लघुसिद्धान्तकौमुदी/बहुव्रीहिसमासः
← तत्पुरुषसमासः | लघुसिद्धान्तकौमुदी बहुव्रीहिसमासः वरदराजः |
द्वन्द्वसमासः → |
अथ बहुव्रीहिः
शेषो बहुव्रीहिः॥ लसक_९६८ = पा_२,२.२३॥
अधिकारो ऽयं प्राग्द्वन्द्वात्॥
अनेकमन्यपदार्थे॥ लसक_९६९ = पा_२,२.२४॥
अनेकं प्रथमान्तमन्यस्य पदस्यार्थे वर्तमानं वा समस्यते स बहुव्रीहिः॥
सप्तमीविशेषणे बहुव्रीहौ॥ लसक_९७० = पा_२,२.३५॥
सप्तम्यन्तं विशेषणं च बहुव्रीहौ पूर्वं स्यात्। अत एव ज्ञापकाद्व्यधिकरणपदो बहुव्रीहिः॥
हलन्तात्सप्तम्याः संज्ञायाम्॥ लसक_९७१ = पा_६,३.९॥
हलन्ताददन्ताच्च सप्तम्या अलुक्। कण्ठेकालः। प्राप्तमुदकं यं स प्राप्तोदको ग्रामः। ऊढरथो ऽनड्वान्। उपहृतपशू रुद्रः। उद्धृतौदना स्थाली। पीताम्बरो हरिः। वीरपुरुषको ग्रामः। (प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः)। प्रपतितपर्णः, प्रपर्णः। (नञो ऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः) अविद्यमानपुत्रः, अपुत्रः॥
स्त्रियाः पुंवद्भाषितपुंस्कादनूङ्समानाधिकरणे स्त्रियामपूरणीप्रियादिषु॥ लसक_९७२ = पा_६,३.३४॥
उक्तपुंस्कादनूङ् ऊङोऽभावो ऽस्यामिति बहुव्रीहिः। निपातनात्पञ्चम्या अलुक् षष्ठ्याश्च लुक्। तुल्ये प्रवृत्तिनिमित्ते यदुक्तपुंस्कं तस्मात्पर ऊङोऽभावो यत्र तथाभूतस्य स्त्रीवाचकशब्दस्य पुंवाचकस्येव रूपं स्यात् समानाधिकरणे स्त्रीलिङ्गे उत्तरपदे न तु पूरण्यां प्रियादौ च परतः। गोस्त्रियोरिति ह्रस्वः। चित्रगुः। रूपवद्भार्यः। अनूङ् किम् ? वामोरूभार्यः॥ पूरण्यां तु - .
अप्पूरणीप्रमाण्योः॥ लसक_९७३ = पा_५,४.११६॥
पूरणार्थप्रत्ययान्तं यत्स्त्रीलिङ्गं तदन्तात्प्रमाण्यन्ताच्च बहुव्रीहे रप्स्यात्। कल्याणी पञ्चमी यासां रात्रीणां ताः कल्याणी पञ्चमा रात्रयः। स्त्री प्रमाणी यस्य स स्त्रीप्रमाणः। अप्रियादिषु किम् ? कल्याणीप्रिय इत्यादि॥
बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच्॥ लसक_९७४ = पा_५,४.११३॥
स्वाङ्गवाचिसक्थ्यक्ष्यन्ताद्बहुव्रीहेः षच् स्यात्। दीर्घसक्थः। जलजाक्षी। स्वाङ्गात्किम् ? दीर्घसक्थि शकटम्। स्थूलाक्षा वेणुयष्टिः। अक्ष्णो ऽदर्शनादिति वक्ष्यमाणो ऽच्॥
द्वित्रिभ्यां ष मूर्ध्नः॥ लसक_९७५ = पा_५,४.११५॥
आभ्यां मूर्ध्नः षः स्याद्बहुव्रीहौ। द्विमूर्धः। त्रिमूर्धः॥
अन्तर्बहिभ्यां च लोम्नः॥ लसक_९७६ = पा_५,४.११७॥
आभ्यां लोम्नो ऽप्स्याद्बहुव्रीहौ। अन्तर्लोमः। बहिर्लोमः॥
पादस्य लोपो ऽहस्त्यादिभ्यः॥ लसक_९७७ = पा_५,४.१३८॥
हस्त्यादिवर्जितादुपमानात्परस्य पादशब्दस्य लोपः स्याद्बहुव्रीहौ। व्याघ्रस्येव पादावस्य व्याघ्रपात्। अहस्त्यादिभ्यः किम् ? हस्तिपादः। कुसूलपादः॥
संख्यासुपूर्वस्य॥ लसक_९७८ = पा_५,४.१४०॥
पादस्य लोपः स्यात्समासान्तो बहुव्रीहौ। द्विपात्। सुपात्॥
उद्विभ्यां काकुदस्य॥ लसक_९७९ = पा_५,४.१४८॥
लोपः स्यात्। उत्काकुत्। विकाकुत्॥
पूर्णाद्विभाषा॥ लसक_९८० = पा_५,४.१४९॥
पूर्णकाकुत्। पूर्णकाकुदः॥
सुहृद्दुर्हृदौ मित्रामित्रयोः॥ लसक_९८१ = पा_५,४.१५०॥
सुदुर्भ्यां हृदयस्य हृद्भावो निपात्यते। सुहृन्मित्रम्। दुर्हृदमित्रः॥
उरः प्रभृतिभ्यः कप्॥ लसक_९८२ = पा_५,४.१५१॥
सो ऽपदादौ॥ लसक_९८३ = पा_८,३.३८॥
पाशकल्पककाम्येषु विसर्गस्य सः॥
कस्कादिषु च॥ लसक_९८४ = पा_८,३.४८॥
एष्विण उत्तरस्य विसर्गस्य षो ऽन्यस्य तु सः। इति सः। व्यूढोरस्कः॥
इणः षः॥ लसक_९८५ = पा_८,३.३९॥
इण उत्तरस्य विसर्गस्य षः पाशकल्पककाम्येषु परेषु। प्रियसर्पिष्कः॥
निष्ठा॥ लसक_९८६ = पा_२,२.३६॥
निष्ठान्तं बहुव्रीहौ पूर्वं स्यात्। युक्तयोगः॥
शेषाद्विभाषा॥ लसक_९८७ = पा_५,४.१५४॥
अनुक्तसमासान्ताद्बहुव्रीहेः कब्वा। महायशस्कः, महायशाः॥
इति बहुव्रीहिः॥ ४॥