महाभारतम्-13-अनुशासनपर्व-145

← अनुशासनपर्व-144 महाभारतम्
त्रतयोदशपर्व
महाभारतम्-13-अनुशासनपर्व-145
वेदव्यासः
अनुशासनपर्व-146 →

जमदग्निना सौरातपतापनिवारणोपायकल्पनं चोदितेन सूर्येण तस्मै छत्रोपानत्प्रदानम्।। 1 ।। एवं भीष्मेण युधिष्ठिरंप्रति तत्प्रवृत्तिकथनपूर्वकं तद्वानप्रशंसनम्।। 2 ।।

युधिष्ठिर उवाच। 13-145-1x
एवं प्रयाचति तदा भास्करे मुनिसत्तमः।
जमदग्निर्महातेजाः किं कार्यं प्रत्यपद्यत।।
13-145-1a
13-145-1b
भीष्म उवाच। 13-145-2x
स तथा याचमानस्य मुनिरग्निसमप्रभः।
जमदग्निः शमं नैव जगाम कुरुनन्दन।।
13-145-2a
13-145-2b
ततः सूर्यो मधुरया वाचा तमिदमब्रवीत्।
कृताञ्जलिर्विप्ररूपी प्रणम्यैनं विशाम्पते।।
13-145-3a
13-145-3b
चलं निमित्तं विप्रर्षे सदा सूर्यस्य गच्छतः।
कतं चलं भेत्स्यसि त्वं सदा यान्तं दिवाकरम्।।
13-145-4a
13-145-4b
जमदग्निरुवाच। 13-145-5x
स्थिरं चापि चलं चापि जाने त्वां ज्ञानचक्षुषा।
अवस्यं विनयाधानं कार्यमद्य मया तव।।
13-145-5a
13-145-5b
मध्याह्ने वै निमेषार्धं तिष्टसि त्वं दिवाकर।
तत्र भेत्स्यामि सूर्य त्वां न मेऽत्रास्ति विचारणा।।
13-145-6a
13-145-6b
सूर्य उवाच। 13-145-7x
असंशयं मां विप्रर्षे भेत्स्यसे धन्विनांवर।
अपकारिणं मां विद्दि भगवञ्शरणागतम्।।
13-145-7a
13-145-7b
भीष्म उवाच। 13-145-8x
ततः प्रहस्य भगवाञ्जमदग्निरुवाच तम्।
न भीः सूर्य त्वया कार्या प्रणिपातगतो ह्यसि।।
13-145-8a
13-145-8b
ब्राह्मणेष्वार्जवं यच्च स्थैर्यं च धरणीतले।
सौम्यतां चैव सोमस्य गाम्भीर्यं वरुणस्य च।।
13-145-9a
13-145-9b
दीप्तिमग्नेः प्रभां मेरोः प्रतापं धनदस्य च।
एतान्यतिक्रमेद्यो वै स हन्याच्छरणागतम्।।
13-145-10a
13-145-10b
भवेत्स गुरुतल्पी च ब्रह्मिहा च स वै भवेत्।
सुरापानं स कुर्याच्च यो हन्याच्छरणागतम्।।
13-145-11a
13-145-11b
एतस्य त्वपनीतस्य समाधिं तात चिन्तय।
यथा सुखगमः पन्था भवेत्त्वद्रश्मितापितः।।
13-145-12a
13-145-12b
भीष्म उवाच। 13-145-13x
एतावदुक्त्वा स तदा तूष्णीमासीद्भृगूत्तमः।
अथ सूर्योऽददत्तस्मै छत्रोपानहमाशु वै।।
13-145-13a
13-145-13b
सूर्य उवाच। 13-145-14x
महर्षे शिरसस्त्राणां छत्रं मद्रश्मिवारणम्।
प्रतिगृह्णीष्व पद्भ्यां च त्राणार्थं चर्मपादुके।
13-145-14a
13-145-14b
अद्यप्रभृति चैवेह लोके सम्प्रचरिष्यति।
पुण्यकेषु च सर्वेषु परमक्षय्यमेव च।।
13-145-15a
13-145-15b
भीष्म उवाच। 13-145-16x
उपानहौ च च्छत्रं च सूर्येणैतत्प्रवर्तितम्।
पुण्यमेतदभिख्यातं त्रिषु लोकेषु भारत।।
13-145-16a
13-145-16b
तस्मात्प्रयच्छ विप्रेषु छत्रोपानहमुत्तमम्।
धर्मस्ते सुमहान्भावी न मेऽत्रास्ति विचारणा।।
13-145-17a
13-145-17b
छत्रं हि भरतश्रेष्ठः यः प्रदद्याद्द्विजातये।
शुभ्रं शतशलाकं वै स प्रेत्य सुखमेधते।।
13-145-18a
13-145-18b
स शक्रलोके वसति पूज्यमानो द्विजातिभिः।
अप्सरोभिश्च सततं देवैश्च भरतर्षभ।।
13-145-19a
13-145-19b
उपानहौ च यो दद्याच्छ्लक्ष्णौ स्नेहसमन्वितौ।
स्नातकाय महाबाहो संशिताय द्विजातये।।
13-145-20a
13-145-20b
सोपि लोकानवाप्नोति देवतैरभिपूजितान्।
गोलोके स मुदा युक्तो वसति प्रेत्य भारत।।
13-145-21a
13-145-21b
एतत्ते भरतश्रेष्ठ मया कार्त्स्न्येन कीर्तितम्।
छत्रोपानहदानस्य फलं भरतसत्तम।।
13-145-22a
13-145-22b
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि पञ्चचत्वारिंशदधिकशततमोऽध्यायः।। 145 ।।

सम्पाद्यताम्

13-145-4 निमित्तं लक्ष्यम्।। 13-145-9 ब्राह्मणेष्वपि यज्झानमिति ट.ध.पाठः।। 13-145-12 अपनीतस्यापनयस्य सन्तापनरूपस्य समाधिं समाधानम्।।

अनुशासनपर्व-144 पुटाग्रे अल्लिखितम्। अनुशासनपर्व-146