प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ११७ वराहपुराणम्
अध्यायः ११८
[[लेखकः :|]]
अध्यायः ११९ →

अथ देवोपचारविधिः ।।
श्रीवराह उवाच ।।
शृणु तत्त्वेन मे भद्रे प्रायश्चित्तं यथाविधि ।।
यथावत्स च दातव्यो मम भक्तेन विद्यया ।। १ ।।
वक्ष्यमाणेन मन्त्रेण उद्धृत्य दन्तकाष्ठकम् ।।
दीपं न ज्वालयेत्तावद्यावन्न स्पृश्यते धरा ।। २ ।।
दीपे प्रज्वालिते तत्र हस्तशौचं तु कारयेत् ।।
ततः प्रक्षाल्य हस्तौ तु पुनरेवमुपागतः ।। ३ ।।
वन्दयित्वास्य चरणौ दन्तधावनमानयेत् ।।
अनेनैव तु मन्त्रेण दद्याद्वै दन्तकाष्ठकम् ।। ४ ।।
मन्त्रश्च –
भुवनभवन रविसंहरण अनन्तो मध्यश्चेति गृह्णेमं भुवनं दन्तधावनम् ।। ५ ।।
यत्त्वया भाषितं सर्वमेवं धर्मविनिश्चयम् ।।
दन्तधावनं दन्ते दद्याद्यावत्कर्म वसुन्धरे ।। ६ ।।
नित्यं शिरसोत्तार्य धृत्वा शिरसि चात्मनः ।।
पश्चात्तु जलपूतेन ततो हस्तेन सुन्दरि ।। ७ ।।
कार्याणि मुखकर्माणि स्वल्पेन सलिलेन च ।।
मुखप्रक्षालने चेमं शृणु मन्त्रं च सुन्दरि ।। ८ ।।
इष्ट्वेममुक्तमन्त्रेण संसारात्तु प्रमुच्यते ।। ९ ।।
मन्त्रश्च-
तद्भगवन्त्वां गुणश्च आत्मनश्चापि गृह्ण वारिणः सर्वदेवतानां मुखमेव प्रक्षालयेत् ।।
एतेन मन्त्रेण सुगन्धधूपदीपनैवेद्यं पुनरेवं समर्पयेत् ।। 118.१० ।।
ततः पुष्पाञ्जलिं दत्त्वा भगवन् भक्तवत्सल ।।
नमो नारायणेत्युक्त्वा इमं मन्त्रमुदीरयेत् ।। ११ ।।
मन्त्रज्ञानां यज्ञयष्टारं भूतस्रष्टारमेव च ।।
अन्य पुष्पाणि संगृह्य कल्यमुत्थाय माधवि ।। १२ ।।
पूजयेद्देवदेवेशं ज्ञानी भागवतः शुचिः ।।
निपतेद्दण्डवद्भूमौ सर्वकर्मसमन्वितः ।। १ ३।।
कायं निपतितं कृत्वा प्रसीदेति जनार्द्दनम् ।।
शिरसा चाञ्जलिं कृत्वा इमं मंत्रमुदाहरेत्।। १४।।
मन्त्रैर्लब्ध्वा संज्ञां त्वयि नाथ प्रसन्ने त्वदिच्छातो ह्यपि योगिनां चैव मुक्तिः ।। १५ ।।.
यतस्त्वदीयः कर्मकरोऽहमस्मि त्वयोक्तं यत्तेन देवः प्रसीदतु ।। १६ ।।
एवं मन्त्रविधिं कृत्वा मम भक्तिव्यवस्थितः ।।
पृष्ठतोऽनुपदं गत्वा शीघ्रं यावन्न हीयते ।। १७ ।।
एवं सर्वं समादाय मम कर्म दृढव्रतः ।।
शीघ्रं मेऽभ्यञ्जनं दद्यात्तैलेनाथ घृतेन वा ।। १८ ।।
ततः स्नेहं समुद्दिश्य मंत्रज्ञः कर्मकारकः ।।
एवं चित्तं समाधाय इमं मंत्रमुदीरयेत् ।। १९ ।।
मंत्रा ऊचुः ।।
स्नेहं स्नेहेन संगृह्य लोकनाथ मया हृतम् ।।
सर्वलोकेषु सिद्धात्मा ददाम्यात्मकरेण च ।। 118.२० ।।
मया प्रोक्तः क्षमस्वेति तुभ्यं चैव नमो नमः ।।
एवं मंत्रः समाख्यातस्तेनाज्यात्प्रथमं शिरः ।।२१ ।।
दक्षिणाङ्गं ततोऽभ्यज्याद्वाममङ्गं ततोऽनु च ।।
पश्चात्पृष्ठं समभ्यज्य ततोऽभ्यज्यात्कटिं तथा ।। २२ ।।
पश्चालिम्पेत्ततो भूमिं गोमयेन दृढव्रतः।।
तस्य दृष्ट्वा श्रुतं भद्रे गोमयेन सुनिश्चितम् ।।२३ ।।
यानि पुण्यान्यवाप्नोति तानि मे गदतः शृणु ।।
आज्यमानमपि तथा यावन्तस्तैलबिन्दवः ।। २४ ।।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ।।
ततः पुण्यकृताँल्लोकान्पुरुषो योऽनुलिप्यते ।। २५ ।।
एकैककणसंख्यातः स्वर्गलोके महीयते ।।
एवं योऽभ्यञ्जयेद्गात्रं तैलेन तु घृतेन वा ।। २६ ।।
तावद्वर्षसहस्राणि मम लोके प्रतिष्ठति ।।
अथ चोद्वर्त्तनं भद्रे प्रवक्ष्यामि प्रियं मम ।। २७ ।।
येन शुध्यन्ति चाङ्गानि मम प्रीतिश्च जायते ।।
भोगिना यदि वा रोध्रं यदि पिप्पलिकामधु ।। २८ ।।
मधूकमश्वपर्णं वा रोहिणं चैव कर्कटम् ।।
एतेषां प्राप्य लभते शास्त्रज्ञः कर्मकारकः ।। २९ ।।
करेण तस्य चूर्णेन पिष्टचूर्णेन वा पुनः ।।
एतदुद्वर्त्तनं कुर्यान्मम गात्रसुखावहम् ।। 118.३० ।।
यदीच्छेत्परमां सिद्धिं मम कर्मानुसारकः ।।
एवमुद्वर्त्तनं कृत्वा स्नानकर्म तु कारयेत् ।। ३१।।
तत आमलकं चैव वसुगन्धार्णमुत्तमम् ।।
तेन मे सर्वगात्राणि मर्द्दयित्वा दृढव्रतः ।।३२।।
जलकुम्भं ततो गृह्य इमं मन्त्रमुदाहरेत् ।।
देवानां देवदेवोऽसि देवोऽनादिरभूः परः ।।३३।।
तव व्यक्तस्वरूपेण स्नानं गृह्णीष्व मेऽनघ ।।
एवं तु स्नपनं कुर्यान्मम मार्गानुसारकः ।। ३४ ।।
अथ सौवर्णकुम्भेन रजतस्य घटेन वा ।।
एतेषामप्यलाभे तु कर्मज्ञः कर्म कारयेत् ।। ३५।।
ताम्रकुम्भमयेनैव कुर्यात्स्नपनमुत्तमम् ।।
एवं तु स्नपनं कृत्वा विधिदृष्टेन कर्मणा ।। ३६ ।।
पश्चाद्गन्धः प्रदातव्यः प्रकृष्टो मन्त्रसंयुतः ।।
सर्वगन्धाः सौमनस्याः सर्ववर्णाश्च ते मताः ।। ३७ ।।
उत्पन्नाः सर्वलोकेषु त्वया सत्येषु योजिताः ।।
मया च ते तवाङ्गेषु तानावह शुचीन्प्रभो ।। ३८ ।।
मम भक्त्या सुसन्तुष्टः प्रतिगृह्णीष्व माधव ।।
एवं गन्धांस्ततो दत्त्वा उत्कृष्टं कर्म कारयेत् ।। ३९ ।।
कर्मण्यान्यपि माल्यानि ततो मह्यं प्रदापयेत् ।।
तदेव चार्च्चनं कृत्वा कर्मण्यः कर्मसम्मितः ।। 118.४० ।।
ततः पुष्पाञ्जलिं दत्त्वा इमं मन्त्रमुदीरयेत् ।।
जलजं स्थलजं चैव पुष्पं कालोद्भवं शुचि ।। ४१ ।।
मम संसारमोक्षाय गृह्ण गृह्ण ममाच्युत ।।
एवंविधोपचारेण अर्चयित्वा मम प्रियम् ।। ४२ ।।
पश्चाद्धूपं च मे दद्यात्सुगन्धद्रव्यसम्मितम् ।।
धूपं गृह्य विधानेन मयोक्तं सुखवल्लभम् ।। ४३ ।।
उभयेषु कुलेष्वात्मा धूपमंत्रमुदीरयेत् ।।
वनस्पतिरसं दिव्यं बहुद्रव्यसमन्वितम् ।। ४४ ।।
मम संसारमोक्षाय धूपोऽयं प्रतिगृह्यताम् ।।
मन्त्रः –
शान्तिर्वै सर्वदेवानां शान्तिर्मम परायणम् ।। ४५ ।।
सांख्यानां शान्तियोगेन धूपं गृह्ण नमोऽस्तु ते ।।
त्राता नान्योऽस्ति मे कश्चित्त्वां विहाय जगद्गुरो ।। ४६ ।।
एवमभ्यर्च्चनं कृत्वा माल्यगन्धानुलेपनैः।।
पश्चाद्वस्त्रं च वै दद्यात् क्षौमशुक्लं सपीतकम् ।। ४७ ।।
एवं चैव समादाय कृत्वा शिरसि चाञ्जलिम् ।।
दिव्ययोगं समादाय इमं मन्त्रमुदीरयेत् ।। ४८ ।।
प्रीयतां भगवान्पुरुषोत्तमः श्रीनिवासः श्रीमानानन्दरूपः ।।
गोप्ता कर्त्ताधिकर्त्ता मान्यनाथ भूतनाथ आदिरव्यक्तरूपः ।।
क्षौमं वस्त्रं पीतरूपं मनोज्ञं देवांगे स्वे गात्रप्रच्छादनाय ।। ४९ ।।
वस्त्रैर्विभूषणं कृत्वा मम गात्रानुसारि यत् ।।
पश्चात्पुष्पं गृहीत्वा तु आसनं चोपकल्पयेत्।।118.५०।।
गृहीत्वा प्रणवाद्येन धर्मपुण्येन संवृतः ।। ५१ ।।
इदं परायणं परस्परप्रीतिकरं प्राणरक्षणं प्राणिनां स्विष्टं तदनुकल्पं सत्यमुपयुक्तमात्मने तद्देव गृहाण ।।५२।।
एवं तु प्रापणं कृत्वा मम मार्गानुसारकः ।।
मुखप्रक्षालनं दत्त्वा शीघ्रमेव प्रकल्पितम्।।५३।।
शुचिः स्तुवति देवानामेतदेव परायणम्।।
शौचार्थं तु जलं गृह्णन् कृत्वा प्रापणमुतमम्।।५४।।
एवं तु भोजनं दत्त्वा व्यपनीय तु प्रापणम्।।
ताम्बूलं तु ततो गृह्य चेमं मन्त्रमुदीरयेत् ।। ५५ ।।
मन्त्रः -
अलङ्कारं सर्वतो देवानां द्रव्यानुक्तौ सर्वसौगन्धिकादिभिः गृह्य ताम्बूलं लोकनाथ विशिष्टमस्माकं च भवनं तव प्रतिमा च ह ।। ५६ ।।
अलङ्कारं मुखे श्रेष्ठं तव प्रीत्या मया कृतम् ।।
मुखप्रसाधनं श्रेष्ठं देव गृह्ण मया कृतम् ।। ५७ ।।
एतेनैवोपचारेण मद्भक्तः कर्म कारयेत् ।।
अनुमुक्तो महालोकान्पश्यते मम नित्यशः ।। ५८ ।।
इति श्रीवराहपुराणे भगवच्छास्त्रे देवोपचारविधिर्नामाष्टादशाधिकशततमोऽध्यायः ।। ११८ ।।