महाभारतम्-05-उद्योगपर्व-097

← उद्योगपर्व-096 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-097
वेदव्यासः
उद्योगपर्व-098 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

कण्वेन सुयोधनस्य बलावलेपविलोपनाय मातलिवरान्वेषणकथाकथनारम्भः ।। 1 ।।
मातलिना गुणकेशीनामकस्वकन्याया अनुगुणवरान्वेषणाय नागलोकंप्रति प्रस्थानम् ।। 2 ।।

वैशंपायन उवाच।

5-97-1x

जामदग्न्यवचः श्रुत्वा कण्वेऽपि भगवानृषिः ।
दुर्योधनमिदं वाक्यमब्रवीत्कुरुसंसदि ।।

5-97-1a
5-97-1b

कण्व उवाच।

5-97-2x

अक्षयश्चाव्ययश्चैव ब्रह्मा लोकपितामहः।
तथैव भगवन्तौ तौ नरनारायणावृषी ।।

5-97-2a
5-97-2b

आदित्यानां हि सर्वेषां विष्णुरेकः सनातनः।
अजथ्यश्चाव्ययश्चैव शाश्वतः प्रभुरीश्वरः ।।

5-97-3a
5-97-3b

निमित्तमरणाश्चान्ये चन्द्रसूर्यौ मही जलम् ।
वायुरग्निस्तथाऽऽकाशं ग्रहास्तारागणास्तथा ।।

5-97-4a
5-97-4b

ते च क्षयान्ते जगतो हित्वा लोकत्रयं सदा।
क्षयं गच्छन्ति वै सर्वे सृज्यन्ते च पुनः पुनः ।।

5-97-5a
5-97-5b

मुहूर्तमरणास्त्वन्ये मानुषा मूगपक्षिणः।
तैर्यग्योन्याश्च ये चान्ये जीवलोकचरास्तथा ।।

5-97-6a
5-97-6b

भूयिष्ठेन तु राजानः श्रियं भुक्त्वाऽऽयुषः क्षये।
तरुणाः प्रतिपद्यन्ते भोक्तुं सुकृतदुष्कृते ।।

5-97-7a
5-97-7b

स भवान्धर्मपुत्रेण शमं कर्तुमिहार्हसि ।
पाण्डवाः कुरवश्चैव पालयन्तु वसुन्धरान् ।।

5-97-8a
5-97-8b

बलवानहमित्येव न मन्तव्यं सुयोधन ।
बलवन्तो बलिभ्यो हि दृश्यन्ते पूरुषर्षभ ।।

5-97-9a
5-97-9b

न बलं बलिनां मध्ये बलं भवति कौरव ।
बलवन्तो हि ते सर्वे पाण्डवा देवविक्रमाः ।

5-97-10a
5-97-10b

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
मातलेर्दातुकामस्य कन्यां मृगयतो वरम् ।।

5-97-11a
5-97-11b

मतस्त्रिलोकराजस्य मातलिर्नाम सारथिः।
तस्यैकैव कुले मन्या रूपतो लोकविश्रुता ।।

5-97-12a
5-97-12b

गुणकेशीति विख्याता नाम्ना सा देवरूपिणी ।
श्रिया च वपुषा चैव स्त्रियोऽन्याःसाऽतिरिच्यते ।।

5-97-13a
5-97-13b

तस्याः प्रदानसमयं मातलिः सह भार्यया ।
ज्ञात्वा विममृशे राजंस्तत्परः परिचिन्तयन् ।।

5-97-14a
5-97-14b

धिक्खल्वलघुशीलानामुच्छ्रितानां यशस्विनाम्।
नराणां मृदुसत्वानां कुले कन्याप्ररोहणम् ।।

5-97-15a
5-97-15b

मातुः कुलं पितृकुलं यत्र चैव प्रदीयते।
कुलत्रयं संशयितं कुरुते कन्यका सताम् ।।

5-97-16a
5-97-16b

देवमानुषलोकौ द्वौ मानुषेणैव चक्षुषा।
अपगाह्यैव विचितौ न च मे रोचते वरः ।।

5-97-17a
5-97-17b

कण्व उवाच।

5-97-18x

न देवान्नैव दितिजान्न गन्धर्वान्न मानुषान्।
अरोचयद्वरकृते तथैव बहुलानृषीन् ।।

5-97-18a
5-97-18b

भार्यया तु स संमन्त्र्य सह रात्रौ सुधर्मया ।
मातलिर्नागलोकाय चकार गमने मतिम् ।।

5-97-19a
5-97-19b

न मे देवमनुष्येषु गुणकेश्याः समो वरः।
रूपतो दृश्यते कश्चिन्नागेषु भविता ध्रुवम् ।।

5-97-20a
5-97-20b

इत्यामन्त्र्य सुधर्मां स कृत्वा चाभिप्रदक्षिणम्।
कन्यां शिरस्युपाघ्राय प्रविवेश महीतलम् ।।

5-97-21a
5-97-21b

।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि सप्तनवतितमोऽध्यायः ।।

सम्पाद्यताम्

5-97-7 तरुणाः अपीति शेषः। युद्धेन मरणं प्राप्नुवन्तीत्यर्थः ।। 5-97-10 बलं सैन्यम्। बलिनां स्वाभाविकबलवतां बलं सामर्थ्यं न भवति।। 5-97-11 मातलेरितिहासमिति संबन्धः ।। 5-97-15 उच्छ्रितानां महत्तया ख्यातानाम् ।।

उद्योगपर्व-096 पुटाग्रे अल्लिखितम्। उद्योगपर्व-098