प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ११६ वराहपुराणम्
अध्यायः ११७
[[लेखकः :|]]
अध्यायः ११८ →

अथ द्वात्रिंशदपराधाः।।
श्रीवराह उवाच।।
शृणु भद्रे महाश्चर्यमाहारविधिनिश्चयम् ।।
आहारं चाप्यनाहारं तच्छृणुष्व वसुन्धरे ।। १ ।।
भुञ्जानो याति चाश्नाति मम योगाय माधवि ।।
अशुभं कर्म कृत्वापि पुरुषो धर्ममाश्रितः ।। २।।
आहारं चैव धर्मज्ञ उपभुञ्जीत नित्यशः ।।
सर्वे चात्रैव कर्मण्या व्रीहयः शालयस्तथा ।।३।।
अकर्मण्यानि वक्ष्यामि येन भोज्यंति मां प्रति ।।
तेन वै भुक्तमार्गेण अपराधो महौजसः ।। ४ ।।
प्रथमं चापराधान्नं न रोचेत मम प्रिये ।।
भुक्त्वा तु परकीयान्नं तत्परस्तन्निवर्त्तनः ।। ५।।
द्वितीयस्त्वपराधोऽयं धर्मविघ्नाय वै भवेत् ।।
गत्वा मैथुनसंयागं यो नु मां स्पृशते नरः ।।६।।
तृतीयमपराधं तु कल्पयामि वसुंधरे ।।
दृष्ट्वा रजस्वलां नारीमस्माकं यः प्रपद्यते ।। ७ ।।
चतुर्थमपराधं तु दृष्टं नैव क्षपाम्यहम् ।।
स्पृष्ट्वा तु मृतकं चैव असंस्कारकृतं तु वै ।।८।।
पंचमं चापराधं च न क्षमामि वसुंधरे ।।
दृष्ट्वा तु मृतकं यस्तु नाचम्य स्पृशते तु माम् ।।९ ।।
षष्ठं तं चापराधं वै न क्षमामि वसुंधरे ।।
ममार्चनस्य काले तु पुरीषं यस्तु गच्छति ।। 117.१० ।।
सप्तमं चापराधं तु कल्पयामि वसुंधरे ।।
यस्तु नीलेन वस्त्रेण प्रावृतो मां प्रपद्यते ।। ११ ।।
अष्टमं चापराधं च कल्पयामि वसुन्धरे ।।
ममैवार्च्चनकाले तु यस्त्वसमं प्रभाषते ।।१२।।
नवमं चापराधं तं न रोचामि वसुन्धरे ।।
अविधानं तु यः स्पृश्य मामेव प्रतिपद्यते ।। १३ ।।
दशमश्चापराधोऽयं मम चाप्रियकारकः ।।
क्रुद्धस्तु यानि कर्माणि कुरुते कर्मकारकः ।। १४।।
एकादशापराधं तु कल्पयामि वसुंधरे ।।
अकर्मण्यानि पुण्यानि यस्तु मामुपकल्पयेत् ।। १५ ।।
द्वादशं चापराधं तं कल्पयामि वसुंधरे ।।
यस्तु रक्तेन वस्त्रेण कौसुम्भेनोपगच्छति ।। १६ ।।
त्रयोदशं चापराधं कल्पयामि वसुन्धरे ।।
अन्धकारे च मां देवि यः स्पृशेत कदाचन ।।१७।।
चतुर्द्दशापराधं तु कल्पयामि वसुन्धरे ।।
यस्तु कृष्णेन वस्त्रेण मम कर्माणि कारयेत् ।। १८।।
अपराधं पंचदशं कल्पयामि वसुंधरे ।।
अधौतेन तु वस्त्रेण यस्तु मामुपकल्पयेत् ।। १९ ।।
षोडशं त्वपराधानां कल्पयामि वरानने ।।
स्वयमन्नं तु यो ह्ययादज्ञानादपि माधवि ।। 117.२० ।।
अपराधं सप्तदशं कल्पयामि वसुन्धरे ।।
यस्तु मात्स्यानि मांसानि भक्षयित्वा प्रपद्यते ।।२१ ।।
अष्टादशापराधं च कल्पयामि वसुंधरे ।।
जालपादं भक्षयित्वा यस्तु मामुपसर्पति ।। २२ ।।
एकोनविंशापराधं कल्पयामि वसुंधरे ।।
यस्तु मे दीपकं स्पृष्ट्वा मामेव प्रतिपद्यते ।।२३।।
विंशकं चापराधं तं कल्पयामि वरानने ।।
श्मशानं यस्तु वै गत्वा मामेव प्रतिपद्यते।।२४।।
एकविंशापराधं तं कल्पयामि वसुन्धरे ।।
पिण्याकं भक्षयित्वा तु यो मामेवाभिगच्छति ।। २५ ।।
द्वाविंशं चापराधं तं कल्पयामि प्रिये सदा ।।
यस्तु वाराह मांसानि प्रापणेनोपपादयेत् ।। २६ ।।
अपराधं त्रयोविंशं कल्पयामि वसुन्धरे ।।
सुरां पीत्वा तु यो मर्त्यः कदाचिदुपसर्पति ।। २७ ।।
अपराधं चतुर्विंशं कल्पयामि वसुन्धरे ।।
यः कुसुम्भं च मे शाकं भक्षयित्वोपचक्रमे ।। २८ ।।
अपराधं पंचविंशं कल्पयामि वसुन्धरे ।।
परप्रावरणेनैव यस्तु मामुपसर्पति ।। २९ ।।
अपराधेषु षड्विंशं कल्पयामि वसुन्धरे ।।
नवान्नं यस्तु भक्षेत न देवान्न पितॄन्यजेत् ।। 117.३० ।।
सप्तविंशं चापराधं कल्पयामि गुणान्विते ।।
उपानहौ च प्रपदे तथा वापीं च गच्छति ।।३१ ।।
अपराधं त्वष्टविंशं कल्पयामि गुणान्विते ।।
शरीरं मर्द्दयित्वा तु यो मामाप्नोति माधवि ।। ३२ ।।
एकोनविंशापराधो न स स्वर्गेषु गच्छति ।।
अजीर्णेन समाविष्टो यस्तु मामुपगच्छति ।। ३३ ।।
त्रिंशकं चापराधं तं कल्पयामि यशस्विनि ।।
गन्धपुष्पाण्यदत्त्वा तु यस्तु धूपं प्रयच्छते ।। ३४।।
एकत्रिंशं चापराधं कल्पयामि मनस्विनि ।।
विना भेर्यादिशब्देन द्वारस्योद्धाटनं मम ।। ३५ ।।
महापराधं जनीयाद्द्वात्रिंशं तं मम प्रिये ।।
अन्यच्च शृणु वक्ष्यामि दृढव्रतमनुत्तमम् ।। ३६।।
कृत्वा चावश्यकं कर्म मम लोकं च गच्छति ।।
नित्ययुक्तश्च शास्त्रज्ञो मम कर्मपरायणः ।। ३७ ।।
अहिंसापरमश्चैव सर्वभूतदयापरः ।।
सामान्यश्च शुचिर्दक्षो मम नित्यं पथि स्थितः ।। ३८ ।।
निगृह्य चेन्द्रियग्राममपराधविवर्जितः ।।
उदारो धार्मिकश्चैव स्वदारेषु सुनिष्ठितः ।।३९ ।।
शास्त्रज्ञः कुशलश्चैव मम कर्मपरायणः।।
चातुर्वर्ण्यस्य मे भद्रे सन्मार्गेषु व्यवस्थितः।।117.४०।।
आचार्यभक्ता देवेषु भक्ता भर्तरि वत्सला।।
संसारेष्वपि वर्त्तन्ती गच्छन्ती त्वग्रतो यदि।।४१।।
मम लोकस्थिता सा वै भर्त्तारं प्रसमीक्षते।।
पुरुषो यदि मद्भक्तः स्त्रियं त्यक्त्वा च गच्छति।।४२।।
स ततोऽत्र प्रतीक्षेत भार्यां भर्त्तरि वत्सलाम्।।
अन्यच्च ते प्रवक्ष्यामि कर्मणां कर्म चोत्तमम् ।।४३।।
ऋषयो मां न पश्यन्ति मम कर्मपथे स्थिताः ।।
द्रष्टव्या मम लोकेषु ऋषयोऽपि वरानने ।। ४४ ।।
किं पुनर्मानुषा ये च मम कर्मव्यवस्थिताः ।।
अन्यदेवेषु ये भक्ता मूढा वै पापचेतसः ।।४५ ।।
मम मायाविमूढास्तु न प्रपद्यन्ति माधवि ।।
मां तु ये वै प्रपद्यन्ते मोक्षकामा वसुन्धरे ।।४६।।
तानहं भावसंसिद्धान्बुद्ध्वा संविभजामि वै ।।
येन त्वं परया शक्त्या धारितासि मया धरे ।।४७ ।।
तेनेदं कथितं देवि आख्यानं धर्मसंयुतम् ।।
पिशुनाय न दातव्यं न च मूर्खाय माधवि ।।४८।।
ततो न चोपदिष्टाय न शठाय प्रदापयेत ।।
नादीक्षिताय दातव्यं नोपसर्प्याय यत्नतः ।।४९ ।।
शठाय च न दातव्यं नास्तिकाय न माधवि ।।
वर्जयित्वा भागवतं मम कर्मपरायणम् ।। 117.५० ।।
एतत्ते कथितं देवि मम धर्मं महौजसम् ।।
सर्वलोकहितार्थाय किमन्यत्परिपृच्छसि ।। ५१ ।।
इति श्रीवराहपुराणे द्वात्रिंशदपराधकथनं नाम सप्तदशाधिकशततमोऽध्यायः ।। ११७ ।।