महाभारतम्-04-विराटपर्व-054

← विराटपर्व-053 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-054
वेदव्यासः
विराटपर्व-055 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

सेनामध्ये दुर्योधनमनवलोकयताऽर्जुनेनोत्तरंप्रति तत्पदवीमनु रथयापनचोदना ।। 1 ।। तथा बाणाभ्यां द्रोणाद्यभिवादनपूर्वकं ताभ्यामेव कर्णमूले कुशलप्रश्नः ।। 2 ।। द्रोणेन तत्कौशलश्लाघनम् ।। 3 ।।



वैशंपायन उवाच।

4-54-1x

तथा व्यूढेष्वनीकेषु कौरवेयैर्महारथैः ।
उपायादर्जुनंस्तूर्णं रथघोषेण नादयन् ।।

4-54-1a
4-54-1b

ददृशुस्ते ध्वजाग्रं वै शुश्रुवुश्च रथस्वनम् ।
दोधूयमानस्य भृशं गाण्डीवस्य च निस्वनम् ।।

4-54-2a
4-54-2b

त्रिकोशमात्रं गत्वा तु पाण्डवः श्वेतवाहनः ।
संनामुखमभिप्रेक्ष्य पार्थो वैराटिमब्रवीत् ।।

4-54-3a
4-54-3b

राजानं नात्र पश्यामि रथानीके व्यवस्थितम्।
दक्षिणं पक्षमादाय कुरुवो यान्त्युदङ्भुंखाः ।।

4-54-4a
4-54-4b

उत्सृज्यैतद्रथानीकं महेष्वासाभिरक्षितम्।
गवाग्रमभितो याहि यावत्पश्यामि मे रिपुम् ।।

4-54-5a
4-54-5b

गवाग्रमभितो गत्वा गाश्चैवाशु निवर्तय ।
यावदेते निवर्तन्ते कुरवो जवमास्थिताः ।
तावदेव पशून्सर्वान्निवर्तिष्ये तवाभिभो ।।

4-54-6a
4-54-6b
4-54-6c

वैशंपायन उवाच।

4-54-7x

इत्युक्त्वा समरे पार्थो वैराटिमपराजितः ।
सव्यं पक्षमनुप्राप्य जवेनाश्वानचोदयत् ।।

4-54-7a
4-54-7b

ततोऽभ्यवादयत्पार्थो भीष्मं शान्तनवं कृपम्।
द्वाभ्यांद्वाभ्यां तथाऽऽचार्यं द्रोणं प्रथमतः क्रमात् ।।

4-54-8a
4-54-8b

द्रोणं कृपं च भीष्मं च पृषत्कैरभ्यवादयत्।
ततस्तत्सर्वमालोक्य द्रोणो वचनमब्रवीत्।।

4-54-9a
4-54-9b

महारथमनुप्राप्तं दृष्ट्वा गाण्डीवधन्विनम् ।
न कश्चिद्योद्भिमिच्छेत न च गुप्तं स्वजीवितम् ।
अयं वीरश्च शूरश्च दुर्धर्षश्चैव संयुगे ।।

4-54-10a
4-54-10b
4-54-10c

एतद्ध्वजाग्रं पार्थस्य दूरतः प्रतिदृश्यते।
मेघःक सविद्युत्स्तनितो रोरवीति च वानरः ।।

4-54-11a
4-54-11b

आस्थाय च रथं याति गाण्डीवं विक्षिपन्धनुः ।।

4-54-12a

अश्वानां स्तनतां शब्दो वहतां पाकशासनिम्।
रथस्याम्बुधरस्येव श्रूयते भृशदारुणः ।।

4-54-13a
4-54-13b

दारयन्निव तेजस्वी वसुधां वासवात्मजः ।
एष दृष्ट्वा रथानीकमस्माकमरिमर्दनः।

4-54-14a
4-54-14b

श्रीमान्वदान्यो धृतिमान्तत्करोति च पाण्डवः ।।
इमौ बाणावनुप्राप्तौ पादयोः प्रत्युपस्थितौ ।

4-54-15a
4-54-15b

रथस्याग्रे निखातौ मे चित्रपुङ्खावजिह्मगौ ।।
इमौ चाप्यपरौ बाणावभितः कर्णमूलयोः ।

4-54-16a
4-54-16b

संस्पृशन्तावतिक्रान्तौ पृष्ट्वेवानामयं भृशम् ।।
चिरदृष्टोऽयमस्माभिर्धर्मज्ञो बान्धवप्रियः ।

4-54-17a
4-54-17b

अतीव ज्वलते लक्ष्म्या पाण्डुपुत्रः प्रतापवान् ।।
निरुष्य च वने वामं कृत्वा कर्म सुदुष्करम् ।

4-54-18a
4-54-18b

अभिवादयते पार्थः पूजयन्मामरिंदमः ।।
अमर्षेण हि संपूर्णो दुःखेन प्रतिबोधितः।

4-54-19a
4-54-19b

अद्येमां भारतीं सेनामेको नाशयते ध्रुवम् ।।
द्व्यधिकं दशमुष्य वत्सराणां स्वजनेनाविदितस्त्रयोदशं च ।

4-54-20a
4-54-20b

ज्वलते रथमास्थितः किरीटी तम इव रात्रिजमभ्युदस्य सूर्यः ।।
रथी शरी चारुमाली निषङ्गी शङ्खी पताकी कवची किरीटी।

4-54-21a
4-54-21b

खङ्गी च धन्वी च विराजतेऽयं शिखीव यज्ञेषु घृतेन सिक्तः ।।

4-54-22a

।। इति श्रीमन्महाभारते विराटपर्वणि
गोग्रहणपर्वणि चतुःपञ्चाशोऽध्यायः ।। 54 ।।

विराटपर्व-053 पुटाग्रे अल्लिखितम्। विराटपर्व-055