महाभारतम्-05-उद्योगपर्व-079

← उद्योगपर्व-078 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-079
वेदव्यासः
उद्योगपर्व-080 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

नकुलेन श्रीकृष्णंप्रति स्वस्य शमे अभिसन्धिप्रदर्शनपूर्वकं सन्धिकरणस्य तेन सुशकत्वाभिधानम् ।। 1 ।।

नकुल उवाच।

5-79-1x

उक्तं बहुविधं वाक्यं धर्मराजेन माधव।
धर्मज्ञेन वदान्येन श्रुतं चैव हि तत्त्वया ।।

5-79-1a
5-79-1b

मतमाज्ञाय राज्ञश्च भीमसेनेन माधव ।
संशमो बाहुवीर्य च ख्यापितं माधवात्मनः ।।

5-79-2a
5-79-2b

तथैव फाल्गुनेनापि यदुक्तं तत्त्वया श्रुतम् ।
आत्मनश्च मतं वीर कथितं भवताऽसकृत् ।।

5-79-3a
5-79-3b

सर्वमेतदतिक्रम्य श्रुत्वा परमतं भवान्।
यत्प्राप्तकालं मन्येथास्तत्कुर्याः पुरुषोत्तम ।।

5-79-4a
5-79-4b

तस्मिंरतस्मिन्निमित्ते हि मतं भवति केशव ।
प्राप्तकालं मनुष्येण क्षमं कार्यमरिन्दम ।।

5-79-5a
5-79-5b

अन्यथा चिन्तितो ह्यर्थः पुनर्भवति सोऽन्यथा ।
अनित्यमतयो लोके नराः पुरुषसत्तम ।।

5-79-6a
5-79-6b

अन्यथाबुद्धयो ह्यासन्नस्मासु वनवासिषु।
अदृश्येष्वन्यथा कृष्ण दृश्येषु पुनरन्यथा ।।

5-79-7a
5-79-7b

अस्माकमपि वार्ष्णेय वने विचरतां तदा।
न तथा प्रणयो राज्ये यथा संप्रति वर्तते ।।

5-79-8a
5-79-8b

निवृत्तवनवासान्नः श्रुत्वा वीर समागताः ।
अक्षौहिण्यो हि सप्ते मास्त्वत्प्रसादाज्जनार्दन ।।

5-79-9a
5-79-9b

इमान्हि पुरुषव्याघ्रानचिन्त्यबलपौरुषात्।
आत्तशस्त्रान्रणे दृष्ट्वा न व्यथेदिह कः पुमान् ।।

5-79-10a
5-79-10b

स भवान्कुरुमध्ये तं सान्त्वपूर्वं भयोत्तरम्।
ब्रूयाद्वाक्यं यथा मन्दो न व्यथेत सुयोधनः ।।

5-79-11a
5-79-11b

युधिष्ठिरं भीमसेनं बीभत्सुं चापराचितम् ।
सहदेवं च मां चैव त्वां च रामं च केशव।।

5-79-12a
5-79-12b

सात्यकिं च महावीर्यं विराटं च महात्मजम्।
द्रुपदं च महामात्यं धृष्टद्युम्नं च माधव।।

5-79-13a
5-79-13b

काशिराजं च विक्रान्तं धृष्टकेतुं च चेदिपम् ।
मांसशोणितभृन्मर्त्यः प्रतियुध्येत को युधि ।।

5-79-14a
5-79-14b

स भवान्गमनादेव साधयिष्यत्यसंशयम्।
इष्टमर्थं महाबाहो धर्मराजस्य केवलम्।।

5-79-15a
5-79-15b

विदुरश्चैव भीष्मश्च द्रोणश्च सहबाह्लिकः ।
श्रेयः समर्था विज्ञातुमुच्यमानास्त्वयाऽनघ ।।

5-79-16a
5-79-16b

ते चैनमनुनेष्यन्ति धृतराष्ट्रं जनाधिपम् ।
तं च पापसमाचारं सहामात्यं सुयोधनम् ।।

5-79-17a
5-79-17b

श्रोता चार्थस्य विदुरस्त्वं च वक्ता जनार्दन ।
कमिवार्थं निवर्तन्तं स्थापयेतां न वर्त्मनि ।।

5-79-18a
5-79-18b

।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि एकोनाशीतितमोऽध्यायः ।।

सम्पाद्यताम्

5-79-18 अर्थं प्रयोजनम् । निवर्तन्तं भ्रश्यन्तम् ।।

उद्योगपर्व-078 पुटाग्रे अल्लिखितम्। उद्योगपर्व-080