं करवाणि ते द्विज ।। 27 ।।

4-9-27a
4-9-27b

श्रुतं च शीलं च कुलं च शंस मे गोत्रं तथा नाम च देशमेव ते।
सत्यप्रतिज्ञा हि भवन्ति साधवो विशेषतः प्रव्रजिता द्विजातयः ।। 28 ।।

4-9-28a
4-9-28b

यथाऽनुरूपं प्रचरामि ते त्वहं न चावमन्ता न तवाभिभाषितम् ।
अपूजिता ह्यग्निसमा द्विजातयः कुलं दहेयुः सविषा इवोरगाः ।। 29 ।।

4-9-29a
4-9-29b

सर्वां च भूमिं तव दातुमुत्सहे सदण्डकोशां विसृजामि ते पुरम् ।
कस्यासि राज्ञो विषयादिहागतः किं कर्म चात्राचरसि द्विजोत्तम ।। 30 ।।

4-9-30a
4-9-30b

वैशंपायन उवाच।

4-9-31x

एवं ब्रुवाणं तमुवाच पार्थिवं युधिष्ठिरो धर्ममवेक्ष्य चासकृत् ।
सत्यं वचः को न्विह वक्तुमुत्सहेद्यथाप्रतिज्ञं तु शृणुष्व पार्थिव ।। 31 ।।

4-9-31a
4-9-31b

श्रुतं च शीलं च कुलं च कर्म च शृणुष्व मे जन्म च देशमेव च ।
गुरूपदेशान्नियमाच्च मे व्रतं कुलक्रमार्थं पितृभिर्नियोजितम् ।। 32 ।।

4-9-32a
4-9-32b

द्विजो व्रतेनास्मि न च स्वतः प्रभो संमुण्डितः प्रव्रजितस्त्रिदण्डभृत् ।
इदं शरीरं मम पश्य मानुषं समावृतं पञ्चभिरेव धातुभिः ।। 33 ।।

4-9-33a
4-9-33b

ममेह पञ्चेन्द्रियगात्रदर्शिनो वदन्ति पञ्चैव पितॄन्यथा श्रुतिः ।
मनुष्यजातित्वमचिन्तयन्नहं न चास्मि तुल्यः पितृभिः स्वभावतः ।। 34 ।।

4-9-34a
4-9-34b

कङ्को हि नाम्ना विषयं तवागतो व्रती द्विजातिः स्वकृतेन कर्मणा।
द्यूतप्रसङ्गादधनोऽस्मि राजन्सत्यप्रतिज्ञा व्रतिनश्चरामः ।। 35 ।।

4-9-35a
4-9-35b

युधिष्ठिरस्यापि सखाऽभवं पुरा गृहप्रवेशी च शरीरमेव च।
गृहे च तस्योपितवानहं सुखं राजाऽस्मि तस्य स्वपुरेऽभवं पुरा ।। 36 ।।

4-9-36a
4-9-36b

ममाज्ञया तत्र विचेरुरङ्गना मम प्रियार्थं दमयन्ति वाजिनः ।
मया कृतं तस्य पुरे तु यत्पुरा न तत्कदाचित्कृतवाञ्जनोऽन्यथा ।। 37 ।।

4-9-37a
4-9-37b

सोहं पुरा तस्य वयस्समः सखा चरामि सर्वां वसुधां सुदुःखितः ।
न तु प्रशान्तिं क्वचिदाप्तवानहं व्रतोपदेशान्नियमेन भारिकः ।। 38 ।।

4-9-38a
4-9-38b

वैयाघ्रपद्योस्मि नरेन्द्र गोत्रतस्तदेव सौख्यं मृगयामहे वयम्।
कृतज्ञभावेन मयाऽनुकीर्तितं युधिष्ठिरस्यात्मसमस्य चेष्टितम् ।। 39 ।।

4-9-39a
4-9-39b

इमं हि मोक्षाश्रममास्थितस्य मे युधिष्ठिरस्तुल्यगुणो भवानपि ।
न मेऽस्ति माता न पिता न बान्धवा न मेऽस्ति रूपं न रतिर्न सन्ततिः ।। 40 ।।

4-9-40a
4-9-40b

सुखं च दुःखं च हि तुल्यमद्य मे प्रियाप्रिये तुल्यगते गतागते।
मुक्तोस्मि कामाच्च धनाच्च सांप्रतं त्वदाश्रये वस्तुमिहाभ्युपागतः ।। 41 ।।

4-9-41a
4-9-41b

संवत्सरेणेह समाप्यते त्विदं मम व्रतं दुष्करकर्मकारिणः।
ततो भवन्तं परितोष्य कर्मभिः पुनर्व्रजिष्ये च कुतूहलं यतः ।। 42 ।।

4-9-42a
4-9-42b

अक्षान्निवप्तुं कुशलोस्म्वहं सदा पराजितः शकुनिरुतानि चिन्तयन् ।
मृगद्विजानां च रुतानि चिन्तयन्निराश्रयः प्रव्रजितोस्मि भिक्षुकः ।। 43 ।।

4-9-43a
4-9-43b

वैशंपायन उवाच ।

4-9-44x

तेनैवमुक्ते वचने नराधिपः कृताञ्जलिः प्रव्रजितं विलोक्य च ।
अथाब्रवीद्धृष्टमनाः शुभाक्षरं मनोनुगं सर्वसभागतं वचः ।। 44 ।।

4-9-44a
4-9-44b

ददामि ते हन्त वरं यदीप्सितं प्रशाधि मत्स्यान्यदि मन्यते भवान्।
प्रिया हि धूर्ता मम चाक्षकोविदास्त्वं चापि देवो मम राज्यमर्हसि ।। 45 ।।

4-9-45a
4-9-45b

समानयानासनवस्त्रभोजनं प्रभ्रूतमाल्याभरणानुलेपनम्।
स सार्वभौमोपम सर्वदाऽर्हसि प्रियं हि मन्ये तव नित्यदर्शनम् ।। 46 ।।

4-9-46a
4-9-46b

ये त्वाऽभिधावेयुरनर्थपीडिता द्विजातिमुख्या यदि वेतरे जनाः।
सर्वाणि कार्याण्यहमर्थितस्त्वया तेषां करिष्यामि न मेऽत्र संशयः ।। 47 ।।

4-9-47a
4-9-47b

ममान्तिके यश्च तवाप्रियं चरेत्प्रवासये तं परिचिन्त्य मानवम् ।
यच्चापि किंचिद्वसु विद्यते मम प्रभुर्भवांस्तस्य वशी वसेह च ।। 48 ।।

4-9-48a
4-9-48b

युधिष्ठिर उवाच।

4-9-49x

अतोऽभिलाषः परमो न विद्यते न मे जितं किंचन धारये धनम्।
न भोजनं किंचन संस्पृशेयं हविष्यभोजी निशि च क्षितीशयः ।। 49 ।।

4-9-49a
4-9-49b

व्रतोपदेशात्समयो हि नैष्ठिको न क्रोधितव्यं नरदेव कस्यचित्।
एवंप्रतिज्ञस्य ममेह भूपते निवासबुद्धिर्भविता तु नान्यथा ।। 50 ।।

4-9-50a
4-9-50b

एवं वरं मात्स्य वृणे प्रदापितं कृति भविष्यामि वरेण तेऽनघ ।। 51 ।।

4-9-51a

वैशंपायन उवाच।

4-9-52x

एवं तु राज्ञः प्रथमः समागमो बभूव मात्स्यस्य युधिष्ठिरस्य च।
विराटराजस्य हि तेन सङ्गमो बभूव विष्णोरिव वज्रपाणिना ।। 52 ।।

4-9-52a
4-9-52b

तमासनस्थं प्रियरूपदर्शनं निरीक्षमाणो न ततर्प भूमिपः।
सभां च तां प्रज्वलयन्युधिष्ठिरः श्रिया यथा शक्रइव त्रिविष्टपम् ।। 53 ।।

4-9-53a
4-9-53b

एवं स लब्ध्वा नृपतिः समागमं विराटराजेन नरर्षभस्तदा।
उवास वीरः परमार्चितः सुखी न चास्य कश्चिच्चरितं बुबोध तत् ।। 54 ।।

4-9-54a
4-9-54b

।। इति श्रीमन्महाभारते विराटपर्वणि
पाण्डवप्रवेशपर्वणि नवमोऽध्यायः ।। 9 ।।

सम्पाद्यताम्

4-9-6 वयश्च रूपं च बलं तथाऽऽप्नुयुरिति थo धo पाठः ।। 6 ।। 4-9-24 अन्येन रूपेण यतिवेषेण आगतं दृष्ट्वेति शेषः ।। 24 ।।

विराटपर्व-008 पुटाग्रे अल्लिखितम्। विराटपर्व-010