← अध्यायः ०४९ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५०
[[लेखकः :|]]
अध्यायः ०५१ →

श्रीनारायण उवाच-
अथ पृथ्व्याः समीकारः कथं वै पृथुना कृतः ।
तत्ते वच्मि महालक्ष्मि ! कथेयं ब्रह्मदायिनी ।। १ ।।
आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
तस्य तास्वयनं यस्मात्ततो नारायणो विराट् ॥ २ ॥
विराजो नाभिपद्याद्वै पद्मं यदभवन्महत् ।
तत्र ब्रह्मा स्वयं जज्ञे ददर्श जालपूरितम् ।। ३ ।।
कमलं तु स्वकीयं तज्जले कर्दमरूपिणी ।
पृथिवीक्लेदिमाव्याप्ता न रौक्ष्यं तत्र दृश्यते ।। ४ ।।
विना रौक्ष्यं कथं तत्र पार्थिवजनिसेविनाम् ।
निवासो वृक्षवल्लीनामुद्भवश्चापि संभवेत् ॥ ५ ॥
ततस्तु ब्रह्मणा नारायणस्य स्तुतिरीरिता ।
नारायण दयासिन्धो सर्वाधार प्रपोषक ।। ६ ।।
विना पृथुलभावं वै जले स्थास्यन्ति काः प्रजाः ।
तस्माज्जले स्थितामार्द्रां सूक्ष्मकर्दमरूपिणीम् ।। ७ ।।
स्थूलावस्थां समानय्य पृथ्वीरूपं कुरु प्रभो ।
तद्विना मानवी सृष्टिश्चतुःखन्यभिरूपिणी ।। ८ ।।
कुत्र स्थास्यन्ति भक्ष्यं वा कस्मात्प्राप्स्यन्ति इत्यपि ।
नमोऽनन्तस्वरूपाय नमो धर्मधराय च ।। ९ ।।
नमः स्थूलस्वरूपाय नमः सूक्ष्मस्वरूपिणे ।
नमोऽन्वयस्वरूपाय सर्वान्तर्यामिणे नमः ॥1.50.१०॥
नमोऽक्षरस्वरूपाय नमो मुक्तात्मकाय ते ।
नमो व्यूहस्वरूपाय नमः कालस्वरूपिणे ॥११॥
नमः कृष्णादिरूपाय नमो हिरण्मयाय च ।
नमो वैराजरूपाय नमो गोलोकवासिने ॥१२॥
नमो वैकुण्ठवासाय नमोऽव्याकृतवर्तिने ।
नमो देवाय शान्ताय सूक्ष्मतत्वान्तरात्मने ॥१३॥
नमः कार्यस्वरूपाय नमः कारणरूपिणे ।
नमो नारीस्वरूपाय नमो बीजप्रदायिने ।।१४॥
नमः पृथुस्वरूपाय नमः सलिलशायिने ।
नमोऽग्न्यर्कस्वरूपाय नमो यज्ञमयाय च ॥१५॥
कृपां कुरु कृपानाथ जलात्स्थौल्यं विभावय ।
इत्येवं स्तूयमानः स देवदेवो जनार्दन ॥१६॥
दिव्यं श्वेतं सौम्यरूपं दधार कार्यसिद्धये ।
सहस्रवदनो देवः सहस्रलम्बदन्तुरः ॥१७॥
सहस्रघोणनासास्यः सहस्रखुरपादुकः ।
द्विसहस्रमहानेत्रो महारोमाञ्चगात्रकः ।।१८। ।
सहस्रपुच्छवालर्धिः सहस्रद्वयकर्णकः ।
महामेरुसमस्तत्र बभूव क्षणमात्रतः ॥१९॥
प्रहस्याऽजं स्वयं प्राह जलान्मे वै प्रतापतः ।
पृथ्वीं स्थूलां करिष्येऽहमानयिष्ये ततस्तदुत् ॥1.50.२०॥
मम वक्त्रेषु दन्तेषु लम्बमानेषु सर्वथा ।
अम्ब्लमाकर्षकं पिण्डीकारं सामर्थ्यमाभृतम् ॥२१॥
मम दन्तसमाश्लेषाजलानि निर्मलानि च ।
भविष्यन्त्यचिरात् तत्र स्थूलभावः पृथग्भवेत् ॥२२॥
कर्दमानां पिण्डीभावसामर्थ्येन तु दन्तुराः ।
पिण्डान् विधाप्य तान्सर्वानेकीकृत्य समग्रतः ॥२३॥
काठिन्यभावमापन्नां पृथ्वीं गोलकरूपिणीम् ।।
क्षणतश्चानयिष्यन्ति जलोर्ध्वस्थां तवाग्रतः ॥२४॥
ब्रह्मँस्तत्र निवासस्तु सर्वेषां सुगमो भवेत् ।
इत्यामन्त्र्य गतो देवो वाराहः श्वेतरूपवान् ॥२५॥
जलमालोक्य कृत्स्नं तत्स्थौल्यकर्दमसंस्तरान् ।
पिण्डान्कृत्वा स्वके घोणे स्थापयामास कोटिशः ॥२६॥
एकीकृत्य च तान्सर्वान्गोलकं संविधाय च ।
धृत्वा घोणदतोर्मध्ये ह्याजगाम जलोपरि ॥२७॥
गोलं पृथ्वीमहापिण्डं निधाय च जलोपरि ।
विरराम महाभूतः शूकरः परमेश्वरः ॥२८॥
ब्रह्मा च ऋषयः सर्वे नारदाद्या मुनीश्वराः ।
तुष्टुवुः कृतकार्यं तं सौम्यं पृथ्वीधरं हरिम् ॥२९॥
नमो यज्ञस्वरूपाय चितीमुखाय ते नमः ।
वेदपाद्युपदंष्ट्राय तत्क्रतुवक्षसे नमः ॥1.50.३०॥
अनलजिह्वाय दर्भरोम्णे तपस्विने नमः ।
ब्रह्मशिर्ष्णे नमो वेदतदंगश्रतिस्रग्विणे ॥३१॥
अहोरात्रक्षणधृगे नमः स्रुवसुतुण्डिने ।
नमः सदाज्यनासाय सामघोषस्वनाय च ॥३२॥
महते सत्यधर्माय नमो विक्रमशालिने ।
प्रायश्चित्तरथाय ॐ घोराय पशुजानवे ॥३३॥
उद्गात्रन्त्राय देवाय होमलिंगाय ते नमः ।
स्थानबीजाय देवाय सन्महौषधये नमः ॥३४॥
नमो मन्त्रस्फिजे भूम्ने नमो वेद्यान्तरात्मने ।
नम आज्यस्पृजे सोमशोणिताय च ते नमः ॥३५॥
वेदस्कन्धाय शान्ताय हविर्गन्धाय ते नमः ।
हव्यकव्यातिवेगाय नमः प्राग्वंशदेहिने ॥३६॥
नमो द्युतिमते नानादीक्षान्विताय ते नमः।
नमस्ते दक्षिणाहृदे योगिने सत्ररूपिणे ॥३७॥
नमः प्रवर्ग्यवित्तादिभूषणाय महात्मने ।
उपाकर्मेष्टिरुचिरब्रह्मणे प्रभवे नमः ॥३८॥
नानाछन्दोगतिपथजुषे प्राणाय ते नमः ।
नमो गुह्योपनिषदासनाय सवनाय ते ॥३९॥
इति स्तुतः परो देवो ह्याशीर्दत्वा तिरोदधे ।
वाराहस्य तिरोधाने पृथ्वीं दृष्ट्वा स्वयं त्वजः ।।1.50.४०॥
चिन्तयामास सततं सर्वतः शिखरान्विताम् ।
क्वापि निम्नां च खातां च क्वापि पाषाणपर्वताम् ॥४१॥
सम्यगालोच्य वेधाः स पुनः सस्मार तं प्रभुम् ।
तदा पृथुस्वरूपेण सधनुष्कः स आबभौ ॥४२॥
तस्य दक्षकरे चक्रधनुषोश्चिह्नमीक्षितम् ।।
ब्रह्मणा निश्चितो देवो भगवानयमित्यथ ।।४३॥
पृथिव्याः प्रविभागीय पृथ्वीं नाथ समीकुरु ।
इत्यर्थितः पृथुर्देवस्तदा संवर्तकाग्निना ॥४४॥
दाहयामास भूतुण्डान् विशीर्णा भस्मसंचयाः ।
जाताः सर्वे मृदवस्ते मृत्तिकास्ताः प्रकीर्तिताः ।।४५।।
समीकृत्य महीं सर्वां मृत्तिकास्तरशोभनाम् ।
बीजान्याधाय तत्स्थल्यां सस्यसम्पत्करीं व्यधात् ।। ४६॥
यत्राऽदग्धास्तु पाषाणास्तत्र तत्पर्वतान्व्यधात् ।
यत्र निम्नप्रदेशास्तु तत्र सारसकान् व्यधात् ॥४७।।
पृथुना तु भगवता नारायणमहात्मना ।
स्वेन क्षेत्राण्यरण्यानि ग्रामनगरखर्वटाः ॥४८॥
खाताऽखाताः समुद्राश्च नद्यो नदमहाप्लवाः ।
कृताः समयमालोक्य यत्राऽऽवश्यकता यथा ।।४९।।
लोकान्प्रकल्पयित्वा च प्रजासर्गं ससर्ज सः ।
पृथुः राज्यं परं कृत्वा व्यवस्थां वासदायिनीम् ॥1.50.५०॥
कृत्वा च ब्रह्मणे दत्वा स्वयमन्तर्बभूव ह ।।
तत आरभ्य सपटा समाना च समस्थली ॥५१॥
बभूव महती देवी पृथ्वी योग्यवसानका ।
पुनर्नाशे पुनर्देवः पृथुर्भूत्वा हरिः स्वयम् ॥५२॥
करिष्यति समां पृथ्वीं राजा भूत्वा मुहुर्मुहुः ।
ब्रह्मणः खलु कल्पान्ते दशलोकात्मिका तु भूः ॥५३॥
लयं जले यदा यायात् तदा तत्र मुहुर्मुहुः ।
स्वयं हरिः पृथुर्भूत्वा पृथ्वीं समीकरिष्यति ॥५४॥
कदाचित् पृथुश्चाहं मानसः संभवामि ह ।
कदाचित्तु ऋषिभ्यो वा राजभ्यो वा जनिग्रहः ॥५५।।
इति ते सर्वमाख्यातं पृथुरूपं मया धृतम् ।
अथ वै द्वापरान्ते तु किमभूत् कथयामि ते ॥५६॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने
जलशायिनारायणेन वाराहरूपेण पृथ्व्युद्धारः पृथुरूपेण पृथ्वीसमीकरणादिनिरूपणनामा पंचाशत्तमोऽध्यायः ॥ ५० ॥