मार्कण्डेयपुराणम्/अध्यायाः १०६-११०

← अध्यायाः १०१-१०५ मार्कण्डेयपुराणम्
अध्यायाः १०६-११०
वेदव्यासः
अध्यायाः १११-११५ →

106
अथ षडधिकशततमोऽध्यायः
भानुस्तववर्णनम्
क्रौष्टुकिरुवाच
भगवन्कथितः सम्यग्भानोः सन्ततिसम्भवः ।
माहात्म्यमादिदेवस्य स्वरूपं चातिविस्तरात् । । १
भूयोऽपि भास्वतः सम्यङ्माहात्म्यं मुनिसत्तम ।
श्रोतुमिच्छाम्यहं तन्मे प्रसन्नो वक्तुमर्हसि । । २
मार्कण्डेय उवाच
श्रूयतामादिदेवस्य माहात्म्यं कथयामि ते ।
विवस्वतो यच्चकार पूर्वमाराधितो जनैः । । ३
दमस्य पुत्रो विख्यातो राजाभूद्राज्यवर्धनः ।
स सम्यक्पालनं चक्रे पृथिव्या पृथिवीपतिः । । ४
धर्मतः पाल्यमानं तु तेन राष्ट्रं महात्मना ।
ववृधेऽनुदिनं विप्र जनेन च धनेन च । । ५
हृष्टपुष्टमतीवासीत्तस्मिन्राजन्यशेषतः ।
निर्भयः सकलश्चोर्व्यां पौरजानपदो जनः । । ६
नोपसर्गो न च व्याधिर्न च व्यालोद्भवं भयम् ।
न चावृष्टिभयं तत्र दमपुत्रे महीपतौ । । ७
स ईजे च महायज्ञैर्ददौ दानानि चार्थिनाम् ।
सुधर्मस्याविरोधेन बुभुजे विषयानपि । । ८
तस्यैवं कुर्वतो राज्यं सम्यक्पालयतः प्रजाः ।
सप्त वर्षसहस्राणि जग्मुरेकमहर्यथा । । ९
विदूरथस्य तनया दाक्षिणात्यस्य भूभृतः ।
तस्य पत्नी बभूवाथ मानिनी नाम मानिनी । । 106.१०
कदाचित्तस्य सा सुभ्रुः शिरसोऽभ्यञ्जनादृता ।
पश्यतो राजलोकस्य मुमोचाश्रूणि मानिनी । । ११
तदश्रुबिन्दवो गात्रे यदा तस्य महीपतेः ।
तदा वीक्ष्याश्रुवदनां तामपृच्छत मानिनीम् । । १२
निःशब्दमश्रुमोक्षेण रुदन्तीं तां विलोक्य वै ।
किमेतदिति पप्रच्छ मानिनीं राज्यवर्धनः । । १३
पृष्टा सा तु ततस्तेन भर्त्रा प्राह मनस्विनी ।
न किञ्चिदिति तां भूयः पप्रच्छ स महीपतिः । । १४
बहुशः पृच्छतस्तस्य भूभृतः सा सुमध्यमा ।
(न किञ्चिदिति होवाच सा भूयो राज्यवर्धनम् । ।
किमेतदिति पप्रच्छ मानिनीं पार्थिवः पुनः ।
बहुशः प्रेरिता तेन सा भर्त्रा तत्र भामिनी । ।)
दर्शयामास पलितं केशभारान्तरोद्भवम् । । १५
एतत्पश्येति भूपाल किमन्यन्मन्युकारणम् ।
ममातिमन्दभाग्याया जहासाथ नृपस्ततः । । १६
स विहस्याह तां पत्नीं शृण्वतां सर्वभूभृताम् ।
पौराणां च महीपाला ये तत्रासन्समावृताः । । १७
शोकेनालं विशालाक्षि रोदितव्यं न ते शुभे ।
जन्मर्द्धिपरिणामाद्या विकाराः सर्वजन्तुषु । । १८
अधीताः सकला वेदा इष्टा यज्ञाः सहस्रशः ।
दत्तं द्विजानां पुत्राश्च समुत्पन्ना वरानने । । १९
भुक्ता भोगस्त्वया सार्द्धं ये मर्त्यैरतिदुर्लभाः ।
सभ्यञ्च पालिता पृथ्वी शौर्यं युद्धेष्वनुष्ठितम् । । 106.२०
मित्रैः सहेष्टैर्हसितं विहृतं च वनान्तरे ।
किमन्यत्र कृतं भद्रे पलितेभ्यो बिभेषि यत् । । २१
भवन्तु केशाः पलिता वलयः सन्तु मे शुभे ।
शैथिल्यमेतु मे कायः कृतकृत्योऽस्मि मानिनि । । २२
मूर्ध्नि यद्दर्शितं भद्रे भवत्या पलितं मम ।
चिकित्सामेव तस्याहं करोमि वनसंश्रयात् । । २३
बाल्ये बालक्रियापूर्वं तद्वत्कौमारके च या ।
यौवने चापि या योग्या वार्द्धके वनसंश्रया ।।२४
एवं मत्पूर्वजैर्भद्रे कृतं त्वत्पूर्वजैश्च यत् ।
अतो न तेऽश्रुपातस्य किञ्चित्पश्यामि कारणम् ।।२५
अलं ते मन्युना भद्रे नन्वभ्युदयकारि मे ।
दर्शनं पलितस्यास्य मा रोदीर्निष्प्रयोजनम् ।।२६
मार्कण्डेय उवाच
ततः प्रणम्य तं भूपाः पौराश्चैव समीपगाः ।
साम्ना प्रोचुर्महीपाला महर्षे राज्यवर्धनम् ।।२७
न रोदितव्यमनया तव पत्न्या नराधिप ।
रोदितव्यमिहास्माभिरथवा सर्वजन्तुभिः ।।२८
त्वं ब्रवीषि यथा नाथ वनवासाश्रितं वचः ।
पतन्ति तेन नः प्राणा लालितानां त्वया नृप ।।२९
सर्वे यास्यामहे भूप यदि याति भवान्वनम् ।
ततोऽशेषक्रियाहानिः सर्वपृथ्वीनिवासिनाम् ।।106.३०
भविष्यति न सन्देहस्त्वयि नाथ वनाश्रमे ।
सा च धर्मोपघाताय यदि तत्प्रविमुच्यताम् ।।३ १
सप्त वर्षसहस्राणि त्वयेयं पालिता मही ।
तत्समुत्थं महापुण्यमालोकय नराधिप ।।३२
वने वसन्महाराज त्वं करिष्यसि यत्तपः ।
तन्महीपालनस्यास्य कलां नार्हन्ति षोडशीम् ।।३ ३
राजोवाच
सप्त वर्षसहस्राणि मयेयं पालिता मही ।
इदानीं वनवासस्य मम कालोऽयमागतः ।। ३४
ममापत्यानि जातानि दृष्ट्वा मेऽपत्यसन्ततीः ।
स्वल्पैरेवमहोभिर्मे ह्यन्तको न सहिष्यति ।३५
यदेतत्पलितं मूर्ध्नि तद्विजानीत नागराः ।
दूतभूतमनार्यस्य मृत्योरत्युग्रकर्मणः । । ३६
सोऽहं राज्ये सुतं कृत्वा भोगांस्त्यक्त्वा वनाश्रयः ।
तपस्तप्स्ये समायान्ति न यावद्यमसैनिकाः । । ३७
मार्कण्डेय उवाच
ततो यियासुः स वनं दैवज्ञानवनीपतिः ।
पुत्रराज्याऽभिषेकाय दिनलग्नान्यपृच्छत । । ३८
श्रुत्वा च ते तु नृपतेर्वचो व्याकुलचेतसः ।
दिनं लग्नं च होराश्च न विदुः शास्त्रदृष्टयः । । ३९
ऊचुश्च तं महीपालं दैवज्ञा बाष्पगद्गदम् ।
ज्ञानानि नः प्रणष्टानि श्रुत्वैतत्ते वचो नृप । । 106.४०
ततोऽन्यनगरेभ्यश्च भृत्यै राष्ट्रेभ्य एव च ।
ततस्तस्माच्च नगरात्प्राचुर्येणाभ्युपागमन् । । ४१
समुत्पत्य महीपालं तं यियासुं मुने वनम् ।
प्रकम्पिशिरसो भूत्वा प्रोचुर्ब्राह्मणसत्तमाः । । ४२
प्रसीद पाहि नो राजन्पालिताः स्म यथा पुरा ।
सीदिष्यत्यखिलो लोकस्त्वयि भूप वनाश्रये । । ४३
त्वं कुरुष्व तथा राजन्यथा नो सीदते जगत् ।
यावज्जीवामहे वीर स्वल्पकालमिमे वयम् । ।
नेच्छामश्च भवच्छून्यं द्रष्टुं सिंहासनं विभो । । ४४
मार्कण्डेय उवाच
इत्येवं तैस्तथान्यैश्च द्विजैः पौरपुरःसरैः ।
भूपैर्भृत्यैरमात्यैश्च राजा प्रोक्तः पुनः पुनः । । ४५
वनवासविनिर्बन्धं नोपसंहरते यदा ।
क्षमिष्यत्यन्तको नेति ददौ स च तदोत्तरम् । । ४६
ततोऽमात्याश्च भूपाश्च पौरवृद्धास्तथा द्विजाः ।
समेत्य मन्त्रयामासुः किमत्र क्रियतामिति । । ४७
तेषां मन्त्रयतां विप्र निश्चयोऽयमजायत ।
अनुरागवतां तत्र महीपालेऽतिधार्मिके । । ४८
सम्यग्ध्यानपरा भूत्वा प्रार्थयामः समाहिताः ।
तपसाराध्य भास्वन्तमायुरस्य महीपतेः । । ४९
तत्रैकनिश्चयाः कार्ये केचिद्गेहे च भास्करम् ।
सम्यगर्घोपचाराद्यैरुपहारैरपूजयन् । । 106.५०
अपरे मौनिनो भूत्वा ऋग्जापेन तथापरे ।
यजुषामथ साम्नां च तोषयाञ्चक्रिरे रविम् । । ५१
अपरे च निराहारा नदीपुलिनशायिनः ।
तपांसि चक्रुरिच्छंतो भास्कराराधनं द्विजाः । । ५२
अग्निहोत्रपराश्चान्ये रविसूक्तान्यहर्निशम् ।
जेपुस्तत्रापरे तस्थुर्भास्करे न्यस्तदृष्टयः । । ५३
इत्येवमतिनिर्बन्धं भास्कराराधनं प्रति ।
बहुप्रकारं चक्रुस्ते तं तं विधिमुपाश्रिताः । । ५४
तथा तु यततां तेषां भास्कराराधनं प्रति ।
सुदामा नाम गन्धर्व उपगम्येदमब्रवीत् । । ५५
यद्याराधनमिष्टं वो भास्करस्य द्विजातयः ।
तदेतत्क्रियतां येन भानुः प्रीतिमुपैष्यति । । ५६
तस्माद्गुरुविशालाख्यं वनं सिद्धनिषेवितम् ।
कामरूपे महाशैले गम्यतां तत्र वै लघु । । ५७
तस्मिन्नाराधनं भानोः क्रियतां सुसमाहितैः ।
सिद्धक्षेत्रं हितं तत्र सर्वकामानवाप्स्यथ । । ५८
मार्कण्डेय उवाच
इति ते तद्वचः श्रुत्वा गत्वा तत्काननं द्विजाः ।
ददृशुर्भास्वतस्तत्र पुण्यमायतनं शुभम् । । ५९
तत्र ते नियताहारा वर्णा विप्रादयो द्विज ।
धूपपुष्पोपहाराढ्या पूजां चक्रुरतन्द्रिताः । । 106.६०
पुष्पानुलेपनाद्यैश्च धूपगन्धादिकैस्तथा ।
जपहोमान्नदानाद्यं पूजनं ते समाहिताः । ।
कुर्वन्तस्तुष्टुवुर्ब्रह्मन्विवस्वन्तं द्विजातयः । । ६१
ब्राह्मणा ऊचुः
देवदानवयक्षाणां ग्रहाणां ज्योतिषामपि ।
तेजसाभ्यधिकं देवं व्रजाम शरणं रविम् । । ६२
दिवि स्थितं च देवेशं द्योतयन्तं समन्ततः ।
वसुधामन्तरिक्षं च व्याप्नुवन्तं मरीचिभिः । । ६३
आदित्यं भास्करं भानुं सवितारं दिवाकरम् ।
पूषाणमर्यमाणं च स्वर्भानुं दीप्तदीधितिम् । । ६४
चतुर्युगान्तकालाग्निदुष्प्रेक्ष्यं प्रलयान्तगम् ।
योगीश्वरमनन्तं च रक्तं पीतं सितासितम् । । ६५
ऋषीणामग्निहोत्रेषु यज्ञदेवेष्ववस्थितम् ।
व्रजाम शरणं देवं तेजोराशिं तमच्युतम् । ।
अक्षरं परमं गुह्यं मोक्षद्वारमनुत्तमम् । । ६६
छन्दोभिरश्वरूपैश्च सकृद्युक्तैर्विहङ्गमम् ।
उदयास्तमने युक्तं सदा मेरोः प्रदक्षिणे । । ६७
अनृतं च ऋतं चैव पुण्यतीर्थं पृथग्विधम् ।
विश्वस्थितिचिन्त्यं च प्रपन्नाः स्म प्रभाकरम् । । ६८
यो ब्रह्मा यो महादेवो यो विष्णुर्यः प्रजापतिः ।
वायुराकाशमापश्च पृथिवीगिरिसागराः । । ६९
ग्रहनक्षत्रचन्द्राद्या वानस्पत्यं द्रुमौषधम् ।
व्यक्ताव्यक्तेषु भूतेषु धर्माधर्मप्रवर्त्तकः । । 106.७०
ब्राह्मी माहेश्वरी चैव वैष्णवी चैव ते तनुः ।
त्रिधा यस्य स्वरूपं तु भानोर्भास्वान्प्रसीदतु । । ७१
यस्य सर्वमयस्येदमङ्गभूतं जगत्प्रभोः ।
स नः प्रसीदतां भास्वाञ्जगतां यश्च जीवनम् । । ७२
यस्यैकमक्षरं रूपं प्रभामण्डलदुर्दृशम् ।
द्वितीयमैन्दवं सौम्यं स नो भास्वान्प्रसीदतु । । ७३
ताभ्यां च तस्य रूपाभ्यामिदं विश्वं विनिर्मितम् ।
अग्नीषोममयं भास्वान्स नो देवः प्रसीदतु । । ७४
मार्कण्डेय उवाच
इत्थं स्तुत्या तदा भक्त्या सम्यक्पूजाविधानतः ।
तुतोष भगवान्भास्वांस्त्रिभिर्मासैर्द्विजोत्तम । । ७५
ततः स मण्डलादुद्यन्निजबिम्बसमप्रभः ।
अवतीर्य ददौ तेभ्यो दुर्दृशो दर्शनं रविः । । ७६
ततस्ते स्पष्टरूपं तं सवितारमजं जनाः ।
पुलकोत्कम्पिनो विप्रा भक्तिनम्राः प्रणेमिरे । । ७७
नमो नमस्तेऽस्तु सहस्ररश्मे सर्वस्य हेतुस्त्वमशेषकेतुः ।
पाता त्वमीड्योऽखिलयज्ञधामध्येयस्तथा योगविदां प्रसीद । । ७८
इति श्रीमार्कण्डेयपुराणे भानुस्तवो नाम षडधिकशततमोऽध्यायः । १०६ ।
107
अथ सप्ताधिकशततमोऽध्यायः
भानोर्माहात्म्यवर्णनम्
मार्कण्डेय उवाच
ततः प्रसन्नो भगवान्भानुराहाखिलाञ्जनान् ।
व्रियतां यदभिप्रेतं मत्तः प्राप्तुं द्विजादयः । । १
मार्कण्डेय उवाच
ततस्ते प्रणिपत्योचुर्विप्रक्षत्रादयो जनाः ।
ससाध्वसमशीतांशुमवलोक्य पुरः स्थितम् । । २
प्रजा ऊचुः
भगवन्यदि नो भक्त्या प्रसन्नस्तिमिरापह । । ३
दश वर्षसहस्राणि ततो नो जीवतां नृपः ।
निरामयो जितारातिः सुकोशः स्थिरयौवनः । । ४
मार्कण्डेय उवाच
तथेत्युक्त्वा जनान्भास्वानदृश्योऽभून्महामुने ।
तेऽपि लब्धवरा हृष्टाः समाजग्मुर्जनेश्वरम् । । ५
यथा वृत्तं च ते तस्मै नरेन्द्राय न्यवेदयन् ।
वरं लब्ध्वा सहस्रांशो सकाशादखिलं द्विज । । ६
तच्छ्रुत्वा जहृषे तस्य सा पत्नी मानिनी द्विज ।
(प्रहर्षं परमं याता हर्षोद्गततनूरुहा) । ।
स च राजा चिरं दध्यौ नाह किञ्चिच्च तं जनम् । । ७
ततः सा मानिनी भूपं हर्षापूरितमानसा ।
दिष्ट्याऽऽयुषा महीपाल वर्द्धस्वेत्याह तं पतिम् । । ८
तथा तया मुदा भर्ता मानिन्याथ सभाजितः ।
नाहं किञ्चिन्महीपालश्चिन्ताजडमनाद्विज । । ९
सा पुनः प्राह भर्त्तारं चिन्तयानमधोमुखम् ।
कस्मान्न हर्षमभ्येषि परमाभ्युदये नृप । । 107.१०
दशवर्षसहस्राणि नीरुजः स्थिरयौवनः ।
भावी त्वमद्यप्रभृति किं तथापि न हृष्यसे । । ११
किन्तु तत्कारणं ब्रूहि यच्चिन्ताकृष्टमानसः ।
परमाभ्युदयेऽपि त्वं सम्प्राप्ते पृथिवीपते । । १२
राजोवाच
कथमभ्युदयो भद्रे किं सभाजयसे च माम् ।
प्राप्तो दुःखसहस्राणां किं सभाजनमिष्यते । । १३
दशवर्षसहस्राणि जीविष्याम्यहमेककः ।
न त्वं तव विपत्तौ मे किन्न दुःखं भविष्यति । । १४
पुत्रान्पौत्रान्प्रपौत्रांश्च तथान्यानिष्टबान्धवान् ।
पश्यतो मे मृतान्दुःखं किमल्पं हि भविष्यति । । १५
भृत्येषु चातिभक्तेषु मित्रवर्गे तथा मृते ।
भद्रे दुःखमपारं मे भविष्यति तु सन्ततम् । । १६
यैर्मदर्थं तपस्तप्तं कृशैर्धमनिसन्ततैः ।
ते मरिष्यन्त्यहं भोगी जीविष्यामीति धिक्करम् । । १७
सेयमापद्वरारोहे प्राप्ता नाभ्युदयो मम ।
कथं वा मन्यसे न त्वं यत्सभाजयसेऽद्य माम् । । १८
मानिन्युवाच
महाराज यथात्थ त्वं तथैतन्नात्र संशयः ।
मया पौरैश्च दोषोऽयं प्रीत्या नालोकितस्तव । । १९
एवं गतेऽत्र किं कार्यं नरनाथ विचिन्त्यताम् ।
नान्यथा भावि यत्प्राह प्रसन्नौ भगवान्रविः । । 107.२०
राजोवाच
उपकारः कृतः पौरैः प्रीत्या भृत्यैश्च यो मम ।
कथं भोक्ष्याम्यहं भोगान्गत्वा तेषामनिष्कृतिम् । । २१
सोऽहमद्यप्रभृत्यद्रिं गत्वा नियतमानसः ।
( पौरलोकहितार्थं च तोषयिष्यामि भास्करम् । ।
यथा पौरा मम कृते बान्धवाश्च समन्ततः ।
आराधनाय देवेशं तथाहमपि साम्प्रतम्) । ।
तपस्तप्स्ये निराहारो भानोराराधनोद्यतः । । २२
दशवर्षसहस्राणि यथाहं स्थिरयौवनः ।
तस्य प्रसादाद्देवस्य जीविष्यामि निरामयः । । २३
तथा यदि प्रजाः सर्वा भृत्यास्त्वं च सुताश्च मे ।
पुत्रा पौत्रा प्रपौत्राश्च सुहृदश्च वरानने । । २४
जीवन्त्येतं प्रसादं च करोति भगवान्रविः ।
ततोऽहं भविता राज्ये भोक्ष्ये भोगांस्तथा मुदा । । २५
न चेदेवं करोत्यर्कस्तदाद्रौ तत्र मानिनि ।
तपस्तप्स्ये निराहारो यावज्जीवितसंक्षयः । । २६
मार्कण्डेय उवाच
इत्युक्ता सा तदा तेन तथेत्याह नराधिपम् ।
जगाम तेन च समं साऽपि तं धरणीधरम् । । २७
स तदायतनं गत्वा भार्यया सह पार्थिवः ।
भानोराराधनं चक्रे शुश्रूषानिरतो द्विज । । २८
निराहारा कृशा सा च यथासौ पृथिवीपतिः ।
तेपे तपस्तथैवोग्रं शीतवातातपक्षमा । । २९
तस्य पूजयतो भानुं तप्यतश्च तपो महत् ।
साग्रे सम्वत्सरे याते ततः प्रीतो दिवाकरः । । 107.३०
समस्तभृत्यपौरादिपुत्राणां च कृते द्विज ।
ददौ यथाभिलषितं वरं द्विजवरोत्तम । । ३१
लब्ध्वा वरं स नृपतिः समभ्येत्यात्मनः पुरम् ।
चकार मुदितो राज्यं प्रजा धर्मेण पालयन् । । ३२
ईजे यज्ञान्स च बहून्ददौ दानान्यहर्निशम् ।
मानिन्या सहितो भोगान्बुभुजे च स धर्मवित् । । ३३
दश वर्षसहस्राणि पुत्रपौत्रादिभिः सह ।
भृत्यैः पौत्रैः प्रमुदितः सोऽभवत्स्थिरयौवनः । । ३४
तस्येति चरितं दृष्ट्वा प्रमतिर्नाम भार्गवः ।
विस्मयाकृष्टहृदयो गाथामेतामगायत । । ३५
भानुभक्तेरहो शक्तिर्यद्राजा राज्यवर्द्धनः ।
आयुषो वर्द्धने जातः स्वजनस्य तथात्मनः । । ३६
इति ते कथितं विप्र यत्पृष्टोऽहं त्वयोदितः ।
आदिदेवस्य माहात्म्यमादित्यस्य विवस्वतः । । ३७
विप्रैतदखिलं श्रुत्वा भानोर्माहात्म्यमुत्तमम् ।
पठंश्च मुच्यते पापैः सप्तरात्रकृतैर्नरः । । ३८
अरोगी धनवानाढ्यः कुले महति धीमताम् ।
जायते च महाप्राज्ञो यश्चैतद्धारयेद्बुधः । । ३९
( यजते च महायज्ञैः समाप्तवरदक्षिणः ।
श्रुत्वा चरितमेतद्धि समानं लभते फलम् । ।
मन्त्राश्च येऽत्राभिहिता भास्वतो मुनिसत्तम ।
जपः प्रत्येकमेतेषां त्रिसंध्यं पातकापहः । । 107.४०
समस्तमेतन्माहात्म्यं यत्र चायतने रवेः ।
पठ्यते तत्र भगवान्सान्निध्यं न विमुञ्चति । । ४१
तस्मादेतत्त्वया ब्रह्मन्भानोर्माहात्म्यमुत्तमम् ।
धार्यं मनसि जाप्यं च महत्पुण्यमभीप्सता । । ४२
सुवर्णशृङ्गीमतिशोभनाङ्गीं पयस्विनीं गां प्रददाति यो हि ।
शृणोति चैतत्त्र्यहमात्मवान्नरः समं तयोः पुण्यफलं द्विजाग्र्य । । ४३
इति श्रीमार्कण्डेयपुराणे भानोर्माहात्म्यवर्णनं नाम सप्ताधिकशततमोऽध्यायः । १०७ ।
108
अथाष्टाधिकशततमोऽध्यायः
वंशानुक्रमवर्णनम्
मार्कण्डेय उवाच
एवंप्रभावो भगवाननादिनिधनो रविः ।
यस्य त्वं क्रौष्टुके भक्त्या माहात्म्यं परिपृच्छसि । । १
परमात्मा स योगिनां युञ्जतां चेतसां लयम् ।
क्षेत्रज्ञः सांख्ययोगानां यज्ञेशो यज्विनामपि । । २
सूर्याधिकारं वहतो विष्णोरीशस्य वेधसः ।
मनुस्तस्याभवत्पुत्रश्छिन्नसर्वार्थसंशयः । । ३
मन्वन्तराधिपो विप्र यस्य सप्तममन्तरम् ।
इक्ष्वाकुर्नाभगो रिष्टो महाबलपराक्रमः । । ४
नरिष्यन्तोऽथ नाभागः पृषध्रो धृष्ट एव च ।
एते पुत्रा मनोस्तस्य पृथग्राज्यस्य पालकाः । । ५
विख्यातकीर्त्तयः सर्वे सर्वे शस्त्रास्त्रपारगाः ।
विशिष्टतरमन्विच्छन्मनुः पुत्रं तथा पुनः । । ६
मित्रावरुणयोरिष्टिं चकार कृतिनां वरः ।
यत्र चापहुते होतुरपचारान्महामुने । । ७
इला नाम समुत्पन्ना मनोः कन्या सुमध्यमा ।
तां दृष्ट्वा कन्यकां तत्र समुत्पन्नां ततो मनुः । । ८
तुष्टाव मित्रावरुणौ वाक्यं चेदमुवाच ह ।
भवत्प्रसादात्तनयो विशिष्टो मे भवेदिति । । ९
कृते मखे समुत्पन्ना तनया मम धीमतः ।
यदि प्रसन्नौ वरदौ तदियं तनया मम । । 108.१०
प्रसादाद्भवतो पुत्रो भवत्वतिगुणान्वितः ।
तथेति चाभ्यामुक्ते देवाभ्यां सैव कन्यका । । ११
इला समभवत्सद्यः सुद्युम्न इति विश्रुतः ।
पुनश्चेश्वरकोपेन मृगयामटता वने । । १२
स्त्रीत्वमासादितं तेन मनुपुत्रेण धीमता ।
पुरूरवसनामानं चक्रवर्तिनमूर्जितम् । । १३
जनयामास तनयं यत्र सोमसुतो बुधः ।
जाते सुते पुनः कृत्वा सोऽश्वमेधं महाक्रतुम् । । १४
पुरुषत्वमनुप्राप्तः सुद्युम्नः पार्थिवोऽभवत् ।
सुद्युम्नस्य त्रयः पुत्रा उत्कलो विनयो गयः । । १५
पुरुषत्वे महावीर्या यज्विनः पृथुलौजसः ।
पुरुषत्वे तु ये जातास्तस्य राज्ञस्त्रयः सुताः । । १६
बुभुजुस्ते महीमेतां धर्मे नियतचेतसः ।
स्त्रीभूतस्य तु यो जातस्तस्य राज्ञः पुरूरवाः । । १७
न स लेभे महाभागं यतो बुधसुतो हि सः ।
ततो वसिष्ठवचनात्प्रतिष्ठानं पुरोत्तमम् । ।
तस्मै दत्तं स राजाभूत्तत्रातीव मनोहरे । । १८
इति श्रीमार्कण्डेयपुराणे वंशानुक्रमो नामाष्टाधिकशततमोऽध्यायः । १०८ ।
109
अथ नवाधिकशततमोऽध्यायः
पृषध्रोपाख्यानवर्णनम्
मार्कण्डेय उवाच
पृषध्राख्यो मनोः पुत्रो मृगयामगमद्वनम् ।
तत्र चंक्रममाणोऽसौ विपिने निर्जने वने । । १
नाससाद मृगं कञ्चिद्भानुदीधितितापितः ।
क्षुत्तृट्तापपरीताङ्गः इतश्चेतश्च चंक्रमन् । । २
स ददर्श तदा तत्र होमधेनुं मनोहराम् ।
लतान्तर्देहछिन्नार्धां ब्राह्मणस्याग्निहोत्रिणः । । ३
स मन्यमानो गवयमिषुणा तामताडयत् ।
पपात सापि तद्बाणविभिन्नहृदया भुवि । । ४
ततोऽग्निहोत्रिणः पुत्रो ब्रह्मचारी तपोरतिः ।
शप्तवान्स पितुर्दृष्ट्वा होमधेनुं निपातिताम् । । ५
गोपालः प्रेषितः पुत्रो बाभ्रव्यो नाम नामतः ।
कोपामर्षपराधीनचित्तवृत्तिस्ततो मुने । । ६
चुकोप विगलत्स्वेदजललोलाविलेक्षणः ।
तं क्रुद्धं प्रेक्ष्य स नृपः पृषध्रो मुनिदारकम् । । ७
प्रसीदेति जगौ कस्माच्छूद्रवत्कुरुषे रुषम् ।
न क्षत्रियो न वा वैश्य एवं क्रोधमुपैति वै । ।
यथा त्वं शूद्रवज्जातो विशिष्टे ब्रह्मणः कुले । । ८
मार्कण्डेय उवाच
इति निर्भत्सितस्तेन स राज्ञा मौलिनः सुतः ।
शशाप तं दुरात्मानं शूद्र एव भविष्यसि । । ९
प्रयास्यति क्षयं ब्रह्मन्यत्तेऽधीतं गुरोर्मुखात् ।
होमधेनुर्मम गुरोर्यदियं हिंसिता त्वया । । 109.१०
एवं शप्तो नृपः क्रुद्धस्तच्छापपरिपीडितः ।
प्रतिशापपरो विप्र तोयं जग्राह पाणिना । । ११
सोऽपि राज्ञो विनाशाय कोपं चक्रे द्विजोत्तमः ।
तमभ्येत्य त्वरायुक्तो वारयामास वै पिता । । १२
वत्सालमलमत्यर्थं कोपेनातीव वैरिणा ।
ऐहिकामुष्मिकहितः शम एव द्विजन्मनाम् । । १३
कोपस्तपो नाशयति क्रुद्धो भ्रश्यत्यथायुषः ।
क्रुद्धस्य गलते ज्ञानं क्रुद्धश्चार्थाच्च हीयते । । १४
न धर्मः क्रोधशीलस्य नार्थं चाप्नोति रोषणः ।
नालं सुखाय कामास्ति कोपेनाविष्टचेतसाम् । । १५
यदि राज्ञा हता धेनुरियं विज्ञानिना सता ।
युक्तमत्र दयां कर्तुमात्मनो हितबोधिना । । १६
अथवाऽजानता धेनुरियं व्यापादिता मम ।
तत्कथं शापयोग्योऽयं दुष्टं नास्य मनो यतः । । १७
आत्मनो हितमन्विच्छन्बाधते योऽपरं नरः ।
कर्तव्या मूढविज्ञाने दया तत्र दयालुभिः । । १८
अज्ञानतः कृते दण्डं पातयन्ति बुधा यदि ।
बुधेभ्यस्तमहं मन्ये वरमज्ञानिनो नराः । । १९
नाद्य शापस्त्वया देयः पार्थिवस्यास्य पुत्रक ।
स्वकर्मणैव पतिता गौरेषा दुःखमृत्युना । । 109.२०
मार्कण्डेय उवाच
पृषध्रोऽपि मुनेः पुत्रं प्रणम्यानम्रकन्धरः ।
प्रसीदेति जगादोच्चैरज्ञानाद्घातितेति च ।।२ १
मया गवयबुद्ध्या गौरवध्या घातिता मुने ।
अज्ञानाद्धोमधेनुस्ते प्रसीद त्वं च नो मुने ।।२२
ऋषिपुत्र उवाच
आजन्मनो महीपाल न मया व्याहतं मृषा ।
क्रोधश्चाद्य महाभाग नान्यथा मे कदाचन ।।२३
तन्नाहमेनं शक्नोमि शापं कर्तुं नृपान्न्यथा ।
यस्ते समुद्यतः शापो द्वितीयः स निवर्तितः ।।२४
इत्युक्तवन्तं तं बालमादाय स पिता ततः ।
जगाम स्वाश्रमं सोऽपि पृषध्रः शूद्रतामगात् ।।२५
इति श्रीमार्कण्डेयपुराणे वंशानुचरिते पृषध्रोपाख्याने नवाधिकशततमोऽध्यायः । १ ०९।
110
अथ दशाधिकशततमोऽध्यायः
नाभागाख्यानवर्णनम्
मार्कण्डेय उवाच
कारुषाः क्षत्रियाः शूराः करुषस्याभवन्सुताः ।
ते तु सप्तशतं वीरास्तेभ्यश्चान्ये सहस्रशः ।। १
दिष्टपुत्रस्तु नाभागः स्थितः प्रथमयौवने ।
ददर्श वैश्यतनयामतीव सुमनोहराम् ।।२
तस्यां संदृष्टमात्रायां मदनाक्षिप्तमानसः ।
बभूव भूपतनयो निःश्वासाक्षेपतत्परः ।।३
तस्याः स गत्वा जनकं वव्रे तां वैश्यकन्यकाम् ।
ततोऽनङ्गपराधीनमनोवृत्तिं नृपात्मजम् । । ४
तं चाह स पिता तस्या राजपुत्रं कृताञ्जलिः ।
बिभ्यत्तस्य पितुर्विप्र प्रश्रयावनतं वचः । । ५
भवन्तो भूभुजो भृत्या वयं वः करदायकाः ।
कथं सम्बन्धमसमैरस्माभिरभिवाच्छसि । । ६
राजपुत्र उवाच
साम्यं मानुषदेहस्य काममोहादिभिः कृतम् ।
तथापि काले तैरेव योज्यते मानुषं वपुः । । ७
तथैव चोपकाराय जायन्ते तस्य तान्यपि ।
अन्यानि चान्ये जीवन्ति भिन्नजातिमतां सताम् । । ८
तथान्यान्यप्ययोग्यानि योग्यतां यान्ति कालतः ।
योग्यान्ययोग्यतां यान्ति कालवश्या हि योग्यता । । ९
आप्याय्यते यच्छरीरमाहारादिभिरीप्सितैः ।
कालं ज्ञात्वा तथा भुक्तं तदेव परिशिष्यते । । 110.१०
इत्थं ममैषाभिमता तनया दीयतां त्वया ।
अन्यथा मच्छरीरस्य विपत्तिरुपलक्ष्यते । । ११
वैश्य उवाच
परतन्त्रा वयं त्वं च परतन्त्रो महीभुजः ।
पित्रा तेनाभ्यनुज्ञातस्त्वं गृहाण ददाम्यहम् । । १२
राजपुत्र उवाच
प्रष्टव्या सर्वकार्येषु गुरवो गुरुवर्तिभिः ।
न त्वीदृशेष्वकार्येषु गुरूणां वाक्यगोचरः । । १३
क्व मन्मथ कथालापो गुरूणां श्रवणं क्व च ।
विरुद्धमेतदन्यत्र प्रष्टव्या गुरवो नृभिः । । १४
वैश्य उवाच
एवमेतत्स्मरालापस्तवायं पृच्छ मा गुरुम् ।
अहं पृच्छामि नालापो मम कामकथाश्रयः । । १५
मार्कण्डेय उवाच
इत्युक्तः सोऽभवन्मौनी राजपुत्रः स चापि तत् ।
तत्पित्रे सर्वमाचष्ट राजपुत्रस्य यन्मतम् । । १६
ततस्तस्य पिता विप्रानृचीकादीन्द्विजोत्तमान् ।
प्रवेश्य राजपुत्रं च यथाख्यानं न्यवेदयत् । । १७
निवेद्य च ततः प्राह मुनीनेवं व्यवस्थिते ।
यत्कर्तव्यं तदादेष्टुमर्हन्ति द्विजसत्तमाः । । १८
ऋषयः ऊचु
राजपुत्रानुरागस्ते यद्यस्यां वैश्यसन्ततौ ।
तदस्तु धर्म एवैष किं तु न्यायक्रमेण सः । । १९
मूर्धाभिषिक्ततनयापाणिग्राहोत्सवः पुरा ।
भवत्वनन्तरं चेयं तव भार्या भविष्यति । । 110.२०
एवं न दोषो भवति तथेमामुपभुञ्जतः ।
अन्यथाऽभ्येति ते जातिरुत्कृष्टा बालकानयात् । । २१
मार्कण्डेय उवाच
इत्युक्तस्तदपास्येव वचस्तेषां महात्मनाम् ।
विनिष्क्रम्य गृहीत्वा तामुद्यतासिरथाब्रवीत् । । २२
राक्षसेन विवाहेन मया वैश्यसुता हृता ।
यस्य सामर्थ्यमत्रास्ति स एतां मोचयत्विति । । २३
ततः स वैश्यस्तां दृष्ट्वा गृहीतां तनयां द्रुतम् ।
त्राहीति पितरं तस्य प्रययौ शरणं द्विज । । २४
ततस्तस्य पिता क्रुद्ध आदिदेश बलं महत् ।
हन्यतां हन्यतां दुष्टो नाभागो धर्मदूषकः । । २५
ततस्तद्युयुधे सैन्यं तेन भूभृत्सुतेन वै ।
कृतास्त्रेण तदास्त्रेण तत्प्राचुर्येण पातितम् । । २६
स श्रुत्वा निहतं सैन्यं राजपुत्रेण भूपतिः ।
स्वयमेव ययौ योद्धुं स्वसैन्यपरिवारितः । । २७
ततो युद्धमभूत्तस्य भूभुजः स्वसुतेन यत् ।
राजपुत्रेण शस्त्रास्त्रैस्तत्रातिशयितः पिता । । २८
ततोऽन्तरिक्षादागत्य परिव्राट् सहसा मुनिः ।
प्रत्युवाच महीपालं विरमस्वेति संयुगात् । । २९
त्वत्पुत्रस्य महाभाग विधर्मोऽयं महात्मनः ।
तवापि वैश्येन सह न युद्धं धर्मवन्नृप । । 110.३०
ब्राह्मण्या ब्राह्मणः पूर्वं कुर्वन्दारपरिग्रहम् ।
ब्राह्मण्यात्सर्ववर्णेषु न हानिमुपगच्छति । । ३१
तथैव क्षत्रियसुतां क्षत्रियः पूर्वमुद्वहन् ।
इतरे च ततो राजंश्च्यवते न स्वधर्मतः । । ३२
पूर्वं वैश्यस्तथा वैश्यां पश्चाच्छूद्रकुलोद्भवाम् ।
न हीयते वैश्यकुलादयं न्यायः क्रमोदितः । । ३३
ब्राह्मणः क्षत्रिया वैश्याः सवर्णापाणिसंग्रहम् ।
अकृत्वाऽन्यभवापाणेः पतन्ति नृप संग्रहात् । । ३४
यस्या यस्या हि हीनाया कुरुते पाणिसंग्रहम् ।
अकृत्वा वर्णसयोगं सोऽपि तद्वर्णभाग्भवेत् । । ३५
सोऽयं वैश्यत्वमापन्नस्तव पुत्रः सुमन्दधीः ।
नास्याधिकारो युद्धाय क्षत्रियेण त्वया सह । । ३६
वयमेतन्न जानीमः कारणं नृपनन्दन ।
यथा भविष्यतीदं च निवर्त्त रणकर्मतः । । ३७
इति श्रीमार्कण्डेयपुराणे वंशानुचरिते नाभागाख्यानं नाम दशाधिकशततमोऽध्यायः । ११० ।