← अध्यायः ०४६ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः ४७
[[लेखकः :|]]
अध्यायः ०४८ →

श्रीकृष्ण उवाच-
शृणु त्वं राधिके कन्या लक्ष्मणस्य हरेः प्रियाः ।
सहस्रे द्वे लोमशश्च बोधयामास तत्त्वतः ।। १ ।।
क्षणं वित्तं क्षणं चित्तं क्षणिकं वर्ष्मजीवनम् ।
क्षणिकाश्चापि संकल्पाश्चाऽक्षणिको हरिः प्रभुः ।। २ ।।
आत्मा तस्य गृहं प्रोक्तं चात्मन्येव स्थितो हरिः ।
गृहेशः श्रीकृष्णानारायणः पाता पतिर्हि सः ।। ३ ।।
जलं सृष्टं कललं च कर्कन्धुः पेषिका ततः ।
पुत्तलं च ततः पूर्णावयवं तेन निर्मितम् ।। ४ ।।
बाल्यं च यौवनं चापि तैनैव निर्मितं सुताः! ।
वार्धक्यं च वियोगश्च पञ्चत्वं तेन निर्मितम् ।। ५ ।।
निर्मेयानां तु मातारं समाश्रमेद्धि मेयगः ।
तदा चामेययोगाद्धि भवत्यात्माऽप्यमेयवत् ।। ६ ।।
अमेयो दृश्यते चात्र मेयवद् बालवत् सुताः ।
भवतीनां हृदये यः कृतावासो विराजते ।। ७ ।।
स वै सेव्यः स वै पूज्यः स वै ध्येयो निरन्तरम् ।
प्राप्तः प्राप्तव्य एवाऽसौ प्राप्तव्यो नावशिष्यते ।। ८ ।।
अनित्येन शरीरेण नित्यं मोक्षं प्रसाधयेत् ।
अनित्याभिः क्रियाभिश्च कृष्णं कान्तं प्रसादयेत् ।। ९ ।।
व्रतं कृष्णो जपः कृष्णो दानं कृष्णे प्रकारयेत् ।
तपः सेवा हरेरेव संयमो नियमो हरौ ।। 2.47.१० ।।
यज्ञः कृष्णार्पणं सर्वं शाश्वतं धनमेव सः ।
समाधिः कृष्णरसता योगः कृष्णेन योजनम् ।। ११ ।।
भजनं तन चालापः कीर्तनं तद्गुणानुवाक् ।
दर्शनं तस्य साक्षाद्वै स्पर्शनं तत्सुयोजनम् ।। १२ ।।
तदिच्छयानुसरणं निग्रहो मोक्षदो मतः ।
तस्य प्रसन्नता पुण्यं शाश्वतं नेतरत् सुताः! ।। १३ ।।
श्रवणं तस्य कर्तव्यं मननं चापि वै हरेः ।
स्वपनं तत्र कर्तव्यं प्रबोधनं सदा हरौ ।। १४।।
रमन्ते योगिनो यस्मिन् रमणं राम एव सः ।
श्रमितानां विरामोऽयं विरामोऽन्यो निरर्थकः ।। १५ ।।
रसिकानां रसश्चात्र रसयत्यानिशं हरिः ।
तद्विना रसनं चान्यन्निरर्थकं सुपुत्रिकाः! ।। १६ ।।
पुत्रीभिः सर्वथा भाव्य बालाभिः पञ्चवर्षके ।
शिष्याभिः सर्वथा भाव्यं बालाभिर्दशवर्षके ।। १७।।
कुमारीभिस्ततो भाव्यं चतुर्दशसमान्तरे ।
पत्नीभिश्च ततो भाव्यं कृष्णनारायणप्रभौ । । १८।।
तत्र शृणुत पुत्रीत्वं शिष्यात्वं च यथार्थकम् ।
कुमारीतां तथा योग्यं पत्नीत्वं सार्थकं सुताः ।। १९।।
पुन्नाम्नो नरकात् त्रात्री पुत्त्री तेनेह गीयते ।
शेषपापहरा शिष्या शिर्ष्णः पापहरा हि सा ।। 2.47.२० ।।
पञ्चवर्षादूर्ध्वमस्याः पापं संक्रमते कृतम्।
पित्रोः शिरसोर्नैवाऽस्ति यदभूत्पञ्चपूर्वजम् ।।२ १ ।।
कुं-सूत्रं, मां- च गायत्रीं, राति, या सा कुमारिका ।
सूत्रं यज्ञोपवीतं गायत्रीं विद्यां तु तत्त्वजाम् ।।२२।
सम्पादयति या कन्या कुमारिका प्रकीर्तिता ।
विद्यास्नाता च सैवोक्ता सैवोक्ता ब्रह्मचारिणी ।२३।।।
पतिं नीयते गर्भं या गर्भात्मानं तु पत्निका ।
पतिधर्मेण या नीता सा पत्नी पन्नमःप्रिया ।।२४।।
शृणुत पुन्नामकानि नरकाणि च यानि वै ।
अनपत्यस्थितावुद्वेजनं यद् दम्पतीगतम् ।।२५।।
तद्दुःखं नरकं चाद्यं सापत्यत्वे विलीयत ।
पितॄणां पिण्डदानादि जलतर्पणमित्यपि ।।२६।।।
अनपत्यकृतं सर्वं कवोष्णमुपजायते ।
तद् दुःखं नरकं पितृभोग्य द्वितीयमुच्यते ।।२७।।
सापत्यत्वे तु पितॄणां तद्दुःखं वै विलीयत ।
अनपत्यगृहे नैव संस्काराश्चोत्सवास्तथा ।।२८।।
षोडशाद्या न जायन्ते तृप्यन्ति देवता न च ।
षष्ठ्याद्या नैव पूज्यन्ते दानानि न भवन्ति च ।।२९।।
तदिदं देवतादुःख पुण्यप्रतिनिरोधनम् ।
तृतीयं नरकं प्रोक्तं सापत्यत्वे निवर्तत ।।2.47.३ ०।।
अनपत्यस्य समृद्धिर्वंशदायादवर्जिताः ।?
लक्ष्मीर्विश्वासविहता निरुत्साहा न मोदते ।।३ १।।
तदिदं कमलादुःख सौभाग्यप्रतिरोधकम् ।
चतुर्थ नरकं प्रोक्तं सापत्यत्वे निवर्तते ।।३ २-।।
अनपत्यगृहे नैव जामाता न तथा स्नुषा ।
मण्डपो न च माणिक्यस्तंभो नाग्निप्रदक्षिणम् ।।३ ३।।
गार्हपत्यो न वै तुष्येद् वह्निस्तदंगदेवता ।
तदिदं यज्ञदुःखं वै वंशविस्ताररोधकम् ।। ३४। ।
पञ्चमं नरकं प्रोक्तं सापत्यत्वे निवर्तते ।
अनपत्यगृहे नास्ति कामधर्मफलं मनाक् ।। ३ ५। ।
ऋतुधर्मफलं नास्ति ऋतुदानफलं न च ।
अफलं बीजहननं पापसम्पादकं भवेत् ।। ३ ६। ।
पापं दुःखप्रदं स्याच्च पुरुषार्थनिरोधकम् ।
षष्ठं तन्नरकं प्रोक्तं सापत्यत्वे निवर्तते ।।३७। ।
अनपत्यगृहे नैव तुष्यन्त्यतिथयोऽपि च ।
अनपत्यमुखं नैव प्रातः पश्यन्ति मानवाः ।।३८।।
अनपत्यनिवासं च पार्श्वे नेच्छन्ति पुत्रिणः ।
एतद्वै मानवं दुःखं जनताऽऽदररोधकम् ।। ३९।।
सप्तमं नरकं प्रोक्तं सापत्यत्वे निवर्तते ।
अनपत्यौ प्रियाकान्तौ प्रेताविवातिगर्हितौ ।।2.47.४० ।।
जीवन्तावपि तौ प्रेतौ विशेषो नात्र विद्यते ।
मरणे परहस्तेन ययोर्वै और्ध्वदैहिकम् ।।४१ ।।
यद्भवेन्न गतिदं च प्रेतगतिनिरोधकम् ।
अष्टम नरकं प्रोक्तं सापत्यत्वे निवर्तते ।।४२।।
अनपत्यगृहे दोषाश्चेमे भवन्ति बोधत ।
अन्येषां संक्रमस्तत्र पापिनामुपसेवनम् ।।।४३।।।
पारुष्यं दानधर्मादौ निरर्थकमपार्जनम् ।
असन्तोषः सदा चास्ते भवभूतिविनाशनम् ।।४४।।
भ्रंशनं निजधर्माणां मारणं भयमित्यपि ।
मिष्टैकाशनमेवाऽपि मिथ्याभिशंसनादिकम् ।।४५।।
परजायापरपुंसंसेवन लुब्धता तथा ।
लोलुपत्वं पुत्रवतां निन्दनं शिष्टलंघनम् ।।४६।।
शिष्टाचारविनाशश्च सत्क्रियादिविलोपनम् ।
संस्कारपरिहीनत्वं परनाशे प्रसन्नता ।।४७।।
हानिर्धर्मार्थकामानामपवर्गस्य दूरता ।
सर्वस्य चाततायित्वं नरकाय निगद्यते ।।४८।।
एतैः पुन्नामकैः पापैर्नरकैरावृतः सदा ।
अनपत्यो जनो घोरान् नरकान् वै निषेवते ।।४९ ।।
अपत्यं नरकं घोरं विनाशयति सर्वशः ।
एतस्मात् कारणात् पुत्रीपुत्रवत्त्वं दिवं मतम् ।।2.47.५०।।
शिष्यः शिष्या च पापानि हरत्येव च तद्यथा ।
शिष्टानां तु भवेच्छिष्यो दासो भृत्यश्च सेवकः ।।५ १ ।।
यद्वा शिष्या सखी दासी भृत्या वा सेविका तथा ।
शिष्टानां वा गुरूणां सा स च साहाय्यकारकौ ।।५२।।
देवसेवा पितृसेवा ऋषिसेवाऽतिथेरपि ।
सेवनं छिद्यते क्वापि विना शिष्यमुपप्लवे ।।५३ ।।
तद्विघ्नं पापकृत्प्रोक्तं शिष्यस्तस्माद्धि तारयेत् ।
अगृहस्थस्य च शिष्यवर्जितस्य जनस्य तु ।।५४।।
सर्वकार्याणि नैवेह सिद्ध्यन्ति नरकं हि तत् ।
विद्या कलाश्च कौशल्यं मन्त्रो रीतिश्च शाश्वती ।।।९५।।
शिक्षणं च क्रमश्चापि पद्धतिश्च परम्परा ।
साजात्यं चेति तत्सर्वं विना शिष्यं विलीयते ।।५६ ।।
तन्नाशो नरकं प्रोक्तं सशिष्यत्वे निवर्तते ।
विज्ञाने युज्यते शिष्यो दायभागे तु पुत्रकः ।।।५७।।
अर्धकार्यकरी पत्नी नरकस्य विनाशकाः ।
विना पत्नीं न कुत्रापि स्थितिर्मान्यं गृहादिषु ।।५८।।
न विश्वासो नाऽवकारो न शान्तिर्नरकं हि तत् ।
न होमादि न वै शुद्धिस्तत्पापं नरकं सदा ।।५९।।
नेह लोके च काचिद्वै सिद्धिः परत्र नैव च ।
नरकं तत्सर्वदृश्यं सपत्नीत्वे निवर्तते ।। 2.47.६० ।।
अज्ञानं नरकं प्रोक्तं सर्वदाऽनक्षरज्ञता ।
सविद्यत्वे विनश्यत्तु कुमारब्रह्मचारिषु ।। ६१ ।।
संसारोऽयं कृतस्तादृग् यत्र साहाय्यमन्तरा ।
कार्यं सिःद्ध्यति नैवेह वर्णेषु चाश्रमेष्वपि ।।६ २।।
असाहाय्यं च नरकं कार्यहानिकरं यतः ।
ससाहाय्यं तु च स्वर्गं कार्यसिद्धिकरं यतः ।।६ ३।।
पुत्रो हि बहुकार्येषु बहुकार्येषु शिष्यकः ।
वहुकार्येषु पत्नी च नरकत्राः सहायदाः ।।६४।।।
कायिकं वाचिकं वापि मानसं च स्वभावजम् ।
असहायकृतं चापि पापं बहुविधं च यत् ।।६५।।।
तत्सर्वं विलयं याति सुतशिष्यप्रियादिभिः ।
तस्माच्च पुत्रशिष्यौ हि विधातव्यौ विपश्चिता ।।६६ । ।
दायादा बान्धवाः षट् च षट् च प्रजाः प्रकीर्तिताः ।
शिष्यास्त्रयस्तथा पत्न्यस्तिस्रश्चेति प्रकीर्तिताः ।। ६७। ।
पतयश्च त्रयः प्रोक्ता यथाकर्मानुबन्धिनः ।
शृणुत पुत्रिकाश्चात्र संक्षेपात् तान् वदामि वः ।।६८।।
औरसः क्षेत्रजश्चापि दत्तः कृत्रिम इत्यपि ।
गूढोत्पन्नस्तथाऽऽनीतो दायादा बान्धवास्तु षट ।।६९।।
अमीषु षट्सु सत्स्वेव ऋणपिण्डधनक्रियाः ।
गोत्रख्यातिः कुले वृत्तिः प्रतिष्ठा वंशविस्तरः । 2.47.७० । ।
तत्रौरसो निजजातः प्रतिबिम्बं निजात्मनः ।
पत्न्यामन्येन सञ्जातश्चाज्ञया क्षेत्रजस्तु सः ।।७ १ ।।
मातापितृभ्यां यो दत्तः दत्तकः स हि गीयते ।
मित्रादिपुत्रं पुत्रं यो मन्येताऽयं तु कृत्रिमः । ।७२। ।
न ज्ञायते गृहे केन जातस्त्विति तु गूढकः ।
बाह्यतो यः समानीतश्चानीतो गद्यते हि सः । ।७३ ।।
कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा ।
स्वयंदत्तो निम्नवर्णाजश्चैते नामधारकाः ।।७४। ।
कन्याजातस्सु कानीनाः सगर्भोढः सहोढजः ।
मूल्यैर्गृहीतः. क्रीतो वै पुनर्भ्वास्तु पुनर्भवः । ।७५ ।।
दत्ताऽप्येकस्य या कन्या भूयोऽन्यस्य प्रदीयते ।
सा पुनर्भूर्नारी चेति पौनर्भवस्तु तत्सुतः । ।७६ ।।
दुर्भिक्षादौ स्वयंप्राप्तोऽरण्ये त्यक्तोऽथवा स्वयम् ।
अरक्षको वने प्राप्तः स्वयंदत्त उदाहृतः ।। ७७।।
श्रेष्ठवर्णनरान्निम्ननारीजो निम्नवर्णकः ।
अमीषाम् ऋणपिण्डादिकथा नास्त्येव वंशजा ।।७८ ।।
शिष्यास्त्रयो दीक्षितश्च सेवको भृत्य इत्यमी ।
दायादस्तत्र यो यस्याऽऽजीवनं चात्मसात्कृतः ।।७९ ।।
पत्न्यस्त्रिधा च विध्यूढा पुनर्व्यूढा निगूढिका ।
व्यवहारे चोत्तमा मध्यमाऽधमा क्रमाद्धि ताः ।।2.47.८० ।।
पतयस्त्रय ऊढश्च द्व्यढूश्चोपपतिस्तथा ।
उत्तमो मध्यमोऽधमो व्यवहारे क्रमादमी ।।८ १ ।।
उपदेशो यज्ञसूत्रं दातव्यं तेभ्य एव च ।
संस्काराश्चापि कर्तव्या अनपत्यत्वहानये ।।।८२।।।
दायादा बान्धवा यद्वद् बान्धव्योऽपि तथाविधाः ।
कानीनाद्या यथा पुत्राः पुत्र्यश्चापि तथाविधाः ।।८३ ।।
शिष्या नरास्त्रयो यद्वत् तिस्रस्तथैव कन्यकाः ।
व्यवहारोऽपि तत्राऽस्ति चोत्तमो मध्यमोऽधमः ।।८४।।
भवत्यो मम शिष्याश्च भवन्त्यत्र हि मन्त्रतः ।
शिष्यपत्न्यः स्नुषाश्चापि ज्ञानपात्र्यो भवन्ति च ।।८५।।
तस्माज्ज्ञानं प्रदातव्यं दायभागात्मकं मम ।
गुरुतो दायभागो वै प्राप्तव्यः शिष्यकोटिभिः ।।८६ ।।
ज्ञानं मुक्तिस्तथा भक्तिः सेवा देवार्चनादिकम् ।
आत्मयोगो हरेः प्राप्तिः पुण्यं तीर्थादिसेवनम् ।।८७।।
इत्येते दायभागा वै शिष्यवर्गस्य पावनाः ।
अथाऽन्यच्च प्रवक्ष्यामि षोडशारं सुदर्शनम् ।।८८।।
यज्ज्ञात्वा न परं किञ्चिज्ज्ञातव्यमवशिष्यते ।
सुदर्शनं परब्रह्म कृष्णनारायणः स्वयम् ।।८९।।
भवतीनां हृदयस्थो बहिःस्थः कान्त उत्तमः ।
कान्तात्मकं परं योगं स्वदेहे प्रवदामि वः ।। 2.47.९० ।।
आगच्छन्तु जलं हस्ते गृह्णन्तु कन्यकोत्तमाः ।
मन्त्रं गृह्णन्तु सर्वाश्च कृष्णकान्तस्य मन्मुखात् ।।९ १ ।।
'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।
इति ता राधिके! मन्त्रं जगृहुर्लोमशाऽऽननात् ।।९२।।।
तदर्थे च ततः प्राह योगं षोडशपत्रकम् ।
ओंकारो वर्तते केशेष्वयं श्रीपुरुषोत्तमः ।। ९३ ।।
नकारो ब्रह्मरन्ध्रे च नारायणः स्वयं प्रभुः ।
मकारो मुखमापन्नो माणिक्यापतिरीश्वरः ।। ९४।।
श्रीकारश्चक्षुषोरास्ते श्रीपतिः कमलापतिः ।
कृकारः कृष्ण एवासौ कृकाटिकाकृतस्थितिः ।। ९५।।
ष्णकारो हृदये चास्ते बालकृष्णोऽयमीश्वरः ।
मकारो वर्तते नाभौ नरनारायणात्मकः ।।९६।।
राकारो वर्तते रोमस्थानेषु राधिकापतिः ।
यकारो वर्तते योनिपीठे योगजलाशयी ।।९७।।
णाकारो वर्तते नाडीमण्डले हि नरोत्तमः ।
यकारो वर्तते इङ्गितार्थदो मानसे हरिः ।।९८।।
पकारः पादयोरास्ते प्रभुः पारवतीपतिः ।
तकारः पिडिकासंस्थः प्रभाकान्तः प्रभुः स्वयम् ।।९९।।
येकारो वर्तते जान्वोरैश्वर्याधिपतिः प्रभुः ।
स्वाकारः सर्वगात्रे मे मञ्जुलात्मा विराजते ।। 2.47.१ ००।।
हाकारो हंसजात्मा च कैंकर्ये होममाप्तवान् ।
सगुणेशः पञ्चदशस्वहं वै षोडशी कला ।। १० १।।
कलावान् श्रीकृष्णनारायणः सर्वकलापतिः ।
मम नाथस्त्वेवमर्थं परं ज्ञात्वा न जन्मभाक् ।। १ ०२।।
एवं ताः कन्यका राधे! जगृहुर्मन्त्रमालिकाः ।
जेपुर्भेजुः पतिं कान्तं निजाऽभिन्नपरेश्वरम् ।। १०३।।
इमं त्वर्थं परं ज्ञात्वा स्वदेहे श्रीनरायणम् ।
विराजमानं प्रत्यक्षं ये भजन्ति नराः स्त्रियः ।। १ ०४।।
ते परंपदगाश्चाऽन्ते भविष्यन्ति न संशयः ।
पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिर्भवेद्ध्रुवम् ।। १ ०५।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने लक्ष्मणकन्यकाभ्यो लोमशकृतपुत्रशिष्यपत्न्यादिरूपोपदेशादि- निरूपणनामा सप्तचत्वारिंशोऽध्यायः ।। ४७ ।।