← षष्ठोऽङ्कः मृच्छकटिकम्
सप्तमोऽङ्कः
शूद्रकः
अष्टमोऽङ्कः →

सप्तमोऽङ्कः

(ततः प्रविशति चारुदत्तो विदूषकश्च )

 विदूषकः---भो ! पेक्ख पेक्ख पुप्फकरंडअजिण्णुज्जाणस्स सस्सिरीअदां । [ भोः ! पश्य पश्य पुष्पकरण्डकजीर्णोद्यानस्य सश्रीकताम् ।।

 चारुदत्तः-- वयस्य । एवमेतत् ; तथा हि ।

वणिज इव भान्ति तरवः पण्यानीव स्थितानि कुसुमानि ।
शुल्कमिव साधयन्तो मधुकरपुरुषाः प्रविचरन्ति ॥ १ ॥

 विदूषकः----भो । इमं असक्काररमणीयं सिलाअलं उवविसदु भवं । { भोः ! इदमसंस्काररमणीयं शिलातलमुपविशतु भवान् ।]

 चारुदत्तः–( उपविश्य ) वयस्य । चिरयति वर्धमानकः ।।

 विदूषकः---भणिदो मए वड्ढमाणओ-बसंतसेणिअं गेण्हिअ लहुं लहुं आअच्छ' ति । [ भणितो मया वर्धमानकः–'वसन्तसेनां गृहीत्वा लघु लघ्वागच्छ' इति ।]

 चारुदत्तः- तत्किं चिरयति ?

किं या1त्यस्य पुरः शनैः प्रवहणं तस्यान्तरं मार्गते
भग्नोऽक्षे परिवर्तनं प्रकुरुते छिन्नोऽथ वा प्रग्रहः।
कर्मान्तोज्झितदारुवारितगतिर्मार्गान्तरं याचते
स्वैरं प्रेरितगोयुगः किमथवा स्वच्छन्दमागच्छति ॥२॥


वणिज इति । शुल्कं राजदेयम् ॥ १॥ असक्कारमिति । अकृत्रिमं स्वभावत एवेत्यर्थः ॥ किमिति । कर्मान्तो राजादीनां नियोगविशेषः । तत्संबन्धिनि पाठा०—१ वर्त्मान्तोज्झित (=वर्त्मनो मार्गस्यान्ते मध्ये उज्झितेन त्यक्तेन )। टिप्प० अस्य वर्धमानकस्य, तस्य प्रवहणस्य, अन्तरमवकाशम् , प्रग्रहो वृषभयो रज्जुः, दारुणा महाकाष्ठेन , वारितगतिः निरुद्धवेगः, स्वैरं स्वेच्छानुरूपम् ,

प्रेरितगोयुगः प्रेरितवृषयुगः । अत्रोत्कण्ठा व्यङ्ग्या; ‘सर्वेन्द्रियसुखास्वादो यत्रास्तीत्यनुमन्यते । तत्प्राप्तीच्छां ससंकल्पामुत्कण्ठां कवयो विदुः' इति वचनात् ।
(प्रविश्य, गुप्तार्यकप्रवहणस्थः )

 चेटः---जाध गोणा ! जधि । [यातं गावौ ! यातम् ।]

 आर्यकः-(स्वगतम्)

नरपतिपुरुषाणां दर्शनाद्भीतभीतः
सनिगडचरणत्वासावशेषापसारः ।
अविदितमधिरूढो यामि साधोस्तु याने ।
प1रभृत इव नीडे रक्षितो वाय2सीभिः ॥ ३ ॥

अहो, नगरात्सुदूरमपक्रान्तोऽस्मि; तत्किमस्मात्प्रवहणादवतीर्य वृक्षवाटिकागहनं प्रविशामि ? उताहो प्रवहणस्वामिनं पश्यामि ? अथवा कृतं वृक्षवाटिकागहनेन । अभ्युपपन्नवत्सलः खलु तत्रभवानार्यचारुदत्तः श्रूयते; तत्प्रत्यक्षीकृत्य गच्छामि ।

स तावदस्मद्व्यसनार्णवोत्थितं निरीक्ष्य साधुः समुपैति निर्वृतिम् ।
शरीरमेतद्तमीदृशीं दशां धृतं मया तस्य महात्मनो गुणैः ॥ ४॥

 चेटः–इमं तं उजाणं, जाव उवशप्पामि । ( उपसृत्य ) अज्जमित्तेअ ।। [इदं तदुद्यानम् , यावदुपसर्पामि । आर्य मैत्रेय ! ।]

 विदूषकः--भो ! पिअं दे णिवेदेमि । वड्ढमाणओ मंतेदि । आगदए वसंतसेणाए होदव्यं । [भोः ! प्रियं ते निवेदयामि । वर्धमानको मन्त्रयति । आगतया वसन्तसेनया भवितव्यम् ।]


धमें त्यक्तकाष्ठानि तैः प्रतिरुद्धगमनः ॥ ३ ।। नरपतीति । सावशेषः किंचि- दवशिष्टः । कोकिलपक्षे नरपतिपुरुषाः शाकुनिकाः । सनिगड इव सनिगडो बाल्यान्मन्दगमनः । यानेऽधिरूढोऽनवस्थितः । काकस्त्रीरक्षितकोकिल उपमानम् । ३ ।। स इति । तस्य चारुदत्तस्य महात्मनो गुणैः । तत्प्रवणस्थस्य टिप्प०---1 प्रातर्निशि वसन्तसेनाभ्रमेणारूढत्वादज्ञात आर्यको यस्मिन्नीदृशे प्रवहणे तिष्ठेत्येवंभूतः। 2 कोकिल: । 3 अत्र वायस्युपमानमपत्येषु योषितामति ममतावत्वाद्युक्तम् । 4 राजबन्धनरूपद्दुःखात् ।  चारुदत्त-प्रियं नः प्रियम् ।

 विदूषक–दासीए पुत्ता ! किं चिरइदो सि १ । [ दास्याःपुत्र ! किं चिरायितोऽसि ?।]

 वेद---अज्जमित्ते्! मा कुप्प; जाणत्थलके विशुमलिदे त्ति कदु्अ गदागदं कलेंते चिलइदेम्हि । { आर्यमैत्रेय ! मा कुष्य; यानास्तरणं विस्मृतमिति कृत्वा गतागतं कुर्वंश्चिरायितोऽस्मि ।]

 चारुदत्तः----वर्धमानक ! परिवर्तय प्रवहणम् । सखे मैत्रेय । अव- तारय वसन्तसेनाम् ।

 विदूषकः--किं णिअडेण बद्धा से गोड्डा, जेण सअं ण ओदरेदि ! । ( उत्थाय, प्रवहणमुद्धाट्य ) भो ! ण वसंतसेणी, वसंतसेणो खु एसो । [ किं निगडेन बद्धावस्याः पादौ,येन स्वयं नावतरति ? । भोः ! न वसन्त- सेना, वसन्तसेनः खल्वेषः ।].

 चारुदत्तः–वयस्य | अलं परिहासेन । न कालमपेक्षते स्नेहः। अथ वा स्ययमेवावतारयामि । ( इत्युत्तिष्ठति )

 आर्यकः-( दृष्ट्वा ) अये अयमेव प्रवहणस्वामी । न केवलं श्रुतिरमणीयॊ दृष्टिरमणीयोऽपि । हन्त, रक्षितोऽस्मि ।

 चारुदत्तः---(प्रवहणमधिरुह्य, दृष्ट्वा च ) अये, तत्कोऽयम् ।।

क1रिकरसमबाहुः सिंहपीनोन्नतांसः
पृथुतरसमवक्षास्ता2म्रलोलायताक्षः ।
कथमिदमस3मानं प्राप्त एवं विधो यो
वहति निगडमेकं पादलग्नं महात्मा ॥ ५ ॥


चन्दनकेन रक्षितत्वात् ॥ ४ ॥ मा कुप्प मा क्रोधं कुरु ॥ गोड्डा पादौ ।

टिप्प०-1 नृपचिह्ललक्षितोऽयं महापुरुष इति सूचयत्येतैर्विशेषणैः । 2 रक्ताक्षं न जहाति भीः' इति प्रामाण्यात्। ३ निगडबन्धनाद्यनर्हमिति भावः । ततः को भवान् ? ।

 आर्यकः-शरणागतो गोपालप्रकृतिरार्यकोऽस्मि ।

 चारुदत्तः---- किं घोषादानीय योऽसौ राजा पालकेन बद्धः ।।

 आर्यकः-अथ किम् ।

 चारुदत्तः--

विधिनैवोपनीतस्त्वं चक्षुर्विषयमागतः ।।
अपि प्राणानहं जह्यां न तु त्वां शरणागतम् ॥ ६ ॥

(आर्यको हर्षं नाटयति )

 चारुदत्तः---वर्धमानक ! चरणान्निगडमपनय ।

 चेटः---जं अज्जो आणवेदि । (तथा कृत्वा ) अज्ज ! अवणीदाइं णिगलाइं । [यदार्य आज्ञापयति । आर्य ! अपनीतानि निगडानि ।

 आर्यकः----स्नेहमयान्यन्यानि दृढतराणि दत्तानि ।

 विदूषकः---संगच्छेहि णिअडाइं । एसो वि मुक्को । संपदं अम्हे वञ्चिस्सोमो । [ संगच्छस्व निगडानि । एषोऽपि मुक्तः । सांप्रत वयं व्रजिष्यामः ।]

 चारुदत्तः- धिक्, शान्तम् ।

 आर्यकः-सखे चारुदत्त । अहमपि प्रणयेनेदं प्रवहणमारूढः; तत्क्षन्तव्यम् ।

 चारुदत्तः–अलंकृतोऽस्मि स्यंयंग्राहप्रणयेन भवता ।।

 आर्यकः--अभ्यनुज्ञातो भवता गन्तुमिच्छामि ।

 चारुदत्तः–गम्यताम् ।


करीति ॥ ५ ।। विधिनेति ॥ ६ ॥ अलघुर्मन्दः ॥ क्षेमेणेत्यादौ चारुदत्तार्य  आर्यकः--भवतु, अवतरामि ।

 चारुदत्तः---सखे ! नावतरितव्यम् । प्रत्यापनीतसंयमनस्य भवतोऽल1घुसंचारा गतिः । सुलभपुरुषसंचारेऽस्मिन्प्रदेशे प्रवहणं विश्वासमुत्पादयति, तत्प्रवहणेनैव गम्यताम् ।

 आर्यकः--यथाह भवान् ।

 चारुदत्तः---

क्षेमेण व्रज बान्धवान्

 आर्यकः-

ननु मया लब्धो भवान् बान्धवः

 चारुदत्तः--

स्मर्तव्योऽस्मि कथान्तरेषु भवता

 आर्यकः--

स्वात्मापि विस्मर्यते ।

 चारुदत्तः----

त्वां रक्षन्तु पथि प्रयान्तममराः

 आर्यकः-

संरक्षितोऽहं त्वया

 चारुदत्तः-

स्वैर्भाग्यैः परिरक्षितोऽसि

 आर्यकः--

ननु हे तत्रापि हेतुर्भवान् ॥ ७ ॥

 चारुदत्तः----य2दुद्यते पालके महती र3क्षा न वर्तते, तच्छीघ्रमपक्रामतु भवान् ।। पाठा---9 लघुसंवारा, अतिलघुसंचारा. २ यत्रोद्यते. ३ रक्षा वर्तते.  आर्यको–एवम् , पुनर्दर्शनाय । ( इति निष्क्रान्तः )

 चारुदत्तः--

कृत्यैवं मनुजपतेर्महव्यलीकं
स्थातुं हि क्षणमपि न प्रशस्तमस्मिन् ।
मैत्रेय ! क्षिप निगडं पुराणकूपे ।
पश्येयुः क्षितिपतयो हि चारदृष्ट्या ॥ ८॥

(वामाक्षिस्पन्दनं सूचयित्वा ) सखे मैत्रेय ! वसन्तसेनादर्शनोत्सुकोऽयं जनः । पश्य

अपश्यतोऽद्य तां कान्तां वामं स्फुरति लोचनम्।
अकारणपरित्रस्तं हृदयं व्यथते मम ॥ ९ ॥

तदेहि, गच्छावः । ( परिकम्य ) कथमभिमुखमनाभ्युदयिकं श्रमणकदर्शनम् ? । ( विचार्य) प्रविशत्वयमनेन पथा । वयमप्यनेनैव पथा गच्छामः । ( इति निष्क्रान्ताः सर्वे )

इत्यार्यकापवाहनं नाम सप्तमोऽङ्कः ।


कयोरुत्तरोत्तरेणाष्टखण्डः श्लोकः ॥ ७ ॥ पालके राजनि रक्षक एव वा । रक्षणे महानभिनिवेश इत्यर्थः ॥ कृत्वेति ॥ ८ ॥ अपश्यत इति ॥ ९ ॥ श्रमणको भिक्षुः । अशकुनपरम्परा च चारुदत्तवसन्तसेनयोरनिष्टस्याग्रे भविष्यतः सूचनाय ॥ इत्यार्यकापवाहनो नाम सप्तमोऽङ्कः । टिप्प०-1 यथैतदङ्कादौ गताङ्कसमाप्तौ च वसन्ससेनाया दक्षिणक्षिस्फुरणमा- सीत्तथैदमप्यशुभसूचकम् । अनयोः स्फुरणयोः फलमनुपदमस्मिन्नष्टमेऽङ्के वसन्तसेनायाः शकारकृता मरणकल्पा यातना, चारुदत्तेन वसन्तसेना मारितेत्यभिशापेन चारुदत्तस्य निग्रहो वधार्थं नयनं च फलम् । ततश्चान्ते भाग्यवशादखिलापदां निवारणम् ।