महाभारतम्-05-उद्योगपर्व-052

← उद्योगपर्व-051 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-052
वेदव्यासः
उद्योगपर्व-053 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

धृतराष्ट्रेण अर्जुनप्रतापानुवर्णनपूर्वकं परिशोचनम् ।। 1 ।।




धृतराष्ट्र उवाच।

5-52-1x

यस्य वै नानृता वाचः कदाचिदनुशुश्रुम ।
त्रैलोक्यमपि तस्य स्याद्योद्धा यस्य धनञ्जयः ।।

5-52-1a
5-52-1b

तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः।
अनिशं चिन्तयानोऽपि यः प्रतीयाद्रथेन तम् ।।

5-52-2a
5-52-2b

अस्यतः कर्णिनालीकान्मार्गणान्हृदयच्छिदः।
प्रत्येता न समः कश्चिद्युधि गाण्डीवधन्वनः ।।

5-52-3a
5-52-3b

द्रोणाकर्णौ प्रतीयातां यदि वीरौ नरर्षभौ ।
कृतास्त्रौ बलिनां श्रेष्ठौ समरेष्वपराजितौ ।।

5-52-4a
5-52-4b

महान्स्यात्संशयो लोके न त्वस्ति विजयो मम।
घृणी कर्णः प्रमादी च आचार्यः स्थविरो गुरुः ।।

5-52-5a
5-52-5b

समर्थो बलवान्पार्थो दृढधन्वा जितक्लमः ।
भवेत्सुतुमुलं युद्धं सर्वशोऽप्यपराजयः ।।

5-52-6a
5-52-6b

सर्वे ह्यस्त्रविदः शूराः सर्वे प्राप्ता महद्यशः ।
अपि सर्वामरैश्वर्यं त्यजेयुर्न पुनर्जयम् ।।

5-52-7a
5-52-7b

वधे नूनं भवेच्छान्तिस्तयोर्वा फाल्गुनस्य च।
न तु हन्तार्जुनस्यास्ति जेता चास्य न विद्यते ।।

5-52-8a
5-52-8b

मन्युस्तस्य कथं शाम्येन्मन्दान्प्रति य उत्थितः ।
अन्येऽप्यस्त्राणि जानन्ति जीयन्ते च जयन्ति च।
एकान्तविजयस्त्वेव श्रूयते फाल्गुनस्य ह ।।

5-52-9a
5-52-9b
5-52-9c

त्रयस्त्रिंशत्समाहूय खाण्डवेऽग्निमतर्पयत्।
जिगाय च सुरान्सर्वान्नास्य विद्मः पराजयम् ।।

5-52-10a
5-52-10b

यस्य यन्ता हृषीकेशः शीलवृत्तसमो युधि।
ध्रुवस्तस्य जयस्तात यथेन्द्रस्य जयस्तथा ।।

5-52-11a
5-52-11b

कृष्णावेकरथे यत्तावधिज्यं गाण्डिवं धनुः।
युगपत्रीणि तेजांसि समेतान्यनुशुश्रुम ।।

5-52-12a
5-52-12b

नैवास्ति नो धनुस्तदृङ्व योद्धा न च सारथिः ।
तच्च मन्दा न जानन्ति दुर्योधनवशानुगाः ।

5-52-13a
5-52-13b

शेषयेदशनिर्दीप्तो विपतन्मूर्ध्नि सञ्जय।
न तु शेषं शरास्तात कुर्युरस्ताः किरीटिना ।।

5-52-14a
5-52-14b

अपि चास्यन्निवाभाति निघ्नन्निव धनञ्जयः ।
उद्धरन्निव कायेभ्यः शिरांसि शरवृष्टिभिः ।।

5-52-15a
5-52-15b

अपि बाणमयं तेजः प्रदीप्तमिव सर्वतः ।
गाण्डीवोत्थं दहेताजौ पुत्राणां मम वाहिनी ।।

5-52-16a
5-52-16b

अपि सा रथघोषेण भयार्ता सव्यसाचिनः ।
वित्रस्ता बहुधा सेना भारती प्रतिभाति मे ।।

5-52-17a
5-52-17b

यथा कक्षं महानग्निः प्रदहेत्सर्वतश्चरन्।
महार्चिरनिलोद्धूतस्तद्वद्धक्ष्यति मामकान् ।।

5-52-18a
5-52-18b

यदोद्वमन्निशितान्बाणसङ्घां-
स्तानाततायी समरे किरीटी।
सृष्टोऽन्तकः सर्वहरो विधात्रा
यथा भवेत्तद्वदपारणीयः ।।

5-52-19a
5-52-19b
5-52-19c
5-52-19d

यदा हयभीक्ष्णं सुबुहून्प्रकारान्
श्रोतास्मि तानावसथे कुरूणाम्।
तेषां समन्ताच्च तथा रणाग्रे
क्षयः किलायं भरतानुपैति ।।

5-52-20a
5-52-20b
5-52-20c
5-52-20d

।। इति श्रीमन्महाभारते उद्योगपर्वणि
यानसन्धिपर्वणि द्विपञ्चाशोऽध्यायः ।।

सम्पाद्यताम्

5-52-5 प्रमादी अन्ते विद्यां न स्मरिष्यतीति भावः ।। 5-52-14 अस्ताः क्षिप्ताः ।।

उद्योगपर्व-051 पुटाग्रे अल्लिखितम्। उद्योगपर्व-053