मार्कण्डेयपुराणम्/अध्यायाः १०१-१०५

← अध्यायाः ०९६-१०० मार्कण्डेयपुराणम्
अध्यायाः १०१-१०५
वेदव्यासः
अध्यायाः १०६-११० →

101
अथैकाधिकशततमोऽध्यायः
दिवाकरस्तुतिवर्णनम्
मार्कण्डेय उवाच
सृष्ट्वा जगदिदं ब्रह्मा प्रविभागमथाकरोत् ।
वर्णाश्रमसमुद्राद्रिद्वीपानां पूर्ववद्यथा । । १
देवदैत्योरगादीनां रूपस्थानानि पूर्ववत् ।
वेदेभ्य एव भगवानकरोत्कमलोद्भवः । । २
ब्रह्मणस्तनयो योऽभून्मरीचिरिति विश्रुतः ।
कश्यपस्तस्य पुत्रोऽभूत्काश्यपो नाम नामतः । । ३
दक्षस्य तनया ब्रह्मंस्तस्य भार्यास्त्रयोदश ।
बहवस्तत्सुताश्चासन्देवदैत्योरगादयः । । ४
अदितिर्जनयामास दैवांस्त्रिभुवनेश्वरान् ।
दैत्यान्दितिर्दनुश्चोग्रान्दानवानुरुविक्रमान् । । ५
गरुडारुणौ च विनता यक्षरक्षांसि वै खसा ।
कद्रूः सुषाव नागांश्च गन्धर्वान्सुषुवे मुनिः । । ६
क्रोधाया जज्ञिरे कुल्या रिष्टायाश्चाप्सरोगणाः ।
ऐरावतादीन्मातङ्गानिरा च सुषुवे द्विज । । ७
ताम्रा च सुषुवे श्येनीप्रमुखाः कन्यका द्विज ।
यासां प्रसूताः खगमाः श्येनभासशुकादयः । । ८
इलायाः पादपा जाताः प्रधाया यादसां गणाः ।
अदित्यां या समुत्पन्ना कश्यपस्येति सन्ततिः । । ९
तस्याश्च पुत्रदौहित्रैः पौत्रदौहित्रिकादिभिः ।
व्याप्तमेतज्जगत्सूत्या तेषां तासां च वै मुने । । 101.१०
तेषां कश्यपपुत्राणां प्रधाना देवतागणाः ।
सात्त्विका राजसास्त्वेते तामसाश्च मुने गणाः । । ११
देवान्यज्ञभुजश्चक्रे तथा त्रिभुवनेश्वरान् ।
ब्रह्मा ब्रह्मविदां श्रेष्ठः परमेष्ठी प्रजापतिः । । १२
तानबाधन्त सहिताः सपत्ना दैत्यदानवाः ।
राक्षसाश्च तथा युद्धं तेषामासीत्सुदारुणम् । । १३
दिव्यं वर्षसहस्रं तु पराजीयन्त देवताः ।
जयिनश्चाभवन्विप्र बलिनो दैत्यदानवाः । । १४
ततो निराकृतान्पुत्रान्दैतेयैर्दानवैस्तथा ।
हृतत्रिभुवनान्दृष्ट्वा ह्यदितिर्मुनिसत्तम । । १५
आच्छिन्नयज्ञभागांश्च शुचा संपीडिता भृशम् ।
आराधनाय सवितुः परं यत्नं प्रचक्रमे । । १६
एकाग्रा नियताहारा परं नियममास्थिता ।
तुष्टाव तेजसां राशिं गगनस्थं दिवाकरम् । । १७
अदितिरुवाच
नमस्तुभ्यं परां सूक्ष्मां सौवर्णीं बिभ्रते तनुम् ।
धाम धामवतामीश धाम्नामाधार शाश्वत । । १८
जगतामुपकाराय तथापस्तव गोपते ।
आददानस्य यद्रूपं तीव्रं तस्मै नमाम्यहम् । । १९
ग्रहीतुमष्टमासेन कालेनेन्दुमयं रसम् ।
बिभ्रतस्तव यद्रूपमतितीव्रं नतास्मि तत् । । 101.२०
तमेव मुञ्चतः सर्वं रसं वै वर्षणाय यत् ।
रूपमाप्यायकं भास्वंस्तस्मै मेधाय ते नमः । । २१
वार्युत्सर्गविनिष्पन्नमशेषं चौषधीगणम् ।
पाकाय तव यद्रूपं भास्करं तं नमाम्यहम् । । २२
यच्च रूपं तवातीतं हिमोत्सर्गादिशीतलम् ।
तत्कालसस्यपोषाय तरणे तस्य ते नमः । । २३
नातितीव्रं च यद्रूपं नातिशीतं च यत्तव ।
वसन्तर्त्तौ रवे सौम्यं तस्मै देव नमो नमः । । २४
आप्यायनमशेषाणां देवानां च तथापरम् ।
पितॄणां च नमस्तस्मै सस्यानां पाकहेतवे । । २५
यद्रूपं जीवनायैकं वीरुधाममृतात्मकम् ।
पीयते देवपितृभिस्तस्मै सोमात्मने नमः । । २६
आप्यायदाहरूपाभ्यां रूपं विश्वमयं तव ।
समेतमग्नीषोमाभ्यां नमस्तस्मै गुणात्मने । । २७
यद्रूपमृग्यजुःसाम्नामैक्येन तपते तव ।
विश्वमेतत्त्रयीसंज्ञं नमस्तस्मै विभावसो । । २८
मार्कण्डेय उवाच
यत्तु तस्मात्परं रूपमोमित्युक्त्वाभिशब्दितम् ।
अस्थूलानन्तममलं नमस्तस्मै सदात्मने । । २९
एवं स नियता देवी चक्रे स्तोत्रमहर्निशम् ।
निराहारा विवस्वन्तमारिराधयिषुर्मुने । । 101.३०
ततः कालेन महता भगवांस्तपनोऽम्बरे ।
प्रत्यक्षतामगादस्या दाक्षायण्या द्विजोत्तम । । ३१
सा ददर्श महाकूटं तेजसोऽम्बरसंश्रितम् ।
जगाद मे प्रसीदेति न त्वां पश्यामि गोपते । । ३२
यथा दृष्टवती पूर्वमम्बरस्थं सुदुर्दृशम् ।
निराहारा विवस्वन्तं तपन्तं तदनन्तरम् । । ३३
संघातं तेजसां तद्वदिह पश्यामि भूतले ।
प्रसादं कुरु पश्येयं यद्रूपं ते दिवाकर । ।
भक्तानुकम्पक विभो भक्ताहं पाहि मे सुतान् । । ३४
त्वं धाता विसृजसि विश्वमेतत्त्वं पासि स्थितिकरणाय सप्रवृत्तः ।
त्वय्यन्ते लयमखिलं प्रयाति तत्त्वं त्वत्तोऽन्या न हि गतिरस्ति सर्वलोके । । ३५
त्वं ब्रह्मा हरिरजसंज्ञितस्त्वमिन्द्रो वित्तेशः पितृपतिरप्पतिः समीरः ।
सोमोऽग्निर्गगनपतिर्महीधरोऽब्धिः किं स्तव्यं तव सकलात्मरूपधाम्नः । । ३६
यज्ञेश त्वामनुदिनमात्मकर्मसक्ताः स्तुन्वन्तो विविधपदैर्द्विजा यजन्ति ।
ध्यायन्तो विनियतचेतसो भवन्तं योगस्थाः परमपदं प्रयान्ति मर्त्याः । । ३७
तपसि पचसि विश्वं पासि भस्मीकरोषि प्रकटयसि मयूखैर्ह्रादयस्यम्बुगर्भैः ।
सृजसि कमलजन्मा पालयस्यच्युताख्यः क्षपयसि च युगान्ते रुद्ररूपस्त्वमेकः । । ३८
इति श्रीमार्कण्डेयपुराणे दिवाकरस्तुतिर्नामैकाधिकशततमोऽध्यायः । १०१ ।
102
अथ द्व्यधिकशततमोऽध्यायः
मार्तण्डोत्पत्तिवर्णनम्
मार्कण्डेय उवाच
ततः स्वतेजसस्तस्मादाविर्भूतो विभावसुः ।
अदृश्यत तदादित्यस्तप्तताम्रोपमप्रभः । । १
अथ तां प्रणतां देवीं तस्य संदर्शनान्मुने ।
प्राह भास्वन्वृणुष्वेष्टवरं मत्तो यमिच्छसि । । २
प्रणता शिरसा सा च जानुपीडितमेदिनी ।
प्रत्युवाच विवस्वन्तं वरदं समुपस्थितम् । । ३
देव प्रसीद पुत्राणां हृतं त्रिभुवनं मम ।
यज्ञभागाश्च दैत्यैश्च दानवैश्च बलाधिकैः । । ४
तन्निमित्तं प्रसादं त्वं कुरुष्व मम गोपते ।
अंशेन तेषां भ्रातृत्वं गत्वा नाशय तद्रिपून् । । ५
यथा मे तनया भूयो यज्ञभागभुजः प्रभो ।
भवेयुरधिपाश्चैव त्रैलोक्यस्य दिवाकर । । ६
तथानुकम्पां पुत्राणां सुप्रसन्नो रवे मम ।
कुरु प्रपन्नार्तिहर स्थितिकर्त्ता त्वमुच्यसे । । ७
मार्कण्डेय उवाच
ततस्तामाह भगवान्भास्करो वारितस्करः ।
प्रणतामदितिं विप्र प्रसादसुमुखो विभुः । । ८
सहस्रांशेन ते गर्भे सम्भूयाहमशेषतः ।
त्वत्पुत्रशत्रूनदिते नाशयाम्याशु निर्वृतः । । ९
इत्युक्त्वा भगवान्भास्वानन्तर्द्धानमुपागमत् ।
निवृत्ता सापि तपसः संतृप्ताखिलवाञ्छिता । । 102.१०
ततो रश्मिसहस्रात्तु सौषुम्नाख्यो रवेः करः ।
विप्रावतारं संचक्रे देवमातुरथोदरे । । ११
कृच्छ्रचान्द्रायणादीनि सा च चक्रे समाहिता ।
शुचिः संधारयामास दिव्यं गर्भमिति द्विज । । १२
ततस्तां कश्यपः प्राह किञ्चित्कोपप्लुताक्षरम् ।
किं मारयसि गर्भाण्डमिति नित्योपवासिनी । । १३
सा च तं प्राह गर्भाण्डमेतत्पश्येति कोपना ।
न मारितं विपक्षाणां मृत्यवे तद्भविष्यति । । १४
मार्कण्डेय उवाच
इत्युक्त्वा तं तदा गर्भमुत्ससर्ज्ज सुरारणिः ।
जाज्वल्यमानं तेजोभिः पत्युर्वचनकोपिता । । १५
तं दृष्ट्वा कश्यपो गर्भमुद्यद्भास्करवर्च्चसम् ।
तुष्टाव प्रणतो भूत्वा ऋग्भिराद्याभिरादरात् । । १६
संस्तूयमानः स तदा गर्भाण्डात्प्रकटोऽभवत् ।
पद्मपत्रसवर्णाभस्तेजसा व्याप्तदिङ्मुखः । । १७
अथान्तरिक्षादाभाष्य कश्यपं मुनिसत्तमम् ।
सतोयमेघगम्भीरवागुवाचाशरीरिणी । । १८
मारितं ते यतः प्रोक्तमेतदण्डं त्वया मुने ।
तस्मान्मुने सुतस्तेऽयं मार्त्तण्डाख्यो भविष्यति । । १९
सूर्याधिकारं च विभुर्जगत्येष करिष्यति ।
हनिष्यत्यसुरांश्चायं यज्ञभागहरानरीन् । । 102.२०
देवा निशम्येति वचो गगनात्समुपागमन् ।
प्रहर्षमतुलं याता दानवाश्च हतौजसः । । २१
ततो युद्धाय दैतेयानाजुहाव शतक्रतुः ।
सह देवैर्मुदा युक्तो दानवाश्च समभ्ययुः । । २२
तेषां युद्धमभूद्घोरं देवानामसुरैः सह ।
शस्त्रास्त्रदीप्तिसंदीप्तं समस्तभुवनान्तरम् । । २३
तस्मिन्युद्धे भगवता मार्त्तण्डेन निरीक्षिताः ।
तेजसा दह्यमानास्ते भस्मीभूता महासुराः । । २४
ततः प्रहर्षमतुलं प्राप्ताः सर्वे दिवौकसः ।
तुष्टुवुस्तेजसा योनिं मार्त्तण्डमदितिं तथा । । २५
स्वाधिकारांस्तथा प्राप्ता यज्ञभागांश्च पूर्ववत् ।
भगवानपि मार्तण्डः स्वाधिकारमथाकरोत् । । २६
कदम्बपुष्पवद्भास्वानधश्चोर्ध्वं च रश्मिभिः ।
वृत्ताग्निपिण्डसदृशो दध्रे नातिस्फुरद्वपुः । । २७
इति श्रीमार्कण्डेयपुराणे मार्तण्डोत्पत्तिर्नाम द्व्यधिकशततमोऽध्यायः । १०२ ।
103
अथ त्र्यधिकशततमोऽध्यायः
भानुतनुलेखनवर्णनम्
मार्कण्डेय उवाच
अथ तस्मै ददौ कन्यां संज्ञां नाम विवस्वते ।
प्रसाद्य प्रणतो भूत्वा विश्वकर्मा प्रजापतिः । । १
वैवस्वतस्तु सम्भूतो मनुस्तस्यां विवस्वतः ।
पूर्वमेव तथाख्यातं तत्स्वरूपं विशेषतः । । २
क्रौष्टुकिरुवाच
(भूयस्तच्छ्रोतुमिच्छामि मार्त्तण्डस्य महात्मनः ।
चरितं हन्ति यत्पापं कलौ संशृण्वतां नृणाम् । ।)
मार्कण्डेय उवाच
त्रीण्यपत्यान्यसौ तस्यां जनयामास गोपतिः ।
द्वौ पुत्रौ सुमहाभागो कन्यां च यमुनां मुने । । ३
मनुर्वैवस्वतो ज्येष्ठः श्राद्धदेवः प्रजापतिः ।
ततो यमो यमी चैव यमलौ सम्बभूवतुः । । ४
यत्तेजोऽभ्यधिकं तस्य मार्तण्डस्य विवस्वतः ।
तेनातितापयामास त्रींल्लोकान्सचराचरान् । । ५
गोलाकारं तु तद्दृष्ट्वा संज्ञारूपं विवस्वतः ।
असहन्ती महत्तेजः स्वां छायां प्रेक्ष्य साऽब्रवीत् । । ६
संज्ञोवाच
अहं यास्यामि भद्रं ते स्वमेव भवनं पितुः ।
निर्विकारं त्वयाप्यत्र स्थेयं मच्छासनाच्छुभे । । ७
इमौ च बालकौ मह्यं कन्या च वरवर्णिनी ।
सम्भाव्यौ नैव चाख्येयमिदं भगवते त्वया । । ८
छायोवाच
आकेशग्रहणाद्देवि आशपन्नैव कर्हिचित् ।
आख्यास्यामि मतं तुभ्यं गम्यतां यत्र वाञ्छितम् । । ९
इत्युक्ता छायया संज्ञा जगाम पितृमन्दिरम् ।
तत्रावसत्पितुर्गेहे कञ्चित्कालं शुभेक्षणा । । 103.१०
भर्तुः समीपं याहीति पित्रोक्ता सा पुनः पुनः ।
अगच्छद्वडवा भूत्वा कुरून्विप्रोत्तरांस्ततः । । ११
तत्र तेपे तपः साध्वी निराहारा महामुने ।
पितुः समीपं यातायाः संज्ञाया वाक्यतत्परा । । १२
तद्रूपधारिणी छाया भास्करं समुपस्थिता ।
तस्यां च भगवान्सूर्यः संज्ञेयमिति चिन्तयन् । । १३
तथैव जनयामास द्वौ सुतौ कन्यकां तथा ।
पूर्वजस्य मनोस्तुल्यः सावर्णिस्तेन सोऽभवत् । । १४
यस्तयोः प्रथमं जातः पुत्रयोर्द्विजसत्तम ।
द्वितीयो योऽभवच्चान्यः स ग्रहोऽभूच्छनैश्चरः । । १५
कन्याभूत्तपती या तां वव्रे संवरणो नृपः ।
संज्ञा तु पार्थिवी तेषामात्मजानां यथाऽकरोत् । । १६
स्नेहान्न पूर्वजातानां तथा कृतवती सती ।
मनुस्तत्क्षान्तवांस्तस्या यमश्चास्या न चक्षमे । । १७
बहुशो याच्यमानस्तु पितुः पत्न्या सुदुःखितः ।
स वै कोपाच्च बाल्याच्च भाविनोऽर्थस्य वै बलात् । । १८
पदा सन्तर्जयामास छायासंज्ञां यमो मुने ।
ततः शशाप च यमं संज्ञा सामर्षिणी भृशम् । । १९
छायोवाच
पदा तर्जयसे यस्मात्पितृभार्यां गरीयसीम् ।
तस्मात्तवैव चरणः पतिष्यति न संशय ।।103.२०
यमस्तु तेन शापेन भृशं पीडितमानसः ।
मनुना सह धर्मात्मा सर्वं पित्रे न्यवेदयत् ।।२१
यम उवाच
स्नेहेन तुल्यमस्मासु माता देव न वर्तते ।
विसृज्य ज्यायसोऽप्यस्मान्कनीयांसौ बुभूर्षति ।।२२
तस्यां मयोद्यतः पादो न तु देहे निपातितः ।
बाल्याद्वा यदि वा मोहात्तद्भवान्क्षन्तुमर्हति ।।२३
शप्तोऽहं तात कोपेन जनन्या तनयो यतः ।
ततो न मन्ये जननीमिमां वै तपतां वर ।।२४
विगुणेष्वपि पुत्रेषु न माता विगुणा पितः ।
पादस्ते पततां पुत्र कथमेतत्प्रवक्ष्यति ।।२५
तव प्रसादाच्चरणो न पतेद्भगवन्यथा ।
मातृशापादयं मेऽद्य तथा चिन्तय गोपते ।।२६
रविरुवाच
असंशयमिदं पुत्र भविष्यत्यत्र कारणम् ।
येन त्वामाविशत्क्रोधो धर्मज्ञं सत्यवादिनम् ।।२७
सर्वेषामेव शापानां प्रतिघातो हि विद्यते ।
न तु मात्राभिशप्तानां क्वचिच्छापनिवर्तनम् ।।२८
न शक्यमेतन्मिथ्या तु कर्तुं मातुर्वचस्तव ।
किञ्चित्तव विधास्यामि पुत्रस्नेहादनुग्रहम् ।।२९
कृमयो मांसमादाय प्रयास्यन्ति महीतलम् ।
कृतं तस्या वचः सत्यं त्वं च त्रातो भविष्यसि ।।103.३०
मार्कण्डेय उवाच
आदित्यस्त्वब्रवीच्छायां किमर्थं तनयेषु वै ।
तुल्येष्वप्यधिकः स्नेह एकत्र क्रियते त्वया । । ३१
नूनं नैषां त्वं जननी संज्ञा कापि त्वमागता ।
विगुणेष्वप्यपत्येषु कथं माता शपेत्सुतम् । । ३२
मार्कण्डेय उवाच
सा तत्परिहरन्ती च नाचचक्षे विवस्वतः ।
स चात्मानं समाधाय युक्तस्तत्त्वमपश्यत । । ३३
तं शप्तुमुद्यतं दृष्ट्वा छायासंज्ञा दिवस्पतिम् ।
भयेन कंपिता ब्रह्मन्यथावृत्तं न्यवेदयत् । । ३४
विवस्वांस्तु ततः क्रुद्धः श्रुत्वा श्वशुरमभ्यगात् ।
स चापि तं तथान्यामर्चयित्वा दिवाकरम् । ।
निर्दग्धुकामं रोषेण सान्त्वयामास सुव्रतः । । ३५
विश्वकर्मोवाच
तवातितेजसा व्याप्तमिदं रूपं सुदुःसहम् ।
असहन्ती ततः संज्ञा वने चरति वै तपः । । ३६
द्रक्ष्यते तां भवानद्य स्वभार्यां शुभचारिणीम् ।
रूपार्थं भवतोऽरण्ये चरन्तीं समुहत्तपः । । ३७
स्मृतं मे ब्रह्मणो वाक्यं यदि ते देव रोचते ।
रूपं निवर्तयाम्येतत्तव कान्तं दिवस्पते । । ३८
मार्कण्डेय उवाच
यतो हि भास्वतो रूपं प्रागासीत्परिमण्डलम् ।
ततस्तथेति तं प्राह त्वष्टारं भगवान्रविः । । ३९
विश्वकर्मा त्वनुज्ञातः शाकद्वीपे विवस्वतः ।
भ्रमिमारोप्य तत्तेजः शातनायोपचक्रमे । । 103.४०
भ्रमताऽशेषजगतां नाभिभूतेन भास्वता ।
समुद्राद्रिवनोपेता सा रुरोह मही नभः । । ४१
गगनं चाखिलं ब्रह्मन्सचन्द्रग्रहतारकम् ।
अधोगतं महाभाग बभूवाक्षिक्षमाकुलम् । । ४२
विक्षिप्तसलिलाः सर्वे बभूवुश्च तथाब्धितः ।
व्यभिद्यन्त महाशैलाः शीर्णसानुनिबन्धनाः । । ४३
ध्रुवाधाराण्यशेषाणि धिष्ण्यानि मुनिसत्तम ।
त्रुट्यद्रश्मिनिबन्धानि ह्यधो जग्मुः सहस्रशः । । ४४
वेगभ्रमणसंजात वायुक्षिप्ताः समन्ततः ।
व्यशीर्यन्त महामेघा घोररावविराविणः । । ४५
भास्वद्भ्रमणविभ्रान्तं भूम्याकाशरसातलम् ।
जगादाकुलमत्यर्थं तदासीन्मुनिसत्तम । । ४६
त्रैलोक्ये सकले विप्र भ्रममाणे सुरर्षयः ।
देवाश्च ब्रह्मणा सार्द्धं भास्वन्तमभितुष्टुवुः । । ४७
आदिदेवोऽसि देवानां ज्ञातमेतत्स्वरूपतः ।
स्वर्गस्थित्यन्तकालेषु त्रिधा भेदेन तिष्ठसि । । ४८
स्वस्ति तेऽस्तु जगन्नाथ धर्मवर्षाहिमाकर ।
जुषस्व शान्तिं लोकानां देवदेव दिवाकर । । ४९
इन्द्रश्चागत्य तं देवं लिख्यमानं यथाऽस्तुवत् ।
जयदेव जगद्वयापिञ्जयाशेषजगत्पते । । 103.५०
ऋषयश्च ततः सप्त वसिष्ठात्रिपुरोगमाः ।
तुष्टुवुर्विविधैः स्तोत्रैः स्वस्ति स्वस्तीति वादिनः । । ५१
वेदोक्ताभिरथाग्र्याभिर्वालखिल्याश्च तुष्टुवुः ।
भास्वन्तमृग्भिराद्याभिर्लिख्यमानं मुदायुताः । । ५२
त्वं नाथ मोक्षिणां मोक्षो ध्येयस्त्वं ध्यानिनां परः ।
त्वं गतिः सर्वभूतानां कर्मकाण्डेऽपि वर्तताम् । । ५३
शं प्रजाभ्योऽस्तु देवेश शन्नोऽस्तु जगतांपते ।
शन्नोऽस्तु द्विपदे नित्यं शन्नश्चास्तु चतुष्पदे । । ५४
ततो विद्याधरगणा यक्षराक्षसपन्नगाः ।
कृताञ्जलिपुटाः सर्वे शिरोभिः प्रणता रविम् । । ५५
ऊचुरेवंविधा वाचो मनः श्रोत्रसुखावहः ।
सह्यं भवतु ते तेजो भूतानां भूतभावन । । ५६
ततो हाहा हुहूश्चैव नारदस्तुम्बुरुस्तथा ।
उपगायितुमारब्धा गान्धर्वं कुशला रविम् । । ५७
षड्जमध्यमगान्धारग्रामत्रयविशारदाः ।
मूर्च्छनाभिश्च तानैश्च सम्प्रयोगैः सुखप्रदम् । । ५८
विश्वाची च घृताची च उर्वश्यथ तिलोत्तमा ।
मेनका सहजन्या च रम्भा चाप्सरसां वरा । । ५९
ननृतुर्जगतामीशे लिख्यमाने विभावसौ ।
ज्ञानभावविलासाढ्यात्कुर्वन्तोऽभिनयान्बहून् । । 103.६०
प्रावाद्यन्त ततस्तत्र वेणुवीणादिझर्झराः ।
पणवाः पुष्कराश्चैव मृदङ्गा पटहानकाः । । ६१
देवदुन्दुभयः शङ्खाः शतशोऽथ सहस्रशः ।
गायद्भिश्चैव गान्धर्वं नृत्यद्भिश्चाप्सरोगणैः । । ६२
तूर्यवादित्रघोषैश्च सर्वं कोलाहलीकृतम् ।
ततः कृताञ्जलिपुटा भक्तिनम्रात्ममूर्तयः । । ६३
लिख्यमानं सहस्रांशुं प्रणेमुः सर्वदेवताः ।
ततः कोलाहले तस्मिन्सर्वदेवसमागमे । ।
तेजसः शातनं चक्रे विश्वकर्मा शनैः शनैः । । ६४
इति हिमजलघर्मकालहेतोर्हरकमलासनविष्णुसंस्तुतस्य ।
तनुपरिलिखनं निशम्य भानोर्व्रजति दिवाकरलोकमायुषोऽन्ते । । ६५
इति श्रीमार्कण्डेयपुराणे भानुतनुलेखने त्र्यधिकशततमोऽध्यायः । १०३ ।
104
अथ चतुरधिकशततमोऽध्यायः
सूर्यस्तवनवर्णनम्
मार्कण्डेय उवाच
लिख्यमाने ततो भानौ विश्वकर्मा प्रजापतिः ।
उद्भूतपुलकः स्तोत्रमिदं चक्रे विवस्वतः । । १
विवस्वते प्रणतहितानुकम्पिने महात्मने समजवसप्तसप्तये ।
सुतेजसे कमलकुलावबोधिने नमस्तमः पटलपटावपाटिने । । २
पावनातिशयपुण्यकर्मणे नैककामविषयप्रदायिने ।
भास्वरानलमयूखशायिने सर्वलोकहितकारिणे नमः । । ३
अजाय लोकत्रयकारणाय भूतात्मने गोपतये वृषाय ।
नमो महाकारुणिकोत्तमाय सूर्याय चक्षुःप्रभवालयाय । ।४
विवस्वते ज्ञानमृतेंऽतरात्मने जगत्प्रतिष्ठाय जगद्धितैषिणे ।
स्वयम्भुवे लोकसमस्तचक्षुषे सुरोत्तमायामिततेजसे नमः । ।५
क्षणमुदयाचलमौलिमणिः सुरगणमहित हितो जगतः ।
त्वमु मयूखसहस्रवपुर्जगति विभासि तमांसि नुदन् । । ६
भवतिमिरासवपानमदाद्भवति विलोहितविग्रहता ।
मिहिर विभासि यतः सुतरां त्रिभुवनभावनभानिकरैः । । ७
रथमधिरुह्य समावयवं चारुविकम्पितमुरुरुचिरम् ।
सततमखिन्नहयैर्भगवंश्चरसि जगद्धिताय विततम् । । ८
अमृतमयेन रसेन समं विबुधपितॄनपि तर्पयसे ।
अरिगणसूदन तेन तव प्रणतिमुपेत्य लिखामि वपुः । । ९
शुकसमवर्णह्यप्रथितं तव पदपांसुपवित्रतमम् ।
नतजनवत्सल मां प्रणतं त्रिभुवनपावन पाहि रवे । । 104.१०
इति सकलजगप्रसूतिभूतं त्रिभुवनभावनधामहेतुमेकम् ।
रविमखिलजगत्प्रदीपभूतं त्रिदशवर प्रणतोऽस्मि सर्वदा त्वाम् । । ११
इति श्रीमार्कण्डेयपुराणे सूर्यस्तवनं नाम चतुरधिकशततमोऽध्यायः । १०४ ।
105
अथ पञ्चाधिकशततमोऽध्यायः
रवेर्माहात्म्यवर्णनम्
मार्कण्डेय उवाच
एवं सूर्यस्तवं कुर्वन्विश्वकर्मा दिवस्पतेः ।
तेजसः षोडशं भागं मण्डलस्थमधारयत् । । १
शातितैस्तेजसो भागैर्दर्शभिः पञ्चभिस्तथा ।
अतीवकान्तिमच्चारु भानोरासीत्तदा वपुः । । २
शातितं चास्य यत्तेजस्तेन चक्रं विनिर्मितम् ।
विष्णोः शूलं च शर्वस्य शिबिका धनदस्य च । । ३
दण्डः प्रेतपतेः शक्तिर्देवसेनापतेस्तथा ।
अन्येषां चैव देवानामायुधानि स विश्वकृत् । । ४
चकार तेजसा भानोर्भासुराण्यरिशान्तये ।
इति शातिततेजाः स शुशुभे नातितेजसा । । ५
वपुर्दधार मार्त्तण्डः सर्वावयवशोभनम् ।
स ददर्श समाधिस्थः स्वां भार्यां वडवाकृतिम् । । ६
अधृष्यां सर्वभूतानां तपसा नियमेन च ।
उत्तरांश्च कुरून्गत्वा भूत्वाऽश्वो भानुरागमत् । । ७
सा च दृष्ट्वा तमायान्तं परपुंसो विशङ्कया ।
जगाम सम्मुखे तस्य पृष्ठरक्षणतत्परा । । ८
ततश्च नासिकायोगं तयोस्तत्र समेतयोः ।
वडवायं च तत्तेजो नासिकाभ्यां विवस्वतः । । ९
देवौ तत्र समुत्पन्नावश्विनौ भिषजां वरौ ।
नासत्यदस्रौ तनयावश्विवक्त्राद्विनिर्गतौ । । 105.१०
मार्त्तण्डस्य सुतावेतावश्वरूपधरस्य हि ।
रेतसोऽन्ते च रेवन्तः खड्गी धन्वी तनुत्रधृक् । । ११
अश्वारूढः समुद्भूतो बाणतूणसमन्वितः ।
ततः स्वरूपममलं दर्शयामास भानुमान् । । १२
तस्य शान्तं समालोक्य सा रूपं मुदमाददे ।
स्वरूपधारिणीं चेमां स निनाय निजालयम् । । १३
संज्ञां भार्यां प्रीतिमतीं भास्करो वारितस्करः ।
ततः पूर्वसुतो योऽस्याः सोऽभूद्वैवस्वतो मनुः । । १४
द्वितीयश्च यमः शापाद्धर्मदृष्टिरनुग्रहात् ।
यमस्तु तेन शापेन भृशं पीडितमानसः । । १५
धर्मोऽभिरोचते यस्माद्धर्मराजस्ततः स्मृतः ।
कृमयो मांसमादाय पादतस्ते महीतलम् । । १६
पतिष्यन्तीति शापान्तं तस्य चक्रे पिता स्वयम् ।
धर्मदृष्टिर्यतश्चासौ समो मित्रे तथाऽहिते । । १७
ततो नियोगे तं याम्ये चकार तिमिरापहः ।
तस्मै ददौ पिता विप्र भगवांल्लोकपालताम् । । १८
पितॄणामाधिपत्यं च परितुष्टो दिवाकरः ।
यमुनां च नदीं चक्रे कलिंदान्तरवाहिनीम् । । १९
अश्विनौ देवभिषजौ कृतौ पित्रा महात्मना ।
गुह्यकाधिपतित्वे च रेवन्तो विनियोजितः । । 105.२०
एवमप्याह च ततो भगवांल्लोकभावितः ।
त्वमप्यशेषलोकस्य पूज्यो वत्स भविष्यसि । । २१
अरण्यादिमहादाववैरिदस्युभयेषु च ।
त्वां स्मरिष्यन्ति ये मर्त्या मोक्ष्यन्ते ते महापदः । । २२
क्षेमं बुद्धिं सुखं राज्यमारोग्यं कीर्तिमुन्नतिम् ।
नराणां परितुष्टस्त्वं पूजितः सम्प्रदास्यसि । । २३
छायासंज्ञासुतश्चापि सावर्णिः सुमहायशाः ।
भाव्यः सोऽनागते काले मनुः सावर्णिकोऽष्टमः । । २४
मेरुपृष्ठे तपो घोरमद्यापि चरति प्रभुः ।
भ्राता शनैश्चरस्तस्य ग्रहोऽभूच्छासनाद्रवेः । । २५
यवीयसी तु या कन्याऽऽदित्यस्याभूद्द्विजोत्तम ।
अभवत्सा सरिच्छ्रेष्ठा तपती लोकपावनी । । २६
यस्तु ज्येष्ठो महाभागः सर्गो यस्येह साम्प्रतम् ।
विस्तरं तस्य वक्ष्यामि मनोर्वैवस्वतस्य ह । । २७
इदं यो जन्म देवानां शृणुयाद्धा पठेत वा ।
विवस्वतस्तनूजानां रवेर्माहात्म्यमेव च । । २८
आपदं प्राप्य मुच्येत प्राप्नुयाच्च महायशः ।
अहोरात्रकृतं पापमेतच्छमयते श्रुतम् । ।
माहात्म्यमादिदेवस्य मार्तण्डस्य महात्मनः । । २९
इति श्रीमार्कण्डेयपुराणे रवेर्माहात्म्यवर्णनं नाम पञ्चाधिकशततमोऽध्यायः । १०५ ।