लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ११९

← अध्यायः ११८ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ११९
[[लेखकः :|]]
अध्यायः १२० →

श्रीनारायण उवाच-
शंभुः प्राह पुनर्देवीं श्रीहरेर्मण्डपोपरि ।
प्रासादं शृणु कल्याणि! न भूतो न भविष्यति ।। १ ।।
लक्षयोजनविस्तारः सहस्रयोजनोच्छ्रयः ।
सहस्रस्तंभपंक्त्येका सहस्रपंक्तयस्तथा ।। २ ।।
कम्मानिकाचतुष्कीवत्सर्वत्र प्रोत्थिताः शुभाः ।
मध्ये महान् घूम्मटश्च दिक्षु चत्वार एव च ।। ३ ।।
चतुष्कोणेषु चत्वारि शिखराणि लसन्ति वै ।
शिखराणि सप्त तं वै घूम्मटं ध्रुवमेत्य च ।। ४ ।।
त्रीणि दक्षे च वामेऽपि त्रीणि मध्ये महत्तमम् ।
यत्कोल्यां मण्डपस्तत्र यदधः सिंहमासनम् ।। ५ ।।
सौधोपरि कोष्ठलोऽपि सहस्रयोजनोच्छ्रयः ।
कोष्ठलोपरि शिखरं सार्धसहस्रयोजनम् ।। ६ ।।
तत्र स्थिता पद्मशिला पञ्चशतसुयोजनम् ।
तत्र स्थलीशिला चास्ते शतयोजनमुच्छ्रया ।। ७ ।।
तदूर्ध्वं दिव्यसौवर्णकलशाः शतमेव च ।
तदुपर्येककलशी ततस्तद्गरिमो मतः ।। ८ ।।
तै वै पञ्चशतोच्छ्राया ध्वजदण्डस्ततः परम् ।
सहस्रयोजनोच्छ्रायो वंशश्चापि तथोच्छ्रयः ।। ९ ।।
ध्वजस्तत्राऽऽमूलपुच्छं पञ्चशतसुयोजनः ।
सप्तरंगो द्विपुच्छश्च कोटिसूर्यसमोज्ज्वलः ।। 1.119.१ ०।।
त एत चेतना मुक्ताः सेवार्थरूपधारिणः ।
चिह्नदेहाः सदा मुक्तास्तथा तिष्ठन्ति सेवने ।। १ १।।
शिखरे सांख्ययोगिन्यो योगिन्यो दिक्षु सन्ति वै ।
सिंहाश्चान्ये नरसिंहा ह्यवतारा भवन्ति वै ।। १२।।
गवाक्षास्तत्र शिखरे मुक्ताक्षाः संवसन्ति वै ।
पुत्तलिकास्तथा चान्या मुक्तान्यः संवसन्ति ताः ।। १ ३।।।
ध्वजदण्डे पाटलिका साध्वी मुक्ता तु सा मता ।
घण्टिण्यस्ताश्च मुक्तान्यो दिव्याः श्रीहरिसेविकाः ।। १४।।
दीपस्तत्र महादीपो महामुक्तो न चापरः ।
महतोऽपि महीयान्वै दीपः सर्वोत्तमो हि सः ।। १५।।
अन्येष्वपि तु शृंगेषु सर्वे मुक्ता वसन्ति वै ।
सौधोपरि घुम्मटोऽपि सहस्रयोजनोच्छ्रयः ।। १६।।
दिव्योऽयं वै महासौधो व्योमगस्तैजसः स्वयम् ।
यथेष्टश्रीहरेः कामाद्गच्छत्येव समन्ततः ।। १७।।
तत्रर्षीणां विमानानि कामगानि भ्रमन्ति वै ।
प्रदक्षिणां मन्दिरस्य तानि कुर्वन्ति भक्तितः ।। १८।।
दिव्याः शीतोष्णजलदा वह्निकुण्डाश्च शाश्वताः ।
अनित्याः शीतगन्धाश्च प्रकाशा दुग्धरूपिणः ।। १९।।
प्रदीपाः सत्यसंकल्पा उपस्कराश्च कामजाः ।
वस्त्रभोजनभूषादिपानवाहाश्च कामजाः ।।1.119.२० ।।
गृहा गृहोपसम्पत्तिः सेवकाः सेविकास्तथा ।
दिव्या दिव्यवपुष्मन्तो मुक्ता मूर्तय एव ते ।।२१।।
महासौधे स्वकं रम्यं सिंहासनं तु मध्यगे ।
तत्पार्श्वे धर्मदेवस्य भक्तेश्च वसतिर्ध्रुवा ।।।२।।
वामपार्श्वे तु मुक्तेश्च रतेश्च वसतिर्ध्रुवा ।
ज्ञानस्य धर्मपार्श्वे तु विरक्तेर्वसतिर्ध्रुवा ।।२३।।
मुक्तिपार्श्वे उपास्तेश्चाऽऽज्ञायाश्च वसतिर्ध्रुवा ।
आज्ञापार्श्वे मुमुक्षायाः प्रपत्तेर्वसतिर्ध्रुवा ।।२४।।
ज्ञानपार्श्वे कथायाश्च वार्ताया वसतिर्ध्रुवा ।
वार्तापार्श्वे दासताया दीक्षाया वसतिर्ध्रुवा ।। २५।।
इतिसप्तशिखराऽधोवासस्ते कीर्तितो मया ।
घुम्मटे वर्तुलं प्रदक्षिणायां गोत्रमण्डलम् ।।।२६ ।।
सप्तकुटुम्बकौटुम्बितत्तद्वासा भवन्ति वै ।
वर्तुलगोपुरे विद्या परा तदाप्यते यया ।।२७।।
वर्तुलस्तु महान्स्वर्णदिव्यप्राकार उच्यते ।
परितस्तत्र राजन्ते सौधा अनादिमुक्तजाः ।।२८ ।।
नित्यं तेषां तु सौधास्ते विमानानीव चेतनाः ।
कामगाः कामचारास्ते सर्वस्मृद्धिप्रपूरिताः ।। २९।।
भोज्यपानविलेपार्घ्यसर्वरससुखाश्रयाः ।
तेजस्विनः सदा दिव्या मुक्ताः श्रीहरिरूपिणः ।। 1.119.३० ।।
यथेष्टसर्वसामर्थ्या यथेष्टोत्पादभावनाः ।
तेषां नामानि वक्ष्ये त्वां शृणु पार्वति सुस्थिरा ।। ३१ ।।
गुणातीतश्च गोपालो ब्रह्म मुक्तः शुकः शत ।
सुव्रतो निष्कुलो भूमा विधाता वासुदेवकः ।। ३२।।
नित्योऽचिन्त्यश्च शान्तश्च कृष्णस्त्यागः कृपस्तथा ।
परहंसो विरागश्चिन्मयश्चाक्षर ईशनः ।। ३ रे ।।
स्वप्रकाशश्च कैवल्यो विरक्तश्चेतनस्तथा ।
चिद्रूपश्व नरश्चैव श्रीचरणश्च पावनः ।। ३४।।
धीरो महापूरुषश्च शिवश्चाधार एव च ।
चैतन्यो वैष्णवो विश्वात्मको निर्गुण एव च ।। ३५।।
सूरिः कल्याण ईशेशो ह्यरूपोऽमृत एव च ।
गोपः पद्मधराः श्वेतो वैकुण्ठो देव इत्यपि ।। ३६।।
प्रकाशश्च प्रसादश्च सुधर्मश्च सुखश्रयः ।
सुखरूपश्च सन्तोषो ज्ञानो विजय इत्यपि ।। ३७।।
बद्रिकश्च निवृत्तश्च नयो ध्यानश्च शान्तनुः ।
शमः सुखो महासुखोऽचिन्त्योऽमोघः प्रमोदकः ।। ३८ ।।
गवेन्द्रोऽनुभवश्चादित्योऽचलो विश्वरूपकः ।
प्रज्ञो बोधश्च वेदान्तो मुकुन्दः क्षेम इत्यपि ।। ३ ९।।
पुण्डरीको विधाता चाऽग्राह्यः शाश्वत इत्यथ ।
ध्रुवोऽमेयः पवित्रश्च स्थविष्ठश्च ऋषीककः ।।1.119.४० ।।
प्रभूतो नियमो योगो जगदीशो दयालयः ।
सुरो धर्मो मुनिर्नारो बलभद्रः प्रकाशनः ।।४ १ ।।
सिद्ः सुखकरश्चैव विश्रामः केशवस्तथा ।
कपिलः स्वयशो द्रष्टा सज्जनः सांख्य इत्यपि ।।४२।।
भास्करश्च प्रभश्चापि ऋषभः सगुणस्तथा ।
निर्द्वन्द्वश्च नृसिंहश्च विदेहो देव इत्यथ ।।४३ ।।
निरालम्बश्च विश्वासो निर्विकारः प्रदीपनः ।
निरपेक्षो निरन्नश्च सत्त्वो लक्ष्मण इत्यपि ।।४४।।
निर्मोहो भूधरश्चैव भद्रो मानद् इत्यपि ।
हंसः प्रद्युम्न आनन्दो मंजुलश्च प्रतोषणः ।।।४५।।
भजनो निर्मलः शान्तः प्रशान्तो धन्य इत्यथ ।
सविता धरणः सुज्ञः सत्येशो ज्योतिषस्तथा ।।४६।।
प्रबोधश्च प्रभुश्चैव पद्मः तापस इत्यपि ।
तुरीयश्च स्वरूपश्च विवेको वामनस्तथा ।।४७।।
निवासो मंगलश्चैवाऽक्षयः सुव्रत एव च ।
अभेदश्च तुरीयश्च क्षेमकश्च दृढव्रतः ।।४८ ।।
निर्विशेषो विचारश्च जिष्णुर्मधुश्च वैष्णवः ।
अव्ययो मुक्तिगश्चैव वरद संशितस्तथा ।।४९।।
वल्लभश्च सुपर्णश्च विश्वध्रो दुर्लभस्तथा ।
धनश्चैव प्रसादश्च श्यामश्च दहरस्तथा ।।1.119.५० ।।
ऐश्वर्यश्चावदातश्च राधश्च धर्मरूपणः ।
व्रजो भागवतो बालः उपशमश्च स्वस्तिकः ।।५ १ ।।
संकर्षणः श्रीधरश्चामृतो यज्ञो हिरण्यकः ।
ईशानः प्रभवः पूतो भूगर्भः प्राणदः प्रणः ।।५२।।
संवत्सरः कृतः शिवः कृतज्ञश्च सुरेश्वरः ।
बुधो वृषो वसुः साम गुणोऽध्यक्षः प्रवेदनः ।।५३।।
लोको व्यूहः सर्वगश्च भ्राजिष्णुश्चरणस्तथा ।
सहिष्णुश्चतुरोऽनघश्चोर्जितः कारणस्तथा ।।२४।।
उपेन्द्रश्च धृतश्चैव सत्त्वः सात्त्वत इत्यपि ।
उत्साहो विश्रुतश्चैवाऽनिर्देशश्चाऽनिमेषणः ।।५५।।
उदारश्च सुभूषश्चाऽनिलश्च विक्रमस्तथा ।
सत्कारः संवृतो वृत्तो विशिष्टः सिद्धिमाँस्तथा ।।५६।।
वर्धनश्च विविक्तश्च बृहद्रूपः पृथुःश्रवः ।
अशोकश्च सुदामश्च सानुकूलोऽतुलस्तथा ।।५७।।
आदिदेवः श्रीगर्भश्च निर्वाणो भाजनस्तथा ।
व्यवसायश्च सन्तोषो विरामो नन्द इत्यथ ।।५८।।
स्थिरः सुदर्शनश्चैव विशालो दक्ष इत्यपि ।
धर्मयूपस्तथेज्यश्च मखः सूक्ष्मः प्रमाणकः ।।५९।।
ब्रह्मण्यो वत्सलश्चैव शुभांगश्च पुरातनः ।
सन्धानश्च प्रमोदश्च नन्दनश्च सुपुण्यकः ।।1.119.६० ।।
दुर्जयः कुमुदश्चैव सुलभः शुद्ध इत्यपि ।
योगीशश्च सुविद्यश्च साक्ष्यो धनंजयस्तथा ।।६ १ ।।
अखण्डश्च त्रिलोकश्च सुहृद् भूमा हिरण्मयः ।
भवो भावः क्रतुश्चैव समाराधन इत्यपि ।।६२।।
वत्सलो वात्सलश्चैव सुस्नेहश्च कुबेरजित् ।
सोमोऽलर्कश्च शूरश्च मन्त्रो मञ्चश्च मूलजित् ।।६३।।
तिलकः कुण्डलश्चैव किरीटः कटकोंऽगदः ।
नक्तकः कौस्तुभश्चैव प्रावारः कंचुकस्तथा ।।६४।।
इत्येवं पार्षदास्तत्र प्राकारे कृतसंश्रयाः ।
सदा तिष्ठन्ति सौधेषु प्रथमावरणे हि ते ।।६५।।
अनादिनश्च ते मुक्ता वसन्ति हरिसेविनः ।
असंख्याताश्च ते सन्ति द्वितीयाऽवरणेऽपि च ।।६६।।
सर्वे मूर्तिसमाकारा मूर्तितुल्यैश्वराश्च ते ।
सर्वे पश्यन्ति साम्येन श्रीहरेर्मन्दिरं करे ।।६७।।
न न्यूनाधिकभावोऽस्ति तत्रैश्वर्यादिसद्गुणे ।
यथेच्छन्ति भवन्त्येव नित्यसार्वज्ञ्यचाक्षुषाः ।।६८।।
कोटियोजनविस्तारः प्राकारः प्रथमो हि सः ।
अब्जयोजनविस्तारः प्राकारो द्वित्वसंख्यकः ।।६९।।
परार्धयोजनायामः प्राकारस्तु तृतीयकः ।
तत्र चेश्वरलोकेभ्यो गता मुक्त वसन्ति वै ।।1.119.७०।।
तुर्यः परार्धगुणितपरार्धयोजनायतः ।
प्राकारस्तत्र मुक्तानां गतानां सन्ति सृष्टयः ।।७१।।
ततस्तु पंचमं तत्रावरणं स्यादनन्तकम् ।
असीमं तत्र गोलोको वैकुण्ठोऽमृत इत्यपि ।।७२।।
अव्याकृतस्तथा श्वेतो बद्रिकाश्रम इत्यपि ।
मात्स्यलोकः कूर्मलोको वाराहो लोक इत्यपि ।।७३।।
कापिलं धाम हारेयं वासुदेवगृहं तथा ।
पार्थवं च पदं दत्तात्रेयधाम च हांसकम् ।।७४।।
नृहरेर्धाम च यद्वदार्यमं वामनेयकम् ।
परशुरामलोकश्च याज्ञं साकेतमित्यपि ।।७५।।
कौमारं धाम च हायग्रीव नारदधाम च ।
राजराजेयधामानि व्यासाश्रयाणि यान्यपि ।।७६।।
बौद्धं धाम तथाऽन्यान्यसंख्यधामानि सन्ति वै ।
अनन्ता ह्यवताराश्चानन्ता ब्रह्माण्डकोटयः ।।७७।।
अनन्तसृष्टयस्तत्रावताराणां न संख्यनम् ।
अतस्तत्तद्धाम्नां वै संख्या नैव च नैव च ।।७८।।
पंचमावरणस्यापि संख्या नैव च नैव च ।
तत्रारण्यानि नद्यश्च पार्वता मुक्तकोटयः ।।७९।।
उद्यानानि विहाराणि भूमयोऽक्षरसंज्ञिकाः ।
धातवः खनयः खाता उच्छ्रयाः शिखराणि च ।।1.119.८०।।
विमानान्येव सर्वाणि तत्तत्सेवकजातयः ।
गान्धर्वा नर्तकास्तत्राऽऽख्यानका वंशबोधकः ।।८ १।।
सेवका याज्ञिका साम्नां स्तावको व्यवसायकाः ।
कलाकाराश्च श्रांगारा मुक्तानीमुक्तमण्डलाः ।।।८२।।
असंख्याता न संख्यातुं कोऽपि नारायणमृते ।
सोऽपि प्राह मम धाम्नो मुक्तानां नास्ति संख्यनम् ।।८३।।
अवताराणां च धाम्नां नैवाऽस्ति गणनं तथा ।
एवं दिव्येऽक्षरे धाम्नि विभूतौ त्रिपदि प्रथे ।।८४।।
वर्तन्ते धामधामानि श्रीहरेर्लीलया ततः ।
महामायाकृता सृष्टिर्भवन्तीश्वरकोटयः ।।८५।।
नान्तो नान्तं वर्णनेऽपि कर्तुं शक्यो हि कश्चन ।
कथमहं तदन्तेन वर्णनं पारयामि वै ।।८६।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने श्रीहरिप्रासादपरिकरतत्प्रावरणतन्मुक्तपार्षदतदवतार-धामादिसामान्यविशेषोद्देशनामा एकोनविंशा-
धिकशततमोऽध्यायः ।। ११९ ।।