लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः २१५

← अध्यायः २१४ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः २१५
[[लेखकः :|]]
अध्यायः २१६ →

श्रीकृष्ण उवाच-
शृणु त्वं राधिकेऽब्धिस्थे द्वीपे कूपेशभूपतिः ।
सम्मानं श्रीहरेश्चक्रे क्यूबाख्ये बहुशोभिते ।। १ ।।
जलयन्त्रैर्वाहनैश्च नौकाभिश्च प्रजास्तदा ।
हवानाया नगर्याः सन्निधौ तूद्यानकेऽगमन् ।। २ ।।
विमानं त्वब्धितीरस्य सन्निधौ भूतले शुभे ।
अवातरत् ततो राजा श्रीकृष्णसन्निधिं ययौ ।। ३ ।।
ननाम पादयोश्चापि पुष्पहारान् ददौ गले ।
राज्ञी पुपूज देवेशं पुष्पलाजाऽक्षतादिभिः ।। ४ ।।
हेयतायनराजर्षिः पुपूज परमेश्वरम् ।
नगर्यां श्रीहरिं राजा भ्रामयामास वाहनैः ।। ५ ।।
सुवर्णशकटीमध्ये निषाद्य छत्रचामरैः ।
शोभितं श्रीहरिं लोकाः पूजयामासुरादरात् ।। ६ ।।
द्रव्यैः फलैश्चाम्बराद्यै रत्नैश्चन्दनकेसरैः ।
पूगीफलादिभिर्नारिकेलैश्च शर्करादिभिः ।। ७ ।।
ततः कृष्णं तु नौकायां निषाद्य भूपतिः स्वयम् ।
अब्धौ विहारयामास द्वीपस्य सन्निधौ तदा ।। ८ ।।
अथ भोजनवेलायां मध्याह्ने भोजनं व्यधात् ।
भगवान् सार्थयुक्तो वै तदा राज्ञी समागता ।। ९ ।।
पूजनार्थं हरिं तत्र तत्पुत्रीं हरये ददौ ।
ताम्बूलं कान्तमालां च कण्ठे न्यधाद्धरेर्हि सा ।। 2.215.१० ।।
कन्या प्राप्य पतिं कृष्णं कृतकृत्या बभूव सा ।
माता चातिप्रसन्नाऽभूद् राजोत्सवं चकार ह ।। १ १।।
ततो विश्रान्तिमापाऽयं भगवान् भवनोत्तमे ।
अथाऽऽयाद् दर्शनार्थं हि कन्याया मातुलो नृपः ।। १२।।
कुलम्बायनराष्ट्रेशो विगोष्ठानगरीपतिः ।
नाम्ना कालीमण्डलीनः पुपूजापि स माधवम् ।। १३ ।।
श्रीहरिं चार्थयामास स्वराष्ट्रगमनाय हि ।
हरिस्तथास्त्विति प्राह तदा सज्जोऽभवद् द्रुतम् ।। १४।।
कूपेशश्च विदायं श्रीहरये यौतकं ददौ ।
ययौ कालीमण्डलीनः पूर्णासनर्षियुक् पुरः ।। १५।।
भगवान् स्वविमानस्थो व्योम्ना ययौ विगोष्ठिकाम् ।
समुद्रं समतीत्यैव सायं त्ववाप तां पुरीम् ।। १६।।
राजा सैन्येन सहितः सम्मानं बहुधा व्यधात् ।
अवाततार भगवान् विगोष्ठिकान्तिकक्षितौ ।। १७।।
प्रजास्तं वर्धयामासुरत्यर्थं चाक्षतादिभिः ।
भगवान् स्वविमानाच्चाऽवतीर्यार्पितकाञ्चने ।। १८।।
निषसादासने दिव्ये राजा ननाम पादयोः ।
पुष्पस्रजो ददौ कण्ठे गन्धसारं ददौ तथा ।। १९।।
ताम्बूलकं जलं चापि ददौ सार्थेभ्य इत्यपि ।
सैन्येन सहितो राजा भ्रामयामास वाहनैः ।। 2.215.२० ।।
गजाश्वशकटीभिश्च तथा मानववाहनैः ।
विगोष्ठाख्यनगर्यां वै प्रजाः पुपूजुरच्युतम् ।। २१ ।।
गजयाने स्थितं कृष्णं पितरौ च कुटुम्बकम् ।
ईशानं लोमशं चापि सतीं लक्ष्म्यादिकास्तथा ।। २२।।
अश्वयानस्थिताँश्चान्यान् सेवकानृषिसत्तमान् ।
ब्रह्मप्रियादिकाः सर्वाः शिबिकास्थाश्च योषितः ।।२३ ।।
प्रजाः प्रधाना विप्राद्याः श्रेष्ठिनो धनिनस्तथा ।
दीना नराः स्त्रियः सर्वाः पुपूजुश्च यथाधनम् ।।२४।।
नमनैः स्तवनैश्चापि हृदयैर्नेत्रकैः करैः ।
भावनैः पुष्पहाराद्यैः फलैश्च शर्करादिभिः ।। २५।।
पुपूजुः परमेशानं प्राप्तं दिव्यगुणोदधिम् ।
एव नगरीं सर्वां तां भ्रमित्वा भगवान् प्रभुः ।।२६।।
आययौ चार्षितावासं सभां चकार शोभनाम् ।
उपदेशं ददौ तत्र योग्यं योग्यतरं हरिः ।।२७।।
येषां देवेऽस्ति विश्वासस्तेषां फलति विश्वसृट् ।
येषां नास्ति तु विश्वासस्तेषां फलं न जायते ।।२८।।
भवतां चातिविश्वासात् प्राप्तिर्मेऽत्र सुखावहा ।
जाता कालीमण्डलीनभूभृता द्वाररूपिणा ।।२९।।
अहं चास्मि परेशो वै सर्वावतारधृक् प्रभुः ।
परब्रह्म हृदयस्थश्चान्तर्यामी फलप्रदः ।।2.215.३ ०।।
पूजने सेवने चापि दर्शने वन्दनेऽर्पणे ।
पादसंवाहने दाने फलदोऽस्मि न संशयः ।।३ १ ।।
मम भक्तो महादेवः पुरा बालमजीवयत् ।
विश्वस्तानां जम्बुकस्य वाक्यादपीति तत्तथा ।।३२।।
देवा विश्वासपूज्याश्च नृपा विश्वासवर्तिनः ।
शरणागतिमाप्तानां विश्वासः प्रथमा स्थितिः ।।३३।।
वरणं च ततः प्रोक्तं चार्पणं च ततः परम् ।
दीनवत् सेवनं चापि स्थैर्यभावस्ततः परम् ।।३४।।
यथा यथा हरिस्तुष्येत्तथा तथाऽनुवर्तनम् ।
न तुष्येत्तु यया रीत्या तस्या तस्या विवर्जनम् ।।३५।।
एवमादीनि कर्माणि साधनानि विमुक्तये ।
सन्तीह मानवे भावे सर्वत्रापि तथा स्थितिः ।।३६।।
तस्मात् सेव्योऽहमेवात्र मुक्तये स्मृद्धये सुराः ।
शाश्वतानन्दलाभाय सेव्योऽहं परमेश्वरः ।।३७।।
श्रद्धया सेवितश्चाहं विश्वासेन विनोदितः ।
ददामि श्रेयःसर्वस्वं स्वं लक्ष्मीं प्रददाम्यहम् ।।३८।।
जीवनं धनसम्पत्तिं चारोग्यं वंशविस्तरम् ।
भोगान् भोग्यान् भोगशक्तीर्ददामि नात्र संशयः ।। ३९।।
पुरा पापकृतश्चापि पश्चात् पुण्यनिषेविणः ।
मृता अपि पुरा ते वै जीविता इति निश्चयः ।।2.215.४०।।
पुरा पुण्यकृतश्चापि पश्चात् पापनिषेविणः ।
जीवितास्ते पुरा पश्चान्मृता एव हि ते मताः ।।४१ ।।
तस्मान्मृतानां जीवाशा जीवनं दीयते तु यः ।
जीवनस्य प्रदाता स गुरुर्बोध्यः परमेश्वरः ।।४२।।
जीवन्नपि हरिं नैव जानाति गोचरं प्रभुम् ।
मृत एव श्वसन् भस्त्रासदृशो मत एव ह ।।४३।।
तादृशोऽपि सतां योगाद् भगवन्तमुपागतः ।
भजन् स्थितश्चालसोऽपि जीवत्येवाऽमृतो हि सः ।।४४।।
जीवनं जीवनीयं वै मिष्टं श्रीहरिसेवनात् ।
रूक्षं तु जीवनं त्याज्यं विषयादिप्रसेवितम् ।।४५।।
मरणेऽपि निकटेऽपि स्मर्ता मे याति मद्गृहम् ।
तथा बुद्ध्या स्मरेन्मां वै विश्वासेन मिलाम्यहम् ।।४६।।
अश्वपट्टसरस्तीर्थेऽक्षरक्षेत्रे पुराऽभवत् ।
विप्रस्य वृद्धदेवस्य वार्धक्ये त्वेकपुत्रकः ।।४७।।
ययौ जले सुतः स्नातुं जलमध्ये पपात ह ।
मृतः सोऽयं मृतकल्पो जलपानेन सोऽभवत् ।।४८।।
प्राणस्तस्याऽभवन् मूर्ध्नि न चायाति च नेत्रयोः ।
नाड्यो नैव प्रसरन्ति चोष्मा नापि च विद्यते ।।४९।।
मृतो वा मृतकल्पो वा दृश्यते स्थापितो भुवि ।
गोमयेन प्रलिप्तायां जना ज्ञात्वा मृतं च तम् ।।2.215.५०।।
पित्रा साकं खातभागं निन्युर्यत्र श्मशानकम् ।
तत्राऽऽसीद् वृद्धगृध्रोऽपि ददर्श मृतबालकम् ।।५१ ।।
धृतं चांके जनकेन रुदताऽत्यजता तदा ।
पिता बालं परित्यज्य गन्तुं शक्नोति नैव तु ।।५२।।
अन्येऽपि बालकं त्यक्त्वा प्रतिगन्तुं न शेकिरे ।
तदा गृध्रः समागत्याऽब्रवीद् गच्छत वै गृहम् ।।५३।।
इह नार्यो नरा नित्यं सहस्राधिकतः खलु ।
आयान्ति तु मृताँस्त्यक्त्वा प्रयान्ति स्वगृहं सदा ।।।५४।।
नहि कश्चित् समायाति मृतः पुनः शरीरके ।
जगत् सर्वं तथाभूतं संक्लृप्तं वर्तते यतः ।।५५।।
सुखदुःखादिसंव्याप्तं तत्र का परिदेवना ।
मृता याता मृतवाहाः मरिष्यन्ति क्षणान्तरे ।।५६।।
इति ज्ञात्वा ये भजेरन् हरिं ते चिरजीविनः ।
न पुनः प्राणवान् कश्चिन्महाकालमुखं गतः ।।५७।।
प्रियेऽप्रियेऽपि समता कालस्य गतिरीदृशी ।
सर्वेण खलु गन्तव्यं जन्मवतेह देहिना ।।५८।।
कर्मान्तजीवने याते पुनर्जीवो न लभ्यते ।
यान्तु गृहाणि सन्त्यज्य मृतं शवं प्रयान्तु शम् ।।५९।।
एवं ज्ञानं समासाद्य समुत्सृज्य क्षितौ नराः ।
प्राक्रोशन्तो ययुः स्नानह्रदं ज्ञात्वा मृतं हि तम् ।।2.215.६०।।
तत्राऽभूज्जम्बुकवृद्धश्चागत्योवाच ताञ्जनान् ।
निर्घृणा मानवाः सर्वे निर्दयाः स्नेहवर्जिताः ।।।६ १ ।।
कथं त्यक्त्वा गमने वै हृदयं वः प्रजायते ।
दिवसोऽस्ति मुहूर्तश्च बहुरूपो विवर्तते ।।६२।।
कदाचिन्मृत एवापि जीवन् याति श्मशानतः ।
यूयं वै निर्वृणास्त्यक्त्वा कथं याथ हि निर्दयाः ।।६३।।
तस्य चक्षुः श्रुतिर्नासा देहः सर्वोऽपि विद्यते ।
न वोऽस्त्यस्मिन् किमु स्नेहः पशुपक्षिसमोऽपि न ।।६४।।
अस्वार्थवर्धितानां तु बालानां सदृशोऽपि न ।
चतुष्पात्पक्षिकीटानां पोषितानामपि क्वचित् ।।६५।।
फलागमो न चैवाऽस्ति न गुणोऽपि कथंचन ।
तथापि मृतबालाँस्ते यावत्पश्यन्ति भूतले ।।६६।।
तावन्नैव त्यजन्त्येते तावान् स्नेहोऽपि नास्ति वः ।
ततो मा यान्तु विसृज्य कुलदं पुत्रमुत्तम् ।।६७।।
चिरं पश्यत पुत्रं तं यावद्देहोऽस्ति चाक्षतः ।
यत्र नाऽन्ये हि तिष्ठन्ति तत्र तिष्ठन्ति बान्धवाः ।।६८।।
जम्बुकस्य वचः श्रुत्वा स्नाता अपि नराश्च ते ।
पुत्रस्नेहपराभूताः समायाताः श्मशानकम् ।। ६९।।
गृध्रस्तावद् विलोक्यैवोवाच जनान् शुचान्वितान् ।
अहो वै मानुषा भूत्वा किमायाता विमोहिताः ।।2.215.७०।।
प्राणेन्द्रियैः परित्यक्तं भूतात्मकं शवं त्विदम् ।
शुष्कं काष्ठत्वमापन्नं कथं शोचथ वेदिनः ।।७१ ।।
किन्न शोचथ चात्मानं गत्वरं किन्नु शोचथ ।
तपसा नाश्यते पापं भक्त्या भवान्तरादि च ।।७२।।
विलापेन भवेत् किं वै गतस्य बालकस्य नु ।
ऋणं दत्वा च वा नीत्वा यान्ति देहधरा भुवि ।।।७३।।
बालोऽयं गतवान् तद्वद् दत्वा शोकमनन्तकम् ।
गृहं स्वर्णं धेनवश्चापत्यं रत्नानि भूतयः ।।७४।।
सर्वं तपोऽर्ज्यमेवाऽस्ति भक्त्या लभ्यं तथा मतम् ।
पुण्यलभ्यं च वै सर्वं पुण्यं शोचय यद्धितम् ।।७५।।
स्वकृतेन तु धर्मण पापेन सुखिदुःखिता ।
पिता पुत्रोऽथवा बन्धुः सुखी दुःखी स्वकर्मभिः ।।७६।।
तस्माद् यात निजान् गेहान् धर्मं कुरुत सत्तमाः ।
वर्तध्वं च हरेर्भक्तौ सत्सु सुरेषु पितृषु ।।७७।।
शोकं त्यजत मोहं च निवर्तध्वं विहाय तत् ।
विद्वान् वा यदि वा चाऽज्ञो राजा धनी च निर्धनः ।।७८।।
सर्वः कालवशं प्राप्तः पुनरायाति नैव ह ।
यूनो बालान् स्थवीराँश्च गर्भान् नारीर्नरानपि ।।७९।।
सर्वानाविशते मृत्युर्नयत्येवाऽपुनर्गमान् ।
इत्युक्ता मानवास्ते तु हित्वा शवं प्रयान्त्यथ ।।2.215.८० ।।
तावद्वै जम्बुक आह केन स्नेहो हतो हि वः ।
स्नेहहीनस्य वाक्येन स्नेहहीनाः कृताः कथम् ।।८ १।।
दैवं पुरुषकारश्च श्रद्धा विश्वास इत्यमी ।
कृतान्तं चापि दूरं वै द्रावयन्ति कदाचन ।।८२।।
अनिर्वेदेन भाव्यं वै निर्वेदे वै कुतः फलम् ।
प्रयत्नात्प्राप्यते सर्वं मा यान्तु निर्दयाः कथम् ।।८३।।
आत्ममांससमुत्थं तु पितृवंशस्य साधनम् ।
शवं त्यक्त्वा स्थिते सूर्ये निर्दयाः क्व प्रयास्यथ ।।८४।।
अस्तंगते हि गन्तव्यं स्थातव्यं चात्र वा पुनः ।
आराधिताः सुराश्चापि ददत्यसून् दयालवः ।।८५।।
इत्युक्तास्ते ऋतं मत्वा समायाताः शवं प्रति ।
अथ गृध्रो जगादेनान् बालिशाः स्थेति भाति मे ।।८६।।
अत्र बहूनि वर्षाणि मे जातस्य गतानि हि ।
न दृष्टं जीवितं मृत्वा पुनः स्त्रीपुंनपुंसकम् ।।८७।।
गर्भा बालाः किशोराश्च युवानो जरठा अपि ।
मृताः पुनर्न जीवन्ति सम्बन्धिस्नेहिता अपि ।।८८।।
शोकितास्तु गृहं यान्ति सम्बन्धिबान्धवादयः ।
त्यज्यतामेष देहोऽपि शून्यः काष्ठसमः सुतः ।।८९।।
अन्यत्र वै गतं त्यक्त्वा कथं गृहं न यास्यथ ।
नात्रेन्द्रियाणि प्राणाश्च त्यक्त्वा कथं न गच्छथ ।। 2.215.९०।।
परलोके सुखार्थं वै यत्नं कुरुत सत्तमाः ।
श्रुत्वैवं विनिवृत्तास्ते जम्बुकस्तावदाह तान् ।।९ १ ।।
अहो स्वर्णसमं पुत्रं त्यक्त्वा यान्ति हि निर्घृणाः ।
राक्षसा अपि पुत्रं स्वं त्यक्त्वा नैव प्रयान्ति हि ।।९२।।
येषां नास्ति स्वयं प्रज्ञा तेषां किमुपदेशनैः ।
श्वेतराजस्य वै पुत्रो मृतः संजीवितः पुनः ।।९३।।
सत्यवान् जीवितः पत्न्या सावित्र्याऽपि पतिः पुनः ।
हरिश्चन्द्रसुतश्चापि मृतः सञ्जीवितः पुनः ।।९४।।
रुक्मांगदस्य पुत्रोऽपि मृतः सञ्जीवितः पुनः ।
नचिकेतस्य पुत्रोऽपि मृतः सञ्जीवितः पुनः ।।९५।।
मरुतो नाम देवाश्च गर्भे हताश्च जीविताः ।
तथा भाग्याल्लभेत् कश्चिन्मृतं तु जीवितं पुनः ।।९६।।
देवः कुर्यात् कृपणानामनुक्रोशं ददात्यसून् ।
इत्युक्तास्ते न्यवर्तन्त लब्धाशाः स्नेहिलाः पुनः ।।९७।।
गृध्रः पुनः समागत्योवाच तानाशया हतान् ।
तपसाऽपि भृताश्चैवैश्वर्यवन्तो महाधियः ।।९८।।
मृत्युं गता न चायान्ति प्रेतपत्तनतः पुनः ।
अलमाशाबन्धनेन मृतस्य जीवने त्विह ।।९९।।
नैव शृगालशतकं जीवयिष्यति प्रेतकम् ।
अथेशानो हरिर्ब्रह्मा यमराजोऽथवेश्वराः ।। 2.215.१ ००।।
यदि त्वेनं जीवयेयुस्तदा जीवेन्न चान्यथा ।
नैव वस्त्वत्र वासेन रोदनेनापि जीवनम् ।। १० १।।
बाष्पस्रावेण वा श्वासैः कुट्टनैरपि जीवनम् ।
देवस्याऽऽराधनं कुर्मो मिलित्वा धर्मसंयुताः ।। १ ०२।।
यदि स्याज्जीवनं यावदाप्रातः कुर्म एव ताम् ।
श्रुत्वैवं ते निराशाश्च त्यक्त्वा शवं प्रयान्ति तु ।। १ ०३।।
जम्बुकस्तावदागत्योवाच शान्तिमयं पुनः ।
मा प्रयान्तु निराशा वै धिग् गृध्रं स्नेहवर्जितम् ।। १ ०४।।
सुखस्याऽनन्तरं दुःखं दुःखस्याऽनन्तरं सुखम् ।
अवश्यं जायते तस्मान्मा विसृज्य प्रयान्त्विह ।। १ ०५।।
जीवन्तमेव पश्यामि क्षणान्तरे न संशयः ।
इत्याशायोजिताः सर्वे स्थिताः प्रतीक्षया पुनः ।। १ ०६।।
गृध्रः प्राह श्मशानाख्यः प्रदेशोऽयं हि दारुणः ।
आशां त्यक्त्वा शवं त्यक्त्वा कुर्वन्तु प्रेतकार्यकम् ।। १०७।।
सूर्ये त्वस्तं गते प्रेता यक्षा भूताश्च राक्षसाः ।
युष्मान् प्रधर्षयिष्यन्ति रौद्राः पललखादकाः ।। १ ०८।।
जम्बुकोक्तौ श्रद्दधाना द्रुतं सर्वे विनंक्ष्यथ ।
इत्युक्तास्ते प्रयान्त्येव तावच्छृगालकोऽवदत् ।। १ ०९।।
मा भयं यात मा यात क्रव्यादवाक्यमोहिताः ।
वो विद्राव्य स्वार्थिगृध्रः शवं वै भक्षयिष्यति ।। 2.215.११ ०।।
गृध्रः प्राह न चाहं वै स्वार्थी स्वार्थी तु जम्बुकः ।
अन्धकारे निजं भक्ष्यं शवं चेच्छति वञ्चनात् ।। ११ १।।
इत्युक्ता ज्ञातवन्तस्ते तौ स्वार्थसाधकाविति ।
स्वार्थार्थबद्धकक्षौ च क्षुधान्वितौ च जल्पिनौ ।। १ १२।।
वञ्चकाभ्यां शवं नैव दातव्यं चेति निश्चिताः ।
सायं शंभुं सस्मरुस्ते पुत्रस्नेहसमाकुलाः ।। १ १३।।
तावद् देव्या नोदितः श्रीशंभुस्तत्र समागतः ।
नेमुः शंभुं तु ते दुःखं न्यवेदयँस्ततो हरः ।। १ १४।।
जीवितं प्रददौ तस्मै दशवर्षसहस्रकम् ।
स्वार्थपरौ वञ्चितौ च पुत्रो जीवनमाप्तवान् ।। १ १५।।
हरमाराध्य ते पुत्रं प्राप्ताश्च सुखिनोऽभवन् ।
गृहं याता हि विश्वस्ताः फलमाप्ता हि जीवनम् ।। १ १६।।
प्राप्तं च वञ्चकाभ्यां तु कर्मणा परियापितम् ।
तस्माद् विश्वासमासाद्य मां हरिं पुरुषोत्तमम् ।। १ १७।।
भजन्त्वनन्यभावेन रक्षयिष्ये न संशयः ।
दास्ये च जीवनं धाम्नि शाश्वतानन्दसंभृतम् ।। १ १८।।
इत्युक्त्वा प्रददौ मन्त्रान् प्रजाभ्यो भगवान्स्वयम् ।
वैष्णवान् कृतवान् कृष्णनारायणो निजाश्रितान् ।। ११९ ।।
राधिके श्रीहरेर्वाणीं श्रुत्वाऽऽश्रयं व्यधुस्ततः ।
पूजयित्वा हरिं नैजान् गृहान् ययुः प्रजाजनाः ।। 2.215.१ २०।।
राज्ञः कन्याश्चतस्रश्च कृष्णं कान्तं महाप्रभुम् ।
वरमालां ददौ कण्ठे व्यधुर्नैजं पतिं प्रभुम् ।। १२१।।
राजोत्सवं व्यधाद्रात्रौ भोजनादीन्यकारयत् ।
सेवनं कन्यकाश्चक्रुर्निद्रां कृष्णो ह्यवाप च ।। १२२।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने हरेः रायकूपेशभूपराष्ट्रगमनं हवानानगर्यां भ्रमणं पूजनं ततः कालीमण्डलीनभूपराष्ट्रगमनं विगोष्ठिकानगर्यां भ्रमणं
पूजनं चोपदेशनं भोजनं रात्रौ विश्रमणं चेत्यादिनिरूपणनामा पञ्चदशाधिकद्विशततमोऽध्यायः ।। २१५ ।।