← चतुर्थोऽङ्कः मृच्छकटिकम्
पञ्चमोऽङ्कः
शूद्रकः
षष्ठोऽङ्कः →

पञ्चमोऽङ्कः

( ततः प्रविशत्यासनस्थः सोत्कण्ठश्चारुदत्तः )

 चारुदत्तः–( ऊर्ध्वमवलोक्य ) उन्नमत्यकालदुर्दिनम् । यदेतत्

आलोकितं गृहशिखण्डिभिरुत्कलापै-
हसैर्यियासुभिरपाकृतमुन्मनस्कः ।
आकालिकं सपदि दुर्दिनमन्तरीक्ष-
मुत्कण्ठितस्य हृदयं च समं रुणद्धि ॥ १।।

अपि च,-

मेघो जलार्द्रमहिषोदरभृङ्गनीलो
विद्युत्प्रभाररचितपीनपटोत्तरीयः।
आभाति संहृतबलाकगृहीतशङ्खः
खं केशवोऽपर इवाक्रमितुं प्रवृत्तः ॥ २ ॥


पूर्वाङ्गेऽङ्कावतारेणैव सूचितस्य प्रकरणनायकस्य प्रवेशः । तथा चोक्तम् प्रवेशधूलिका चैव तथा विष्कम्भोऽपरः । अङ्कावतारोऽङ्कमुखमर्थोपक्षे- पपञ्चकम् ॥' इति । प्रवेशयतीति प्रवेशः । पचाद्यच् । प्रवेशको ण्वुलन्त उच्यते । अधमपाप्रयोज्यः प्रवेशकः । तदुक्तम्----‘भृत्यवर्गकथावच्च कर्तव्यस्तु प्रवेशकः । अन्तर्जवनिकासंस्थैस्तथा मागधबन्दिभिः ॥ अपक्षेपणं यत्र क्रियते स हि चूलिको । विष्कम्भस्तु द्विधा सोऽयं शुद्धः संकीर्ण एव च । शुद्धो मध्यमपात्रेण संकीर्णो मध्यमाधमैः ॥” इति । आलोकितमिति । अपाकृतं निरस्तम् । अनभिनन्दितमिति यावत् ॥ १ ॥ मेघ इति । 'बलाक'शब्दः पुंलिङ्गोऽप्येषां


टिप्प,---1 अत्राङ्के तावत् आ समाप्ति वर्षर्तुवर्णने चारुदत्तेन वसन्तसेनाय . विटेन च यथायथं क्रियते । तदिदं वसन्तसेना-चारुदत्तयोरन्योन्यानुरागोद्दीपनविभाव- त्वेनावतरतीति बोध्यम् । एतद्वियति दृश्यमानमकालिकं यद्दुर्दिनं मेघाच्छन्नं दिनं तदवलोकितम्, तेन विरहिणां चेतस: कातरत्वं प्रियमिलनौत्सुक्यं च भवतीत्या- शयः। 2 जलार्द्रमहिषस्योदरं षस्योदरं भृङ्गश्च ततद्वन्नीलः । गज़महिषादीनां स्वतः श्यामत्वेऽपि जलार्द्रतयामतिश्यामत्वमुदरप्रदेशे चाधिकतरमिति द्रष्टव्यम् । 3 वामनावतारे श्रीहरि र्यथा गगनमाक्रमितुं प्रवृत्तः सन् रराज तद्वन्मेघ इति पूर्णोपमालंकारः ।। अपि च,--

केशवगात्रश्यमः कुटिलबलाकावलीरचितशङ्खः ।
विद्युद्गुणकौशेयश्चक्रधर इवोन्नतो मेघः ॥ ३ ॥

एता निषिक्तरजतद्रवसंनिकाशा
धारा जवेन पतिता जलदोदरेभ्यः ।
विद्युत्प्रदीपशिखया क्षणनष्टद्दष्टा-
 श्छिन्ना इवाम्बरपटस्य दशाः पतन्ति ॥ ४ ॥

संसक्तैरिव चक्रवाकमिथुनैर्हंसैः प्रडीनैरिव
व्याविद्धैरिव मीनचक्रमकरैर्हर्म्यैरिव प्रोञ्छितैः ।
तैस्तैराकृतिविस्तरैरनुगतैर्मेघैः समभ्युन्नतैः
पत्रच्छेद्यमिवेह भाति गगनं विश्लेषितैर्वायुना ॥ ५ ॥

 एतत् तद् धृतराष्ट्रवक्त्रसदृशं मेघान्धकारं नभो ।
हृष्टो गर्जति चातिदर्पितबलो दुर्योधनो वा शिखी ।
अक्षद्यूतजितो युधिष्ठिर इवाध्वानं गतः कोकिलो ।
हंसाः संप्रति पाण्डवा इव वनादज्ञातचर्यां गताः ॥ ६ ॥

( विचिन्त्य ) चिरं खलु कालो मैत्रेयस्य वसन्तसेनायाः सकाशं गतस्य । नाद्याप्यागच्छति ।

( प्रविश्य )

 विदूषकः--अहो गणिआए लोभो अदक्खिणदा अ, जदो ण कधा वि किदा अण्णा । अणेकहा सिणेहाणुसारं भणिअ किं पि, एवमे गहिदा रअणावली । एत्तिए ऋद्धीए ण तए अहं भणिदो -अज्ज-


संमतः । खं आकाशम् ॥ २ ॥ केशवेति ।। ३ ।। एता इति । निषिक्तं द्रावितम् ॥ ४ ॥ संसक्तैरिति । प्रडीनैरिति कर्मणि क्तः ( ? )। व्याविद्धै- र्भ्रान्तैः । चक्रं समूहः । पत्रस्य छेदः खण्डनं विचलं (?) यत्र चित्रे तत्पत्रछेद्यं चित्रम् । तदिव गगनं शोभते ॥ ५ ॥ एतदिति । धृतराष्ट्रवक्त्रसदृशं नष्टच- न्द्रार्कत्वात् । वा इवार्थे । शिखी मयूरः । वनादिति त्यलोपे कर्मणि पञ्चमी ।


पाठा०---१ अणाअरेण जेब्व अभणिअ (=अनादरेणैवाभणित्वा ). मित्तेअ ! वीसमीअदु । मल्लकेण पाणीअं पि पिबिअ गच्छीअदु’ त्ति ।। ता मा दाव दासीए धीआए गणिआए मुहं पि पेक्खिस्सं । ( सनिर्वेदम्) सुट्ठु खु वुच्चदि---‘अकंदसमुत्थिदा पउमिणी, अवंचओ वाणिओ, अचोरो सुवण्याआरो, अकलहो गामसमागमो, अलुद्धा गणिआ त्ति दुक्करं एदे संभावीअंति' । ता पिअवअस्सं गदुअ इमादो गणिआपसं- गादो णिवत्तावेमि । ( परिक्रम्य, दृष्ट्वा) कथं पिअवअस्सो रुक्खवाडिआए अवविट्टो चिट्ठदि १ ता जाव उवसप्यामि । ( उपसृत्य ) सोत्थि भवदे । वड्ढ्दु भवं। [ अहो गणिकाया लोभोऽदक्षिणता च । यतो न कथापि कृता- ऽन्या । अनेकधा स्नेहानुसारं भणित्वा किमपि, एवमेव गृहीता रत्नावली । एता- वत्या ऋद्ध्या न तयाहं भणितः–'आर्यमैत्रेय! विश्रम्यताम्, मल्लकेन पानी- यमपि पीत्वा गम्यताम्' इति । तन्मा तावद्दास्याःपुत्र्या गणिकाया मुखमपि द्रक्ष्यामि । सुष्टु खलूच्यते---‘अकन्दसमुत्थिता पद्मिनी, अवञ्चको वणिक्, अचौरः सुवर्णकारः, अकलहो ग्रामसमागमः, अलुब्धा गणिकेति दुष्करमेते संभाव्यन्ते । तप्रियवयस्यं गत्वास्माद्गणिकाप्रसङ्गान्निवर्तयामि । कथं प्रियव- यस्यो वृक्षवाटिकायामुपविष्टस्तिष्ठति ? । तद्यावदुपसर्पमि । स्वस्ति भवते । वर्धत भवान्।]

 चारुदत्तो--( विलोक्य ) अये, सुहृन्मे मैत्रेयः प्राप्तः । वयस्य ! स्वागतम् , आस्यताम् ।।

 विदूषकः---उवविट्टो म्हि । [उपविष्टोऽस्मि ।]

 चारुदत्तः--वयस्य [ कथय तत्कार्यम् ]

 विदूषकः-तं खु कज्जं विणट्टं । [ तत्खलु कार्य विनष्टम् ।]

 चारुदत्तः किं तया न गृहीता रत्नावली ? ।


वनं प्राप्येत्यर्थः ॥ ६ ॥ अणेकहा सणेहाणुसारं भणिअ अनेकधा स्नेहानुसारं भणित्वा । पाठान्तरेणैव कथा कथं हरितमलंकारभाण्डमित्यादिका । नैव कथा विदूषकः–कुदो अम्हाणं एत्तिअं भाअधेअ ? । णवणलिण- कोमलं अंजलिं मत्थए कदुअ पडिच्छिआ । [ कुतोऽस्माकमेतावमागधे- यम् ? । नवनलिनकोमलमञ्जलिं मस्तके कृत्वा प्रतीष्टा ।]

 चारुदत्तः-तत्किं ब्रवीषि विनष्टमिति १ ।।

 विदुषकः---भो ! कधं ण विणट्टं ? जं अभुत्तपीदस्स चोरेहि अवहिदस्स अप्पमुल्लस्य सुवण्णभंडअस्स कारणोदो चतुस्समुदृसारभूदा रअणमाला हारिदा । [ भोः ! कथं न विनष्टम् ? यदभुक्तपीतस्य चौरैरप- हृत्स्याल्पमूल्यस्य सुवर्णभण्डय कारणाश्चतुःसमुद्रसारभूता रत्नमाला हारिता ।]

 चारुदत्त---वयस्य ! मा मैवम्;

यं समालम्ब्य विश्वासं न्यासोऽस्मासु तया कृतः।
तस्यैतन्महतो मूल्यं प्रत्ययस्यैष दीयते ॥ ७

 विदूषकः--भो वअस्स ! एदं पि मे दुदिनं संदावकारणं जं सहीअणदिण्णसण्णाए पडंतोवारिदं मुहं कदुअ अहं उवहसिदो । ती अहं बम्हणे भविअ दाणि भवंतं 'सीसेण पडिअ विण्णवेमि---णिव- तीअद् अप्पा इमादो बहुपञ्चवाआदो गणिआपसंगादो' । गणिआ णाम पादुअंतरप्पविट्ठा विअ लेट्टुआ दुक्खेण उण णिराकरीअदि । अवि अ, भो वअस्स ! गणिआ हृत्थी काअत्थओ मिक्खु चाटो रासहो अ जहिं एदे णिवसंति तहिं दुट्टा वि ण जाअंति। [ भो वयस्य ! एतदपि मे द्वितीयं संतापकारणं यसखीजनदत्तसंज्ञया पटान्तापवारितं मुखं कृत्वाऽह-


नुसारः कृतोऽस्या रत्नावल्या भाव (१) इत्यादिकः । मल्लको भाजनविशेषः । तन्मा तावत् । यद्भोजनाद्यर्थमपि न तथा भक्तिोऽहम् ॥ यदभुक्तपीतस्य चौरै- रेवापहृतस्याल्पमूल्यस्य ॥ यमिति ॥ ७ ॥ यत्सखीजनदत्तसंज्ञया पटान्तापवा- टिप्प०--..-1 ब्राह्मणो महत्कार्यं विना न कमपि साष्टाङ्गं प्रणमतीत्याशयेनोक्तिरियम् । मुपहसितः । तदहं ब्राह्मणो भूत्वेदानीं भवन्तं शीर्षेण पतित्वा विज्ञापयामि निवर्यतामात्मास्माद्वहुप्रत्यवायाद्वणिकाप्रसङ्गात्' । गणिका नाम पादुका- न्तरप्रविष्टेव लेष्टुका दुःखेन पुनर्निराक्रियते । अपि ध, भो वयस्य ! गणिका, हस्ती, कायस्थो भिक्षुः, चाटो रासभश्च यत्रैते निवसन्ति तत्र दुष्टा अपि न जायन्ते ।।

 चारुदत्तः-वयस्य ! अलमिदानीं सर्वं परिवादमुक्त्वा । अवस्थ- यैवास्मि निवारितः । पश्य

वेगं करोति तुरगस्त्वरितं प्रयातुं
प्राणव्ययान्न चरणास्तु तथा वहन्ति ।
सर्घत्र यान्ति पुरुषस्य चलाः स्वभावाः
खिन्नास्ततो हृदयमेव पुनर्विशन्ति ॥ ८॥

अपि च, वयस्य ।

यस्यार्थास्तस्य सा कान्ता धनहार्यो ह्यसौ जनः ।

(खगतम् ) न गुणहार्यो ह्यसौ जनः । (प्रकाशम् )

वयमथैः परित्यक्ता ननु त्यक्तैव सा मया ॥ ९ ॥

 विदूषकः--(अधोऽवलोक्य, स्वगतम् ) जधा एसो उद्धं पेक्खि दीहं णिस्ससदि, तधा तक्केमि मए विणिवारिअंतस्स अधिअदरं वड्ढिदा से उक्कंठा। ता सुठ्टु खु एवं वुच्चदि--'कामो वामो' त्ति । ( प्रकाशम् ) भो वअस्स ! भणिदं अ ताए---‘भणेहि चारुदत्तं----अज्ज पओसे मए एत्थ आअंतव्व' त्ति । तो तक्केमि रअणावलीए अपरितुट्टा अवरं मग्गिद् आअमिस्सदि त्ति । [ यथैष ऊर्ध्व प्रेक्ष्य दीर्घं निःश्वसिति, तथा तर्कयामि मया विनिवार्षमाणस्याधिकतरं वृद्धास्योत्कण्ठा । तत्सु खल्वेवमु- च्यते-“कामो वामः' इति । भो वयस्य ! भणितं च तया-‘भण चारुदत्तम्


रितं मुखं कृत्वा । गणिका इस्ती कायस्थो भिक्षुश्वाटौ ( टो) क्षुद्र विषयभोक्तारासभो गर्दभः ॥ वेगमिति ॥८॥ यस्येति ।। ९ ।। अवेध माणहे इति । –अद्य प्रदोषे मयात्रागन्तव्यम्' इति । तर्कयामि रत्नावल्या अपरितुष्टाऽपर थाचितुमागमिष्यतीति ।]

 चारुदत्तः--वयस्य । आगच्छतु, परितुष्टा यास्यति ।

 चेटः----( प्रविश्य ) अवेध माणहे।

जधा जधा वश्शदि अब्भखंडे तधा तधा तिम्मदि पुठिचम्मे ।।
जधा जधा लग्गदि शीदवादे तधा तधा वेवदि मे हलक्के ॥ १० ॥

(अहस्य)

वंशं वाए शतच्छिदं शुशद्रं वीण वा शत्ततंति णदंति ।।
गीअं गाए गद्दद्दश्शाणुणूअं के मे गाणे तुंबुलू णालदे वा ॥ ११ ॥

आणात्तम्हि अज्ञआए वशंतशेणाए---कुंभीलआ ! गच्छ तुमं, मम आगमणं अजचारुदत्तश्श णिवेदेहि त्ति। ता जाव अजचारुदत्तश्श गेहं गच्छामि । ( परिक्रम्य, प्रविष्टकेन दृष्ट्वा ) एशे चालुदत्ते रुक्खाडिआए चिट्ठदि । एशे वि शे दुवडुके; ता जाव उवशप्पेमि । कुधं ढक्किदे दुवाले रुक्खवाडिआए ? । भोदु, एदश्श दुट्टवडुकश्श शण्णं देमि ।

( इति लोष्टगुटिकाः क्षिपति )

[अवेत मानवाः ।।

यथा यथा वर्षयभ्रखण्डं तथा तथा तिम्यति पृष्ठचर्म ।
यथा यथा लगति शीतवातस्तथा तथा वेपते में हृदयम् ॥
वंर्श वादयामि ससच्छिदं सुशब्दं वीणां वादयामि सप्तता नदन्तीम्।
गीतं गायामि गर्दभस्यानुरूपं को मे गाने तुम्बुरुर्नारदो वा


अवेत अवगच्छत मनवा इत्यर्थः । जघा घेति । उपेन्द्रवज्रया श्लोकः । यथा यथा वर्षत्यभ्रखण्डं तथा तथा तिम्यति आद्रींभवति पृष्ठचर्म । यथा यथा लगति शीतवातस्तथा तथा वेषते मे हृदयम् ॥ १० ॥ वंशं वाए इति । उपजातिविशेषः । पादत्रयं जगतीजात्या । चतुर्थः पादः शालिन्या । वंशं वाद- यामि सप्तच्छदं सुशब्दं वीण चादयामि सप्ततन्त्रीं नदन्तीम् । गीतं गायामि गर्दभस्यानुरूपं को मे तुल्यस्तुम्बुरुनारदो वा ॥ ११ ॥ अस्य बटु आज्ञप्तोऽस्म्भार्यया वसन्तसेनया---'कुम्भीलक! गच्छ त्वम् । ममागमन- मार्यचारुदत्तस्य निवेदय' इति । तद्यावदार्यवारुदत्तस्य गेहं गच्छामि । एष चारुदत्तो वृक्षवाटिकायां तिष्ठति । एषोऽपि स दुष्टबटुकः तावदुपसर्पामि कथमाच्छादितं द्वारं वृक्षवाटिकायाः । भवतु, एतस्य दुष्टबटुकस्य संज्ञां ददामि ।]

 विदूषकः--अए, को दाणि एसो पारवेट्टिदं विअ कइत्थं में लोट्टकेहिं ताडेदि १ । [ अये ! क इदानीमेष प्राकारवेष्टितमिव कपित्थं मां लोष्टकैस्ताडयति ? ।]

 चारुदत्तः---आरामप्रसादवेदिकायां क्रीडद्भिः पारावतैः पातितं भवेत् ।

 विदूषकः–दासीर पुत्त दुट्टपाररावअ ! चिट्ट चिट्ठ । जाव एदिणा दंडकट्ठेण सुपक्कं विअ चूअफलं इमादो पासादादो भूमीए पाडइस्सं । [दास्याःपुत्र दुष्टपारावत! तिष्ठ तिष्ठ यावदेतेन दण्डकाष्ठेने सुपक्वमिव चूत- फलमस्मात्प्रासादात्भूमौ पातयिष्यामि । ] ( इति दण्डकाष्ठमुद्यम्य धावति )

 चारुदत्तः—( यज्ञोपवीतं आकृष्य ) वयस्य ! उपविश । किम- नेन ? । तिष्ठतु दयितासहितस्तपस्वी पारावतः ।।

 चैट-कधं पारावदं पेक्खदि,मं ण पैक्खदि ? । भोदु, अव- राए लोट्टगुडिकाए पुणो वि ताडइस्सं । [ कथं पारावतं पश्यति, मां न पश्यति ? । भवतु, अपरया लोष्टगुटिकया पुनरपि तादयिष्यामि ।] ( तथा करोति )

 विदूषकः---( दिशोऽवलोक्य ) कधं कुंभीलओ ? । ता जाव उवसप्पामि। ( उपसृत्य, द्वारमुद्घाट्य ) अरे कुंभीलअ !पविश ; साअदं दे। [कथं कुम्भीलकः १ तद्यावदुपसर्पामि । अरे कुम्भीलक ! प्रविश; स्वागतं ते ।]


कस्य संज्ञां ददामि १ ।। कपित्थं फलविशेषः । वृद्धबिंब्बो दुवासू इति यावत् (?)।  चेटः–(प्रविश्य ) अज्ज ! वंदामि । [ आर्य ! वन्दे ।]

 विदूषकः---अरे, कहिं तुम ईदिसे दुद्दिणे अंधारे आअदो ! ।। [ अरे, कुत्र स्वमीदृशे दुर्दिनेऽन्धकार आगतः १ }]।

 चेटः-----अले, एशा शा। [ अरे, एषा सा । ]

 विदूषकः---का एसा का ? । [कैषा का ? ]

 चेटः--एशा शा । [एषा सा।]

 विदूषकः-—किं दाणि दासीए पुत्ता ! दुन्भिक्खकाले वुड्ढरंको विअ उद्धकं सासाअसि--‘एसा सा से” त्ति ! । [ किमिदानीं दास्याः- पुत्र ! दुर्भिक्षकाले वृद्धरङ्क इवोर्ध्वकं श्वासायसे–'एषा सा सा' इति ?]

 चेटः---अले, तुम पि दाणि इंदमहकामुको विअ सुट्ठु किं काका- असि---‘का के त्ति । [ अरे स्वमपीदानीमिन्द्रमहकामुक इव सुष्टु किं काकायसे--का का' इति ?।]

 विदूषकः-–ता कहेहि । [ तत्कथय ।]

 चेटः---( स्वगतम् ) भोदु एवं भणिशं । (प्रकाशम् ) अले, पह दे दइश्शं । [भवतु, एवं भणिष्यामि । अरे, प्रश्न ते दास्यामि ।]

 विदूषकः----अहं दे मुंडे गोकुं दइस्से । [ अहं ते मस्तके पादं दास्यामि ।]

 चेटः–अले, जाणाहि दाव, तेण हि करिंश काले चूआ मोति । [ अरे, जानीहि तावत् तेन हि कस्चूमिन्ताकाले मुकुलिता भवन्ति ।]

 विदूषकः-अरे दासीए पुत्ता ! गिम्हे । [अरे दास्याःपुत्र! ग्रीष्मे ।]


इन्द्रअहकामुकः काकः । ‘इंद्रमह कोकपोदओ विभ' इति पाठो व्यक्तार्थ एव ॥


दिप्प-1 ‘दासीर पु' इति गाली ।  चेटः--( सहासम् ) अले, णहि णहि । [ अरे, नहि नहि ।]

 विदूषकः---(स्वगतम् ) किं दाणि एत्थ कहिस्सं १ । ( विचिन्त्य ) भोदु, चारुदत्तं गदुञ पुच्छिस्सं । ( प्रकाशम् ) अरे, मुहुत्तअं चिट्ठ । (चारुदत्तमुपसृत्य ) भो बअस्स ! पुच्छिस्सं दाव, कस्सि काले चूआ भोलेंति ? [ किमिदानीमत्र कथयिष्यामि ।। भवतु, चारुदतं गत्वा प्रक्ष्या- मि। अरे, मुहूर्तकं तिष्ठ । भो वयस्य ! प्रक्ष्यामि तावत्, कस्मिन्काले चूता मुकुलिता भवन्ति ?।

 चारुदत्तः–मूर्ख ! ! वसन्ते।

 विदूषकः-(चेटमुपगम्य ) मुक्ख ! वसंते । [मूर्ख ! वसन्ते । ]

 चेटः---दुदिअं दे पण्हं दैइ । शुशमिद्धाणं गामाणं का लक्खों कलेदि है। [द्वितीयं ते प्रश्नं दास्यामि । सुसमृद्धानां ग्रामाणाम् का रक्षां करोति ? ।]

 विदूषकः--अरे, रच्छा । [ अरे, रथ्या ।

 चेटः-- (सहासम् ) अले, णहि माहि । [ अरे, नहि नहि ।]

 विदूषकः---भोदु, संसए पडिदम्हि । ( विचिन्त्य ) भोदु, चारुदत्तं पुणो वि पुछिस्सं । ( पुनर्निवृत्य चारुदत्तं तथैवोदाहरति ) { भवतु, संशये पतितोऽस्मि । भवतु चारुदत्तं पुनरपि प्रक्ष्यामि।]

 चारुदत्तः——वयस्य ! सेना ।

 विदूषकः-( चेटमुपगम्य ) अरे दासीए पुत्ता 1 सेणा । [अरे दास्याःपुत्र ! सेना ।]

 चेटः---अले दुवे वि एक्काश्शिं कडुअ शिग्धं भनाहि । [ अरे, द्वे अप्येकस्मिन् कृत्वा शीघ्रं भण।]

 विदूषकः–सेणीवसंते । [ सेनावसन्ते ।]  चेटः–णं पलिवत्तिअ भणीहि । [ ननु परिवर्त्य भण।]

 विदूषकः----( कायेन परिवृत्य ) सेणावसंते । [ सेनावसन्ते ।।

 चेटः----अले मुक्ख बडुका ! पदाई पलिवत्तावेहि । [अरे मूर्ख बटुक! पदे परिवर्तय !!

 विदूषकः--( पादौ परिवर्स ) सेणावसंते । [ सेनावसन्ते ।

 चेटः-अले मुक्ख ! अक्खलपदाई पलिवतावेहि । [अरे मूर्ख ! अक्षरपदे परिवर्तय ।]

 विदूषकः—( विचिन्त्य) वसंतसेगा । | वसन्तसेना ।]

 चेटः--एशा शा आअदा । [एषा सागता।]

 विदूषकः–ता जाव चारुदत्तस्स णिवेदेमि । ( उपसृत्य ) भो चारुदत्त ! धणिओ दे आअदो । तद्यावश्चारुदत्तस्य निवेदयामि । भो चारुदत्त ! धनिकस्त आगतः ।]

 चारुदत्तः-कुतोऽस्मत्कुले धनिकः ।।

 विदूषकः--जइ कुले णत्थि, ता दुवारे अत्थि; एसा वसंतसेणा आअदा । [यदि कुले नास्ति, तद्वारेऽस्ति; एषा वसन्तसेनागता । ।

 चारुदत्तः--वयस्य! किं मां प्रतारयसि ? । ।

 विदूषकः–जइ मे वअणे ण पत्तिआअसि, ता एवं कुंभीलअं पुच्छ । अरे दासीए पुत्ता कुंभीलअ ! उवसप्प । [यदि मे वचने न प्रत्ययसे, तदिमं कुम्भीलकं पृच्छ । अरे दास्याः पुत्र कुम्भीलक! उपसर्प ।]

 चेदः—(उपसृत्य ) अज्ज ! वंदामि । [ आर्य ! वन्दे ।]

 चारुदत्तः---भद्र ! स्वागतम् ; कथय सत्यं प्राप्ता वसन्तसेना ?।

 चेटः--एशा शा अदा वशंतशेणा । [एषा सागता वसन्त- सेना ।]  चारुदत्तः--( सहर्षम् ) भद्र ! न कदाचित्प्रियवचनं निष्फली- कृतं मया, तद्गृह्यतां पारितोषिकम् । ( इत्युत्तरीयं प्रयच्छति )

 चैट:-( गृहीत्वा प्रणम्य, सपरितोषम् ) जाव अज्जआए णिवेदेमि । [यावदार्याया निवेदयामि । ] ( इति निष्क्रान्तः )

 विदूषकः--भो ! अवि जाणासि, किंणिमित्तं ईदिसे दुद्दिणे आअदे त्ति है। भो ! अपि जानासि, किंनिमित्तमीडशे दुर्दिन आगतेति ? ।]

 चारुदत्तः–वयस्य ! न सम्यगवधारयामि ।

 विदूषकः-मए जाणिदं । अप्पमुल्ला रअणावली, बहुमुलं सुव- एणभंडअं त्ति ण परितुट्टा अवरं मग्गिदुं आअदा । [मया ज्ञातम् । अल्पमूल्या रत्नावली, बहुमूल्यं सुवर्णभाण्डमिति न परितुष्टाऽपरं याचितु- मागता।]

 चारुदत्तः---( स्वगतम्) परितुष्टा यास्यति ।

(ततः प्रविशत्युज्ज्ववलाभिसारिकावेशेन वसन्तसेना, सोत्कण्ठा छत्रधारिणी, विटश्च )

 विटः--(वसन्तसेनामुद्दिश्य )

अपद्मा श्रीरेषा प्रहरणमनङ्गस्य ललितं
कुलस्त्रीणां शोको मदनवरवृक्षस्य कुसुमम् ।
सलीलं गच्छन्ती रतिसमथलजा प्रणयिनी
रतिक्षेत्रे रङ्गे प्रियपथिकसार्थैरनुगता ॥ १२ ॥

वसन्तसेने ! पश्य पश्य ।

गर्जन्ति शैलशिखरेषु विलम्बिबिम्बा
मेघा वियुक्तवनिताहृदयानुकाराः ।


पण्डं प्रश्नम् ॥ मुण्डे मस्तके । गोड्डं पदम् ॥ अपरेति । एषा वसन्तसेनेति संनिकर्षेण । लज्जाप्रणयिनीत्यत्र संधावचा (?) मित्यादिनाकारलोपः ॥ १२ ॥

येषां रवेण सहसोत्पतितैर्मयूखैः
खं वीज्यते मणिमयैरिव तालवृन्तैः ॥ १३ ॥

अपि च,--

पङ्कक्लिन्नमुखाः पिबन्ति सलिलं धाराहता दर्दुराः
कण्ठं मुञ्चति बर्हिणः समदनो नीपः प्रदीपायते ।
संन्यासः कुलदूषणैरिव जनैर्मेघर्वृतश्चन्द्रमा
विद्युन्नीचकुलोद्गतेव युवतिर्नैकत्र नैकत्रसंतिष्ठते ॥ १४ ॥

 वसन्तसेना-भाव ! सुट्ठु दे भणिदं । [ भाव ! सुष्ठु ते भणि- तम् । एषा हि ।

मूढे ! निरन्तरपयोधरया मयैव
कान्तः सहाभिरमते यदि किं तवात्र १ ।।
मां गर्जितैरपि मुहुर्विनिवारयन्ती
मार्गं रुणद्धि कुपितेव निशासपत्नी ॥ १५ ॥

 विटः—भवतु एवं तावत् ; उपालभ्यतां तावदियम् ।।

 वसन्तसेना-भाव ! किमनया स्त्रीस्वभावदुर्विदग्धयोपालब्धया ? । पश्यतु भावः।

मेघा वर्षन्तु गर्जन्तु मुञ्चन्त्वशनिमेव वा ।
गणयन्ति न शीतोष्णं रमणाभिमुखाः स्त्रियः ॥ १६ ॥

 विटः---वसन्तसेने ! पश्य पश्य, अयमपरः


गर्जन्तीति॥ १३ ॥ पङ्केति। कण्ठं मुञ्चतीति। ‘कण्ठो गले गलध्वाने' इति कोशः । लावण्ययोगवान् पूर्णं कण्ठं मुञ्चतीत्युत्प्रेक्षा (१ ) ॥ १४ ॥ मूढे इति। मूढे इति वसन्तसेनायाः साक्षेपसंबोधनम् । पयोधरो मेघः, स्तनौ च ॥ १५ ॥


दिप्प०---1 अत्र शब्दशक्तिमूलो ध्वनिः ।

पवनचपलवेगः स्थूलघाराशरौघः
स्तनितपटहनादः स्पष्टविद्युत्पताकः ।
हरति करसमूहं खे शशाङ्कस्य मेघो
नृप इव पुरमध्ये मन्दवीर्यस्य शत्रोः ॥ १७ ॥

 वसन्तसेना---एवं एणेदं । ती कधं एसो अवरो ? । [एवं न्विदम् । तत्कथमेषोऽपरः ?]

एतैरेव यदा गजेन्द्रमलिनैराध्मातलम्बोदरै-
गर्जद्भिः सतडिद्बलाकशबलैर्मेघैः सशल्यं मनः ।
तकिं प्रोषितभर्तृवध्यपटहो हा हा हताशो बकः
प्रवृट् प्रावृडिति ब्रवीति शठधीः क्षारं क्षते प्रक्षिपन् ॥ १८॥

 विटः---वसन्तसेने । एवमेतत् । इदमपरं पश्य

बलाका पाण्डुरोष्णीषं विद्युत्क्षिप्तचामरम् ।।
मत्तवारणसारूप्यं कर्तुकाममिवाम्बरम् ॥ १९ ॥

 वसन्तसेना-भाव ! पेक्ख पैक्ख । [ भाव ! पश्य पश्य ।]

एतैरार्द्रतमालपत्रमलिनैरापीतसूर्यं नभो
वल्मीकाः शरताडिता इव गजाः सीदन्ति धाराहताः ।
विद्युत्काञ्चनदीपिकेव रचिता प्रासादसंवारिणी ।
ज्योत्स्ना दुर्बलभर्तृकेव वनिता प्रोत्सार्य मेघैर्हता ॥ २० ॥

 विटः–वसन्तसेने ! पश्य पश्य ।

एते हि विध्युद्गुनबद्धकक्षा गजा इवान्योन्यमभिद्रवन्तः ।
शक्राज्ञया वारिधराः सधारा गां रूप्यरज्वेव समुद्धरन्ति ॥ २१ ॥


मेघा इति ॥ १६ ॥ अयमपर इति शत्रोः पुनर्मध्य इत्यर्थात् । पवनेति। करसमूह अंशु-राजग्राह्यभागौ ॥ १७ ॥ एतैरिति । 'प्रोषितभर्तृ'शब्दात 'न नित्यः समासान्तः' इति न ‘न द्यृतश्च इति कम् ॥ १८ ॥ बलाकेति ॥ १९ ॥ एतैरिति ॥ २० ॥ एत इति । कक्षा मध्यबन्धनम् । गां भूमिम्


‘ | टिप्प-1 स्तनितं मेघगर्जितम् , पटहो नगारा' इति प्रसिद्धः । अत्रे पूर्णो-

पमालंकारः । 2 बलाका बकप्ग्क्तिः स्यात्' इति कोश: । वारणस्यापि कर्णयोश्चामरे शिरसि विचित्रवस्त्रं च भवति । द्रघिमा नीलिमा चेति गज-गगनयोरुपमा । अपि च, पश्य

महावाताध्मातैर्महिषकुलनीलैर्जलधरै-
श्चलैर्विद्युत्पक्षैजलधिभिरिवान्तःप्रचलितैः ।
इयं गन्धोद्दामा नवहरितशष्पाकुरवती
धरा धारापातैर्मणिमयशरैर्भिद्यत इव ॥ २२ ॥

 वसन्तसेना----भाव ! एसो अवरो ! । [ भाव ! एषोऽपरः ।।

एह्येति शिखण्डिनां पटुतर केकाभिराक्रन्दितः ।
प्रोड्डीयेव बलाकया सरभसं सोत्कण्ठमालिङ्गितः ।
हंसैरुज्झितपङ्कजैरतितरां सोद्वेगमुद्वीक्षितः
कुर्वन्नञ्जनमेचका इव दिशो मेघः समुत्तिष्ठति ॥ २३ ॥

 विटः-एवमेतत्; तथा हि पश्य

निष्पन्दीकृतपद्मषण्डनयनं नष्टक्षपावासरं
विद्युद्भिः क्षणनष्ट दृष्टतिमिरं प्रच्छादिताशामुखम् ।
निश्चेष्टं स्वपितीव संप्रति पयोधारागृहान्तर्गतं
स्फीताम्भोधरधामनैकजलदच्छत्रापिधानं जगत् ॥ २४ ॥

 वसन्तसेना-भाव एव्वं ण्णेदं । ता पेक्ख पेक्ख । [भाव! एवं न्विदम्; तत्पश्य पश्य ।]

गता नाशं तारा उपकृतमसाधाविव जने
वियुक्ताः कान्तेन स्त्रिय इव न राजन्ति ककुभः ।


॥२१॥ महेति । शष्कुपाङ्कुरा संलग्नशरतुल्याः ॥२२॥ एहीति ॥२३ । मेचकाः श्यामाः ।। निष्पन्दीति ॥२४॥ गता इति । गगनं जलरूपेण द्रवीभूतं पतति ।


टिप्प०-1 शिखण्डिनां मयूराणां, “केका वाणी मयूरस्य' इत्यमरः, ताभिः पटुतरं यथा स्यात्तथा 'एह्येहि' इत्याक्रन्दित आहूतः, आदरेऽत्रवीप्सा; सरभसं सावेगम् , उत्कण्ठाऽऽवेगयोरन्योन्यं जन्यजनकभाव इति भेदः । प्रावृषि न स्थितिर्मेघा- नाम् इति ‘सोद्वेगम्' इत्युक्तम् । अञ्जनवत् मेचका: श्यामाः, दिशः कुर्वन्नेषोऽपरो मेघो हि समुत्तिष्ठति इत्यन्वयः ।

प्रक्रामान्तस्ततं त्रिदशपतिशस्त्रस्य शिखिना ।
द्रवीभूतं मन्ये पतति जलरूपेण गगनम् ॥ २५ ॥

अपि च, पश्य ।

उन्नमति नमति वर्षति गर्जति मेघः करोति तिमिरौघम्।
प्रथमश्रीरिव पुरुषः करोति रूपाण्यनेकानि ॥ २६॥

 विटः----एवमेतत्

विद्युद्भिर्ज्वलतीव संविहसतीवोश्चैर्बलाकाशतै-
र्माहेन्द्रेण विवल्गतीव धनुषा धाराशरोद्गारिणा ।
विस्पष्टशनिनिस्वनेन रसतीवाघूर्णतीवानिलै-
र्नीलैःसान्द्रमिवाहिभिर्जलधरैर्धूपायतीवाम्बरम् ॥ २७ ॥

 वसन्तसेना--

जलधर ! निर्लजस्त्वं यन्मां दयितस्य वेश्म गच्छन्तीम् ।
स्तनितेन भीषयित्वा धाराहस्तैः परामृशसि ॥ २८ ॥

भोः शक्र !

किं ते ह्यहं पूर्वरतिप्रसक्ता यत्त्वं नदस्यम्बुद ! सिंहनादैः ।
न युक्तमेतत्प्रियकाङ्क्षिताया मार्गं निरोद्धुं मम वर्षपातैः ।। २९ ।।


त्रिदशपतिशस्त्रस्य वज्रस्य २५ ॥ उन्नमईतिति ॥ २६ ॥ विद्युद्भिरिति ॥ २७ ।। जलधरेति ॥ ३८ ॥ किं त इति । रतिप्रसका संभोगेन प्रसक्ता ।


टिप्प-1 त्रिदशपतिशस्त्रस्येन्द्रवज्रस्य शिखिना वह्निना, इन्द्रवज्राग्निनेत्यर्थः । अन्तस्तप्तं अत एव द्रवीभूतं गगनं जलरूपेण पततीति मन्ये इत्युत्प्रेक्षालंकारः । 2 अलंकृतं भवति । विस्पष्टः कर्णारुन्तुदं श्रूयमाणो योऽशनि नि:स्वनो वज्रनिर्घोषस्तेन रसतीव शब्दं करोतीव । अनिलैराघूर्णतीव' इति झञ्झावातवर्णनम् । नीलैरहिभिः कुष्णसर्पैः; सान्द्रं व्याप्तमिवेति मेघव्याप्तेरुत्प्रेक्षा । जलधरैर्धूपायतीवात्मानं धूषितं करोतीवेत्याशयः । अपि च,-

यदहल्याहेतोर्मृषा वदसि शक्र ! गौतमोऽस्मीति ।
तद्वन्ममापि दुःखं निरपेक्ष ! निवार्यतां जलदः ॥ ३० ॥

अपि च,-

गर्ज वा वर्ष वा शक्र ! मुञ्च वा शतशोऽशनिम् ।
न शक्या हि स्त्रियो रोद्धुं प्रस्थिता दयितं प्रति ॥ ३१ ॥
यदि गर्जति वारिधरो गर्जतु तन्नाम निष्ठुराः पुरुषाः ।
अयि ! विद्युत्प्रमदानां त्वमपि च दुःखं न जानासि ॥ ३२॥

 विटः-भवति । अलमलमुपालम्भेन । उपकारिणी तवेयम्,----

ऐरावतोरसि चलेच सुवर्णरज्जुः
शैलस्य मूर्ध्नि निहितेव सिता पताका ।
आखण्डलस्य भवनोदरदीपिकेय-
माख्याति ते प्रियतमस्य हि संनिवेशम् ॥ ३३ ॥

 वसन्तसेना-भाव ! एवं ते ज्जेव एदं गेहं । [भाव । एवं तदेवैतद्गेहम् ।।]

 विटः--सकलकलाभिज्ञाया न किंचिदिह तवोपदेष्टव्यमस्ति । तथापि स्नेहः प्रलापयति । अत्र प्रविश्य कोपोऽयन्तं न कर्तव्यः । यदि कुप्यसि नास्ति रतिः, कोपेन विनाऽथवा कुतः कामः १।। कुप्य च कोपय च त्वं प्रसीद च त्वं प्रसादय च कान्तम् ॥ ३४ ॥


प्रियेण काङ्क्षितायाः ॥ २९ ॥ यद्वदिति । हे शक्र ! यथा अहल्याया अप्राप्ति दुःखेन गौतमोऽस्मीत्यसत्यं ब्रूषे, हे निरपेक्ष परपीडनभिज्ञ ! तद्वन्ममापि दुःखं जानीहीत्यर्थात् । ततः किं कर्तुमुचितमित्याह-निवार्यतामिति । प्रियभवन- गमनं प्रति विरोधकत्वादित्याशयः ॥ ३० ॥ गर्जेति ॥ ३१॥ यदिति ॥ ३२ ॥ पाठा०-१ निरपेक्ष्य.


टिप्प -1 अस्य याथार्थ्यकृते इन्द्रागच्छेति गौरावस्कन्दिन्नहल्यायै जारेति-', 'एष एवेन्द्रो एष तपति’ ( श. ना. ३.३) इत्यादिशतपथब्राह्मणवचोविमर्शनमर्हति । मृ १० भवतु एवं तावत् । भो भोः ! निवेद्यतामार्यचारुदत्ताय

एषा फुल्लकदम्बनीपसुरभौ काले घनोद्भासिते
कान्तस्यालयमागता समदना हृष्टा जलार्द्रालका।
विद्युद्वारिदगर्जितैः सचकिता त्वद्दर्शनाकाङ्क्षिणी
पादौ नूपुरलग्नकर्दमधरौ प्रक्षालयन्ती स्थिता ॥ ३५ ॥

 चारुदत्तः--( आकर्ण्य ) वयस्य | ज्ञायतां किमेतदिति ।

 विदूषकः-जं भवं आणवेदि । (वसन्तसेनामुपगम्य, सादरम्) सोत्थि भोदीए । [ यद्भवानाज्ञापयति । स्वस्ति भवत्यै।]

 वसन्तसेना-अज्ज ! वंदामि । साअदं अज्ञस्स । ( विटं प्रति ) भाव ! एसा छत्तधारिआ भावस्स जेव्व भोदु। [आर्य! बन्दे । स्वागतमा र्यस्य । भाव! एषा छत्रधारिका भावस्यैव भवतु ।।

 विटः---(स्वगतम्) अनेनोपायेन निपुणं प्रेषितोऽस्मि । ( प्रकाशम् ) एवं भवतु भवति वसन्तसेने !

साटोपकूटपटानृतजन्मभूमेः
शाठ्यात्मकस्य रतिकेलिकृतालयस्य ।
वेश्यापणस्य सुरतोत्सवसंग्रहस्य
दाक्षिण्यपण्यमुखनिष्क्रयसिद्धिरस्तु ॥ ३६॥

( इति निष्कान्तो विटः )

 वसन्तसेना--अज मित्तेअ ! कहिं तुम्हाणं जूदिअरो ? ।। [ आर्य मैत्रेय ! कुन्न युष्माकं द्यूतकरः ? ।।


ऐरावत इति ॥ ३३ ॥ यदिति ॥ ३४ ॥ एषेति ॥ ३५ ॥ साटोपेति । आटोपो दम्भः, कूटं माया, कपटं छद्म, अनृतं मृषाभाषणम् । निह्नवप्राकट्यभेदा- त्कूटकपटायोर्भेदः। एतेषां जन्मभूमेः । वेश्यापणो वेश्याव्यवहारः । व्यज्यके- त्यर्थः (?)। दाक्षिण्यपण्यप्रधानं निष्क्रयो मूल्यम् ।। ३६ ॥ अपि पारयिष्यामि ॥ टिप्प-1 सुरतोत्सवप्रधानस्येत्यर्थः । 2 कामतनैपुण्येन यत् क्रयक्रीतं सुखं नाम वेश्यासंभोगादिसुखं तत् पण्यसुखमुच्यते, तद्रूपा मूल्यस्य सिद्धिरस्तु ।  विदूषकः---खगतम्) ही ही भो, जूदिअरो त्ति भणतीए अलं- किदो पिअबअस्सो । (प्रकाशम् ) भोदि ! एसो खु सुक्खरुखवाडि- आए । [ आश्चर्य, भोः द्यूतकर इति भणन्त्यालंकृतः प्रियवयस्यः । भवति ! एष खलु शुष्कवृक्षवाटिकायाम् ।।

 वसन्तसेना-अज्ज ! का तुम्हाणं सुक्खरुक्खख वाडिआ वुच्चदि ?। [ आर्य ! को युष्माकं शुष्कवृक्षवाटिकोच्यते ?।]

 विदषकः----भोदि । जहिं ण खाईअदि, ण पीईअदि । [ भवति ! यत्र न खाद्यते, न पीयते ।]

( वसन्तसेन स्मितं करोति )

 विदूषकः--ता पविसदु भोदी । [ तस्मात्प्रविशतु भवती ।]

 वसन्तसेना----{ जनान्तिकम् ) एत्थ पविसिअ किं मए भणिदव्वं ।। [ अत्र प्रविश्य किं मया भणितव्यम् ?।]

 चेटी---‘जूदिअर | अवि सुहो दे पदोसो ? ति ।[ द्यूतकर ! अपि सुखस्ते प्रदोषः ?' इति ।

 वसन्तसेना-अवि पारइस्सं ? । [ अपि पारयिष्यामि ? । }

 चेटी–अवसरो जेव्व पारइस्सदि । [ अवसर एव पारयिष्यति ।]

 विदूषकः--पविसदु भोदी । [प्रविशतु भवती ।]

 वसन्तसेना—(प्रविश्योपसृत्य च, पुष्पैस्ताडयन्ती ) अइ जूदिअर ! अवि सुहो दे पदोसो ? । [ अयि द्यूतकर ! अपि सुखस्ते प्रदोषः ? । ]

 चारुदत्तः---( अवलोक्य ) अये, वसन्तसेना प्राप्ता । (सहर्षमुत्थाय ) अयि प्रिये !

सदा प्रदोषो मम याति जाग्रतः
सदा च मे निःश्वसतो गता निशा ।
त्वया समेतस्य विशाललोचने !
ममाद्य शोकान्तकरः प्रदोषकः ॥ ३७॥

तत्स्वागतं भवत्यै, इदमासनम् ; अत्रोपविश्यताम् ।

 विदूषकः-इदं असणं, उवविसदु भोदी । [ इदमासनम्, उपदिशतु भवती ।।

( वसन्तसेना नाट्येनासीना, ततः सर्व उपविशन्ति)

 चारुदत्तः--वयस्य ! पश्य पश्य

वर्षोंदकमुद्गिरता श्रवणान्तविलम्बिना कदम्बेन ।
एकः स्तनोऽभिषिक्तो नृपसुत इव यौवराज्यस्थः ॥ ३८ ॥

तद्वयस्य ! क्लिन्ने वाससी वसन्तसेनायाः । अन्ये प्रधानवाससी समु- पनीयेतामिति ।

 विदूषकः-जं भवं आणवेदि । [ यद्भवानाज्ञापयति ।]

 चेटी–अज्ज मित्तेअ । चिट्ठ तुम; अहं जेव्व अजअं सुस्सूसइस्सं । { तथा करोति ) [ आर्य मैत्रेय ! तिष्ठ त्वम् ; अहमेवार्यां शुश्रूषयिष्यामि ।]

 विदूषकः-( अपवारितकेन ) भो वअस्स | पुच्छामि दाव तत्थ- भोदि किं पि । [ भो वयस्य ! पृच्छामि तावत्तत्रभवतीं किमपि ।] ।

 चारुदत्तः–एवं क्रियताम् ।

 विदूषकः--( प्रकाशम् ) अध किंणिमित्तं उण ईदिसे पणट्ट- चंदालोए दुद्दिणअंधआरे आअदा भोदी ? । [ अथ किंनिमित्तं पुनरीदृशे प्रनष्टचन्द्रालोके दुर्दिनान्धकार आगता भवती १ ।।

 चेटी--अजए | उजुओ बम्हणो । [आर्ये ! अजुको ब्राह्मणः ।]


सदेति ॥ ३७॥ वर्षोंदकमिति ॥ ३८ ॥ आआविओ आचार्य उपदेष्टा (?)  वसन्तसेना–णं णिउणोत्ति भनाहि ।। ननु निपुण इति भण।]

 चैदी-एसा खु अज्जआ एवं पुच्छिदं आअदा---'केत्तिअं ताए रअणावलीए मुल्लं त्ति । [ एथा खल्वार्या एवं प्रष्टुमागता–‘किय- त्तस्या रत्नावल्या मूल्यम्' इति । ]

 विदूषकः----( जनान्तिकम् ) भो ! भणिदं मए-जधा अप्पमुल्ला रअणावली, बहुमुल्लं सुवण्णभंडअं । ण परितुट्टा अवरं मग्गिदुं आअदा । [भोः! भणितं मया-यथाऽल्पमूल्या रत्नावली, बहुमूल्यं सुवर्ण- भाण्डम् । न परितुष्टा, अपरं याचितुमागता ।]

 चेटी-सा खु अज्ञआए अत्तणकेरकेत्ति भणि जूदे हारिदा । सो अ सहिओ अवात्थहारी ण जाणीअदि कहिं गदो त्ति । [ सा खल्वार्यया आत्मीयेति भणित्वा द्यूते हारिता । स च सभिको राजवार्ता- हारी न ज्ञायते कुत्र गत इति ।]

 विदूषकः----भोदि ! मंतिदं जेव मतीअदि । [ भवति ! मन्त्रितमेव मन्त्रयते ।]

 चेटी--जाव सो अण्णेसीअदि ताव एवं जेव्व गेण्ह सुवण्ण- भंडअं । [ यावत्सोऽन्विष्यते तावदिदमेव गृहाण सुवर्णभाण्डम् ।] ( इति दर्शयति )

( विदूषको विचारयति )

 चैटी--अदिमेतं अज्ञो णिज्झाअदि । ता किं दिट्टपुरुव्वो दे ? । [ अतिमामार्यो निध्यायति । तत्किं दृष्टपूर्वस्ते ? ।।

 विदूषकः----भोदि ! सिप्पकुसलदाए ओबंधेदि दिई । [भवति ! शिल्पकुशलतयावबध्नाति दृष्टिम् ।]

 चेटी--अज्ज ! वंचिदोसि दिट्टीए । ते जेव्व एदं सुवण्णभंडअं । [ आर्य ! वञ्चितोऽसि दृष्ट्या । तदेवेदं सुवर्णभाण्डम् ।] --- टिप्प०-1 चिन्तयतीत्यर्थः । 2 अत्र 'अलंकार' इति पदं प्रक्रान्तमेव ।  विषकः--( सहर्षम् ) भो अस्स ! तं जेव्व एदं सुवण्णभंडअं, जं अम्हाणं गेहे चोरेहिं अवहिदं । [ भो वयस्य ! तदेवेदं तस्सुवर्णभाण्डम् , यदस्माकं गृहे चौरैरपहृतम् । ]

 चारुदत्तः–वयस्य !

{{block center|{{bold|<poem>योऽस्माभिश्चिन्तितो व्याजः कर्तुं न्यासप्रतिक्रियाम् ।। स एव प्रस्तुतोऽस्माकं किंतु सत्यं विडम्बना ॥ ३९ ॥

 विदूषकः--भो वअस्स ! सच्च सवामि बम्हणेण । [ भो वयस्य ! सत्यं शपे ब्राह्मण्येन ।

 चारुदत्तः---प्रियं नः प्रियम् ।।

 विदूषकः-( जनान्तिकम् ) भो ! पुच्छामिणं कुदो एदं समा- सादिदं त्ति । [भोः ! पृच्छामि-ननु कुत इदं समासादितमिति ।]

 चारुदत्तः--को दोषः १ ।।

 विदूषकः---(चेट्याः कर्णे) एवं विअ । [एँवमिव । ]

 चेटी—( विदूषकस्य कर्णे ) एवं विअ । [एवमिव ।]

 चारुदत्तः--किमिदं कथ्यते ।। किं वयं बाह्याः १ ।।

 विदूषकः---(चारुदत्तस्य कर्णे ) एवं विअ । [एवमिव ।]


प्रेष्यतां भुज्यताम् (१) । य इति । किं तु स एव व्याजो विडम्बनास्माकं प्रस्तुत आरब्धा । ३९ ॥ अथवा सत्यमेवेदम् । अथवेति प्रकरणात्प्रतीयते । बम्हण्णेण


टिप्प०-1 स व्याज एवास्माकं प्रस्तुतो रसावलीप्रत्युत्तरत्वेनावतीर्ण इति निष्कर्षः। 2 शर्विलकेन वसन्तसेनाया गृहं गत्वा यस्य सुवर्णभाण्डस्य दानेन मदनिका निष्क्रीता तदेवेदं सवर्णभाण्डमिति ‘एवमिव इत्यस्याशयः । 3 तत्सर्वं विदूषकेन चारुदत्ताय कथितं 'एवमिव' इत्यनेन ।  चारुदत्तः-- भद्रे ! सत्यं तदेवेदं सुवर्णभाण्डम् ।

 चेटी--अज्ज ! अध इं । [ आर्य ! अथ किम्? ]

 चारुदत्तः---भद्रे ! न कदाचित्प्रियनिवेदनं निष्फलीकृतं मया । तद्गृह्यतां पारितोषिकमिदमङ्गुलीयकम् । (इत्यनङ्गुलीयकं हस्तमवलोक्य लज्जां नाटयति )

 वसन्तसेना-( आत्मगतम् ) अदो जेव्व कामीअसि । [ अत एव काम्यसे ।।

 चारुदत्तः--( जनान्तिकम् ) भोः ! कष्टम्;

धनैर्वियुक्त्तस्य नरस्य लोके किं जीवितेनादित एव तावत् ।
यस्य प्रतीकारनिरर्थकत्वात्कोपप्रसादा विफलीभवन्ति ॥ ४० ॥

अपि च,---

पक्षविकलश्च पक्षी शुष्कश्च तरुः सरश्च जलहीनम्।
सर्पश्चोद्धृतदंष्ट्रस्तुल्यं लोके दरिद्रश्च ॥ ४१ ॥


अपि च,

शून्यैर्गृहैः खलु समाः पुरुषा दरिद्राः
कूपैश्च तोयरहितैस्तरुभिश्च शीर्णैः ।
यद्दृष्टपूर्वजनसंगमविस्मृताना-
मेवं भवन्ति विफलाः परितोषकालाः ॥ ४२ ॥



ब्रह्मण्येन ॥ धनैरिति ॥ ४० ॥ पक्षेति ॥ ४१ ॥ शून्यैरिति । यद्दृष्टेति । यतो यस्माद्दृष्टपूर्वस्य जनस्य संगमेनोत्तरलतया वर्तमानस्वदैन्यविस्मृतानां पाठा०-२-१ विफला भवन्ति,



---

| टिप्प----1 धनैर्वियुक्तस्य धनहीनावस्थामापन्नस्य कोप-प्रसादा विफलीभवन्ति; यतः स कोपे प्रतिकर्तुं प्रसादे चोपकर्तुं सर्वथाऽसमर्थः। 2 संगस्य बहुकाञ्चनसाध्य- तया स्वस्याकिञ्चनत्वेन च दुर्लभतया कादाचित्कतया च विस्मृतत्वं बोध्यम् । अथवा वर्तमानस्वदैन्यं विस्मृतानां मत्सदृशपुरुषाणां ईदृशपरमोत्कर्षशालिहर्षकालेऽपि दातुं किमपि नास्तीति परितोषकालानां भवति वैफल्यमित्याशयः ।  विदूषकः--भो। अलं अदिमेत्तं संतप्पिदेण ।( प्रकाशं, सपरिहासम्) भोदि ! समप्पीअदु ममकेरिआ ण्हाणसाडिआ । [भोः! अलमतिमात्रं संतापितेन । भवति ! समप्यर्तां मम खानशाटिका।]

 वसन्तसेना---अज्ज चारुदत्त ! जुत्तं' ण्णेदं इमाए रअणावलीए इमं जणं तुलइदुं । [आर्य चारुदत्त ! युक्तं नेदमनया रसावल्या इमं जनं सुलयितुम् ।]

 चारुदत्तः-- ( सविलक्षस्मितम् ) वसन्तसेने ! पश्य पश्य

कः श्रद्धास्यति भूतार्थ सर्वो मां तुलयिष्यति ।।
शङ्कनीया हि लोकेऽस्मिन्निष्प्रतापा दरिद्रता ॥ ४३ ॥

 विदूषकः--हञ्जे ! किं मोदीए इध ज्जेव्व सुविदव्वं ?। [चेटि ! किं भवत्या इहैव सुप्तव्यम् ? ।  चेटी-( विहस्य ) अज्ज मित्तेअ! अदिमेत्तं दाणिं उजुअं अत्ताणअं

दंसेसि । [आर्य मैत्रेय ! अतिमात्रमिदानीसृजुमात्मानं दर्शयसि । ]

 विदूषकः–भो वअस्स ! एसो खु ओसारअंतो विअ सुहोवविट्टं जणं पुणो वि वित्थारिवारिधाराहिं पविट्टो पृज्जण्णो । [ भो वयस्य ! एष खल्वपसारयन्निव सुखोपविष्टं जनं पुनरपि विस्तारिवारिधाराभिः प्रविष्टः पर्जन्यः।]


विस्मरणवतां पुंसाम् ॥ ४२ ॥ मत्संबन्धिनी स्नानशाटिका ॥ तुलयितु- मिति । लुब्धालुब्धजिज्ञासया बहुमूल्याया रत्नावल्या अल्पमूल्यसुवर्णभाण्डस्य टिप्प०-1 मद्दप्तसुवर्णभाण्डगमने तत्प्रतिदानतया रक्षावलीदाने न युक्तम् । येषां जनानां मेदस्त एवान्योन्यं वसुनि गते सति देयोपादेयभावमावहन्ति, येषां तु तादात्म्यं तेषु नायं भाव इति भावः । 'इमं जनम्' इत्युक्तिर्विनय-गर्दयोरप्याविर्भावि- केति तावम् । 2 भाग्यवतेश्वरेण यदसदपि कृतं तत् सदिव प्रतिभाति, दरिद्रेण तु सदपि कृतं नातिभाति: पुनरसतः का कथा ? किं चास्माकमकिश्चनानामस्मिन्विषये चौर्यस्य रत्नमालाप्रतिदानसावधानतायामेव सर्वानर्थनिवारणमिति भावः ।  चारुदत्तः-----सम्यगाह भवान्,-

अमूर्हि भित्वा जलदान्तराणि पङ्कान्तराणीव मृणासूच्यः ।।
पतन्ति चन्द्रव्यसनाद्विमुक्ता दिवोऽश्रुधारा इव वारिधाराः ॥४४॥


अपि च,

धाराभिरार्यजनचित्तसुनिर्मलाभि-
श्चण्डाभिरर्जुनशरप्रति कर्कशाशभिः ।
मेघाः स्रवन्ति बलदेवपटप्रकाशाः।
शक्रस्य मैक्तिकनिधानमिवोद्गिरन्तः॥ ४५ ॥


प्रिये ! पश्य पश्य

एतैः पिष्टतमालवर्णकनिभैरालिप्तमम्भोधरैः
संसक्तैरुपवीजितं सुरभिभिः शीतैः प्रदोषानिलैः ।
एषाम्भोदसमागमप्रणयिनी स्वच्छन्दमभ्यागता
रक्ता कान्तमिवाम्बरं प्रियतमा विद्युत्समालिङ्गति ।। ४६ ॥



कृते योगात् ।। क इति ।। ४३ ॥ अमूरिति ॥ ४४ ॥ धाराभिरिति टिप्प-1 बलरामवत्सदृशा इत्यर्थः । 2 वर्णकोऽस्त्री विलेपनम्' इत्यमरः । पिष्टं यत्तमालस्य वर्णकं विलेपने तमालवर्णं वा वर्णनं तत्सदृशैः, नीळविलेपनसद्दशै- र्मेघैरालिप्तं कृतकस्तूरिकाङ्गरागमिवेति भावः । प्रदोषानिलैः सन्ध्यावातैः, शीतैः सुगन्धैः, संसक्तैः सर्वतोमिलितैः, उपवीजितं संजातव्यजनवीजनमिवेत्यर्थः । आकण्ठ- मुत्कण्ठामन्तरा नातिस्फुरत्यकुण्ठः शृङ्गार इत्युत्कण्ठामवतारयति-अम्भोदेत्यादिना । अम्भोदानां समागमेनोद्दीपनविभावरूपेण प्रणयिनी । अत एवं स्वच्छन्दं स्वयमेव अभ्यागता, नतु प्रियेणाहूता । यथा त्वं स्वयमेवातासीति व्यङ्ग्यम् । र्क्ता शोणवर्णा, पक्षेऽनुरक्ता च प्रियतमा कान्तमिव विद्रंयुदम्बरं समालिङ्गतीत्यन्वयः । 3 अत्र ’अम्बर'शब्दगतं नपुंसकं लिङ्गं नार्थतो भासते; येन नपुंसकमालिङ्घतीति दूषणमुद्भा- व्येत; ‘दाराः कलत्रं योषित्' इत्यादौ व्यभिचारात् । अयमैन्द्रीमुखं पश्य रक्तश्चुम्बति चन्द्रमाः' इत्यादौ भासते, तथापि प्रकृते न व्यङ्ग्यार्थहानिः, अपि त्वधिक- चमस्कृतिरेव । तथा हि-अपुमांसमप्यम्बरं साऽऽलिङ्गति, त्वं तु सुन्दरमपि पुमांसं मामालिङ्ग रमयेत्याशयः ।

( वसन्तसेना शृङ्गारभावं नाटयन्ती चारुदत्तमालिङ्गति )

 चारुदत्तः–( स्पर्श नाटयन्प्रत्यालिङ्ग्य )

भो मेघ ! गम्भीरतरं नद त्वं तव प्रसादात्स्मरपीडितं मे ।
संस्पर्शरोमाञ्चितज़ातरागं कदम्बपुष्पत्वमुपैति गात्रम् ॥ ४७ ॥

 विदूषकः----दासीए पुत्त दुद्दिण ! अणज्जो दाणि सि तुमं, जे अत्तभोदिं विजुआए भायावेसि । [ दास्याःपुत्र दुर्दिन ! अनार्य इदानीमसि त्वम्, यदत्रभवतीं विद्युता भीषयसि ।।

 चारुदत्तः-वयस्य ! नार्हस्युपालब्धुम्,--

वर्षशतमस्तु दुर्दिनमविरतधारे शतहृदा स्फुरतु ।
अस्मद्विधदुर्लभया यदहं प्रियया परिष्वक्तः ॥ ४८॥

अपि च, वयस्य ।।

धन्यानि तेषां खलु जीवितानि ये कामिनीनां गृहमागतानाम् ।
आर्द्राणि मेघोदकशीतलानि गात्राणि गात्रेषु परिष्वजन्ति ॥ ४९ ॥

प्रिये वसन्तसेने !

स्तम्भेषु प्रचलितवेदिसंचयान्तं
शीर्णत्वात्कथमपि धार्यते वितानम् ।
एषा च स्फुटितसुधाद्रवानुलेपा-
संक्लिन्ना सलिलभरेण चित्रभित्तिः ॥ ५० ॥


॥ ४५ ॥ एतैरिति । वर्णक विलेपनम् ॥ ४६ ॥ ॥ मेघेति ॥ ४७ ॥ वर्षशतमिति । अस्मद्विधदुर्लभया । दरिद्रस्य वेश्यावाप्त्यसंभवात् ॥ ४८ ॥ धन्यानीति ॥ ४९ ॥ स्तम्भेष्वित्यादि । प्रकृतिच्छन्दसा । वितानं टिप्प०-1 अत्र गात्रस्य कदम्बोपमा वर्षर्तावनुगुणैव; नच स्त्री-पुंसयोः सामानाधि- करण्यमेव संभोग इति वाच्यम् , एकशयनस्थितयोरपि विप्रलम्भसंभवात्; किन्तु द्वयोरपि मनोवृत्तिसांमुख्यमेव मुख्यः शृङ्गारः । स च मनोवृत्तेरनुकूलतायां संभोगः, प्रतिकूलतायां विप्रलम्भ इति विवेकः । (ऊर्ध्वमवलोक्य ) अये इन्द्रधनुः; प्रिये ! पश्य पश्य

विद्युजिह्वेनेदं महेन्द्रनापोच्छ्रितायतभुजेन।
जलधरविवृद्धहनुना विजृम्भितमिवान्तरिक्षेण ॥ ५१ ॥

तदेहि, अभ्यन्तरमेव प्रविशावः ( इत्युत्थाय परिक्रमति )

तालीषु तारं विटपेषु मन्द्रं शिलासु रुक्षं सलिलेषु चण्डम् ।
संगीतवीणा इव ताड्यमानास्तालानुसारेण पतन्ति धाराः ।। ५२॥

(इति निष्क्रान्ताः सर्वे )

दुर्दिनो नाम पञ्चमोऽङ्कः ।


चन्द्रातपः ॥ ५० ॥ विद्युदिति । आर्या । अनया च वेतालादिभयानकरूप- वर्णनम् ॥५१ । संगीतवीणा इव धाराः ।। ५२ ॥

इति दुर्दिनो नाम पञ्चमोऽङ्कः ।

1 यथा वीणास्तत्र तत्र रोगस्थाने तालानुसारेण तारं मन्द्रं रूक्षं चण्डं च स्वनन्ति तथा धारा इति भावः । तालीदलेषु जलधाराघाते महानुच्चस्वरः श्रवणप्रत्यक्ष एव । शाखासु मन्द्रं गभीरमू, रूक्ष-चण्डखरयोः परमभेदेऽपि शिलासु सलिलेषु च धारघाते मृदुकाठिन्यकृत आबालवृद्धप्रत्यक्ष एव ।