महाभारतम्-05-उद्योगपर्व-047

← उद्योगपर्व-046 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-047
वेदव्यासः
उद्योगपर्व-048 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

पाण्डववचनशुश्रूषया धृतराष्ट्रादीनां सभाप्रवेशः ।। 1 ।। सञ्जयेन धृतराष्ट्राय पाण्डवान्प्रति तत्सन्देशकथनम् ।। 2 ।। श्रीकृष्णवाक्यकथनं चोदितेन सञ्जयेन स्वस्य कृष्णार्जुनान्तःपुरप्रवेशकथनपूर्वकं तत्कथनम् ।। 3 ।।





वैशंपायन उवाच।

5-47-1x

एवं सनत्सुजातेन विदुरेण च धीमता।
सार्धं कथयतो राज्ञः सा व्यतीयय सर्वरी ।।

5-47-1a
5-47-1b

तस्यां रजन्यां व्युष्टायां राजानः सर्व एव ते।
सभामाविविशुर्हृष्टाःक सूतस्योपदिदृक्षया ।।

5-47-2a
5-47-2b

शुश्रूषमाणाः पार्थानां वाचो धर्मार्थसंहिताः ।
धृतराष्ट्रमुखाः सर्वे ययू राजन्सभां शुभाम् ।।

5-47-3a
5-47-3b

सुधावदातां विस्तीर्णां कनकाजिरभूषिताम् ।
चन्द्रप्रभां सुरुचिरां सिक्तां चिन्दनवारिणा ।।

5-47-4a
5-47-4b

रुचिरैरासनैः स्तीर्णां काञ्चनैर्दारवैरपि।
अश्मसारमयैर्दान्तैःक स्वास्तीर्णैः सोत्तरच्छदैः ।।

5-47-5a
5-47-5b

भीष्मो द्रोणः कृपः शल्यः कृतवर्मा जयद्रथः ।
अश्वत्थामा विकर्णश्च सोमदत्तश्च बाह्लिकः ।

5-47-6a
5-47-6b

विदुरश्च महाप्राज्ञो युयुत्सुश्च महारथः।
सर्वे च सहिताः शूराः पार्थिवा भरतर्षभ ।
धृतराष्ट्रं पुरस्कृत्य विविशुस्तां सभां शुभाम् ।।

5-47-7a
5-47-7b
5-47-7c

दुःशासनश्चित्रसेनः शकुनिश्चापि सौबलः।
दुर्मुखो दुःसहः कर्ण उलूकोऽथ विविंशतिः ।।

5-47-8a
5-47-8b

कुरुराजं पुरस्कृत्य दुर्योधनममर्षणम्।
विविशुस्तां सभां राजन्सुराः शक्रसदो यथा ।।

5-47-9a
5-47-9b

आविशद्भिस्तदा राजञ्शूरैः परिघबाहुभिः ।
शुशुभे सा सभा रजन्सिंहैरिव गिरेर्गुहा ।।

5-47-10a
5-47-10b

ते प्रविश्य महेष्वासाः सभां सर्वे महौजसः ।
आसनानि विचित्राणि भेजिरे सूर्यवर्चसः ।।

5-47-11a
5-47-11b

आसनस्थेषु सर्वेषु तेषु राजसु भारत।
द्वाःस्थो निवेदयामास सूतपुत्रमुपस्थितम् ।।

5-47-12a
5-47-12b

अयं सरथ आयाति योऽयासीत्पाण्डवान्प्रति।
दूतो नस्तूर्णमायाति सैन्धवैः साधुवाहिभिः ।।

5-47-13a
5-47-13b

..पेयाय स तु क्षिप्रं रथात्प्रस्कन्द्य कुण्डली।
प्रविवेश सभां पूर्णां महीपालैर्महात्मभिः ।।

5-47-14a
5-47-14b

सञ्जय उवाच।

5-47-15x

प्राप्तोऽस्मि पाण्डवान्गत्वा तं विजानीत कौरवाः।
यथावयः कुरून्सर्वान्प्रतिनन्दन्ति पाण्डवाः ।।

5-47-15a
5-47-15b

अभिवादयन्ति वृद्धांश्च वयस्यांश्च वयस्यवत्।
पुनश्चाभ्यवदन्पार्थाः प्रतिपूज्य यथावयः ।।

5-47-16a
5-47-16b

यथाहं धृतराष्ट्रेण शिष्टः पूर्वमितो गतः।
अब्रवं पाण्डवान्गत्वा नात्र किञ्चन हापितम् ।।

5-47-17a
5-47-17b

` धृतराष्ट्र उवाच।

5-47-18x

पृच्छामि त्वां सञ्जय राजमध्ये
यदब्रवीद्वाक्यमदीनसत्वः।
जनार्दनस्तात युधां प्रणेता
दुरात्मनां जीवितच्छिन्महात्मा ।।

5-47-18a
5-47-18b
5-47-18c
5-47-18d

सञ्जय उवाच।

5-47-19x

आगुल्फेभ्योऽभिसंवीतः प्रयतोऽहं कृताञ्जलिः।
शुद्धान्तं प्राविशं राजन्नाख्यातो नरसिंहयोः ।।

5-47-19a
5-47-19b

न चाभिमन्युर्न यमौ तं देशमभिजग्मतुः ।
यत्र कृष्णौ च कृष्णा च सत्यभामा च भामिनी ।।

5-47-20a
5-47-20b

उभौ मध्वासवक्षीबौ वरचन्दनरूषितौ ।
स्त्रग्विणौ वरवस्त्राङ्गौ वराभरणभूषितौ ।।

5-47-21a
5-47-21b

नैकरत्नविचित्रं च काञ्चनं च वरासनम्।
नानास्तरणसंस्तीर्णं यत्रासाते नरर्षभौ ।।

5-47-22a
5-47-22b

सत्याङ्कमुपधानं तु कृत्वा शेते जनार्दनः।
अर्जुनाङ्कगतौ पादौ केशवस्योपलक्षये।
अर्जुनस्य च कृष्णायाः शुभायाश्चाङ्कगावुभौ ।।

5-47-23a
5-47-23b
5-47-23c

काञ्चनं पादपीठं तु पार्थो वै प्रादिशन्मुदा।
दासीभ्यामाहृतं मह्यं स्पृष्ट्वा भूमावुपाविशम् ।।

5-47-24a
5-47-24b

ऊर्ध्वरेखाङ्कितौ पादौ पार्थस्य शुभलक्षणौ।
पादपीठादपहृतौ धारयेतां वरस्त्रियौ ।।

5-47-25a
5-47-25b

न नूनं कल्मषं किञ्चिन्मम कर्मसु विद्यते।
स्त्रीरत्नाभ्यां समेतौ यन्मिथो मामभ्यभाषताम् ।।

5-47-26a
5-47-26b

विस्मयो मे महानासीदास्त्रं मे बहुसङ्गतम्।
हृष्टानि चैव रोमाणि दृष्ट्वा तौ सहितावुभौ ।।

5-47-27a
5-47-27b

श्यामौ बृहन्तौ तरुणौ नागाविव समुच्छ्रितौ ।
एकशय्यागतौ दृष्ट्वा भयं मे महदाविशत् ।।

5-47-28a
5-47-28b

ततोऽभ्यचिन्तयं तत्र दृष्ट्वा तौ पुरुषर्षभौ ।
सङ्कल्पो धर्मराजस्य नानवाप्योऽस्ति कश्चन।
निदेशगाविमौ यस्य नरनारायणावुभौ ।।

5-47-29a
5-47-29b
5-47-29c

सत्कृतश्चान्नपानाभ्यामाच्छन्नो लब्धसत्क्रियः ।
अञ्जलिं मूर्ध्नि सन्धाय सन्देशं चाभ्यचोदयम् ।।

5-47-30a
5-47-30b

धनुर्धरोचितेनाथ पाणिनैकं सलक्षणम्।
पादमानाययत्पार्थः केशवस्य यशस्विनः ।।

5-47-31a
5-47-31b

इन्द्रकेतुरिवोत्थाय दिव्याभरणभूषितः।
इन्द्रवीर्योपमः कृष्णः संविष्टो माऽभ्यभाषत ।।

5-47-32a
5-47-32b

स वाचं वदतां श्रेष्ठ आददे वचनक्षमाम्।
दीपनीं धार्तराष्ट्राणां मृदुपूर्वां सुदारुणाम् ।।

5-47-33a
5-47-33b

बहिश्चरस्य प्राणस्य प्रियस्य प्रियकारिणः।
मतिमान्मतिमास्थाय केशवः सन्दधे वचः ।।

5-47-34a
5-47-34b

वचनं वचनज्ञस्य शिक्षाक्षरसमन्वितम्।
मनःप्रह्लादनं श्रेष्ठं पश्चाद्धृदयतापनम् ।।

5-47-35a
5-47-35b

श्रीभगवानुवाच।

5-47-36x

सञ्जयैतद्वचो ब्रूयाः प्राप्य क्षत्रियसंसदम्।
श्रृण्वतः कुरुवृद्धस्य आचार्यस्य च धीमतः ।।

5-47-36a
5-47-36b

अर्थांस्त्यजत पार्थेषु सुखमाप्नुत कामजम्।
प्रियं प्रियेभ्यश्चरत राजा हि त्वरते जये।।

5-47-37a
5-47-37b

यजध्वं विविधैर्यज्ञैर्दक्षिणाश्च प्रयच्छत।
पुत्रेर्दारैश्च मोदध्वमागतं वो महद्भयम् ।।

5-47-38a
5-47-38b

ऋणं प्रवृद्धमिव मे हृदयान्नापसर्पति।
गोविन्देति यदाक्रन्दत्कृष्णा मां दूरवासिनम् ।।

5-47-39a
5-47-39b

तेजोमयं दुराधर्पं बिभ्रता गाण्डिवं धनुः।
मद्द्वितीयेन पार्थेन वैरं वः प्रत्युपस्थितम् ।।

5-47-40a
5-47-40b

कृष्णस्यैतद्वचः श्रुत्वा महन्मे भयमाविशत्।
तव पुत्रस्य लोभं च वर्धमानं प्रपश्यतः ।।

5-47-41a
5-47-41b

सोमेन्द्रसदृशौ वीरौ तौ मन्दो नावबुध्यते।
भीष्मद्रोणाश्रयाच्चैव कर्णस्य च विकत्थनात् '।।

5-47-42a
5-47-42b

।। इति श्रीमन्महाभारते उद्योगपर्वणि
यानसन्धिपर्वणि सप्तचत्वारिंशोऽध्यायः ।।

उद्योगपर्व-046 पुटाग्रे अल्लिखितम्। उद्योगपर्व-048