महाभारतम्-05-उद्योगपर्व-152

← उद्योगपर्व-151 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-152
वेदव्यासः
उद्योगपर्व-153 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

युधिष्ठिरेण कुरुक्षेत्रे समुचितदेशे सेनानां निवेशनम् ।। 1 ।।
धृष्टद्युम्नादिभिः सर्वेषां पृथक्पृथक्शिबिरनिर्मापणम् ।। 2 ।।

वैशंपायन उवाच।

5-152-1x

ततो देशे समे स्निग्धे प्रभूतयवसेन्धने।
निवेशयामास तदा सेनां राजा युधिष्ठिरः ।।

5-152-1a
5-152-1b

परिहृत्य श्मशानानि देवतायतनानि च।
आश्रमांश्च महर्षीणां तीर्थान्यायतनानि च ।।

5-152-2a
5-152-2b

मधुरानूषरे देशे शुचौ पुण्ये महामतिः ।
निवेशं कारयामास कुन्तीपुत्रो युधिष्ठिरः ।।

5-152-3a
5-152-3b

ततश्च पुनरुत्थाय सुखी विश्रान्तवाहनः ।
प्रययौ पृथिवीपालैर्वृतः शतसहस्रशः ।।

5-152-4a
5-152-4b

विद्राव्य शतशो गुल्मान्धार्तराष्ट्रस्य सैनिकान् ।
पर्यक्रामत्समन्ताच्च पार्थेन सह केशवः ।।

5-152-5a
5-152-5b

शिबिरं मापयामास धृष्टद्युम्नश्च पार्षतः।
सात्यकिश्च रथोदारो युयुधानश्च वीर्यवान् ।।

5-152-6a
5-152-6b

आसाद्य सरितं पुण्यां कुरुक्षेत्रे हिरण्वतीम् ।
सूपतीर्थां शुचिजलां शर्करापङ्कवर्जिताम् ।।

5-152-7a
5-152-7b

खानयामास परिखां केशवस्त्रत्र भारत ।
गुप्त्यर्थमपि चादिश्य बलं तत्र न्यवेशयत् ।।

5-152-8a
5-152-8b

विधिर्यः शिबिरस्यासीत्पाण्डवानां महात्मनाम् ।
तद्विधानि नरेन्द्राणां कारयामास केशवः ।।

5-152-9a
5-152-9b

प्रभूततरकाष्ठानि दुराधर्षतराणि च।
भक्ष्यभोज्यान्नपानानि शतशोऽथ सहस्रशः ।।

5-152-10a
5-152-10b

शिबिराणि महार्हाणि राज्ञां तत्र पृथक्पृथक् ।
विमानानीव राजेन्द्र निविष्टानि महीतले ।।

5-152-11a
5-152-11b

तत्रासञ्शिल्पिनः प्राज्ञाः शतशो दत्तवेतनाः।
सर्वापकरणैर्युक्ता वैद्याः शास्त्रविशारदाः ।।

5-152-12a
5-152-12b

ज्याधनुर्वर्मशस्त्राणां तथैव मधुसर्पिषोः ।
ससर्जरकसपांसूनां राशयः पर्वतोपमाः ।।

5-152-13a
5-152-13b

बहूदकं सुयवसं तुषाङ्गारसमन्वितम् ।
शिबिरे शिबिरे राजा सञ्चकार युधिष्ठिरः ।।

5-152-14a
5-152-14b

महायन्त्राणि नाराचास्तोमराणि परश्वधाः।
धनूंषि कवचादीनि ऋष्टयस्तूणसंयुताः ।।

5-152-15a
5-152-15b

गजाः कण्टकसन्नाहा लोहवर्मोत्तरच्छदाः।
दृश्यन्ते तत्र गिर्याभाः सहस्रशतयोधिनः ।।

5-152-16a
5-152-16b

निविष्टान्पाण्डवांस्तत्र ज्ञात्वा मित्राणि भारत ।
अभिसस्रुर्यथादेशं सबलाः सहवाहनाः ।।

5-152-17a
5-152-17b

चरितब्रह्मचर्यास्ते सोमपा भूरिदक्षिणाः।
जयाय पाण्डुपुत्राणां समाजग्मुर्महीक्षितः ।।

5-152-18a
5-152-18b

।। इति श्रीमन्महाभारते
उद्योगपर्वणि सैन्यनिर्याणपर्वणि
द्विपञ्चशदधिकशततमोऽध्यायः ।।

5-152-5 गुल्मान् सैनिकसङ्घान् ।। 5-152-7 सूपतीर्थां शोभनोपकण्ठाम् ।। 5-152-9 तद्विधानि शिबिराणि ।। 5-152-16 कण्टकसन्नाहाः येषां स्पर्शमात्रादपि गजान्तराणां कण्टकवेधो भवति तादृशाः सन्नाहाः कवचानि। कण्टकैः कवचैः सन्नहनं येषामिति प्राञ्चः ।। 5-152-19 अभिसस्रुरभ्याजग्मुः ।।

उद्योगपर्व-151 पुटाग्रे अल्लिखितम्। उद्योगपर्व-153