← अध्यायः ११८ वराहपुराणम्
अध्यायः ११९
[[लेखकः :|]]
अध्यायः १२० →

अथ भोज्यनियमविधिः ।।
धरण्युवाच ।।
एवं कर्मविधिं श्रुत्वा सर्व संसारमोक्षणम् ।।
प्रसन्नवदनं देवं पुनर्वाक्यमुवाच ह ।। १ ।।
एवं महौजसं कर्म तव मार्गानुसारतः ।।
त्वत्तस्तु प्रापणविधिस्तव प्रीत्या मया श्रुतः ।। २ ।।
केन द्रव्येण संयुक्तं तन्ममाचक्ष्व माधव ।।
वसुधाया वचः श्रुत्वा वराहः प्रीतमानसः ।। ३ ।।
उवाच धर्मसंयुक्तं धर्मज्ञो वाक्यकोविदः ।।
श्रीवराह उवाच ।।
येन मन्त्रेण संयुक्तो मम प्रापणकं नयेत् ।। ४ ।।
सप्त व्रीहींस्ततो गृह्य पयसा सह संयुतम् ।।
परमं तस्य शाकानि मधूकोदुम्बरं तथा ।। ५ ।।
एते चान्ये च बहवः शतशोऽथ सहस्रशः ।।
कर्मण्याश्च त एतेषां ये मया परिकीर्त्तिताः ।। ६ ।।
व्रीहीणां च प्रवक्ष्यामि उपयोग्यानि माधवि ।।
एकाग्रं मानसं कृत्वा प्रापणं शृणु सुन्दरि ।। ७ ।।
धर्मचिल्लिकशाकं च सुगन्धं रक्तमालिकौ ।।
दीर्घशालिमहाशाली वरकुङ्कुममाक्षिकौ ।।८।।
आमोदा शिवसुन्दर्यौ शिरीकाकुलशालिकाः ।।
विविधं यावकान्नं च ज्ञेयान्येतानि कर्मणि ।। ९।।
कर्मण्या मुद्गमाषा वै तिलकङ्गुकुलित्थकाः ।।
गवेधुकं महामोहं मकुष्ठमथवाहिजाम्।। 119.१० ।।
श्यामाकमिति चोक्तानि कर्मण्यानि वसुन्धरे ।।
कर्मण्यानि च शाकानि विजानीहि वसुन्धरे।।। ११ ।।
एतानि प्रतिगृह्णामि यच्च भागवतं प्रियम्।।
मार्गमांसं वरं छागं शासं समनुयुज्यते ।। १२ ।।
एतानि प्रापणे दद्यान्मम चैतत्प्रियावहम्।।
युञ्जानो वितते यज्ञे ब्राह्मणे वेदपारगे।। १३।।
भागो ममास्ति तत्रापि पशूनां छागलस्य च।।
माहिषं वर्जयेन्मह्यं क्षीरं दधि घृतं ततः ।। १४ ।।
वर्जयेत्तत्र मांसानि यजुषा वैष्णवोऽश्नुते ।।
परं पायसमपि वर्ज्यानि तन्मांसं चेतकः खुरे ।। १५ ।।
पक्षिणां च प्रवक्ष्यामि ये प्रयोज्या वसुन्धरे ।।
ये चैव मम क्षेत्रेषु उपयुज्यन्ति नित्यशः ।। १६ ।।
लावकं वार्त्तिकं चैव प्रशस्तं च कपिञ्जलम् ।।
एते चान्ये च बहवः शतशोऽथ सहस्रशः ।। १७ ।।
मम कर्मणि योग्या ये ते मया परिकीर्त्तिताः ।।
यस्त्वेतत्तु विजानीयात्कर्मकर्ता तथैव च ।। १८ ।।
नापराध्नोति स नरो मम चोक्तं वचः प्रिये ।।
ते च भोज्याश्च मङ्गल्या मम भक्तसुखावहाः।।१९।।
ततो यष्टव्यमेवं हि य इच्छेत् सिद्धिमुत्तमाम् ।।
य एतेन विधानेन यजिष्यति वसुन्धरे ।। 119.२० ।।
प्राप्नुवन्ति परां सिद्धिं ममैव कृतकर्मिणः ।।
इति श्रीवराहपुराणे भगवच्छास्त्रे प्रापणद्रव्य कर्मण्य भोज्यनियमविधिर्नामोनविंशत्यधिकशततमोऽध्यायः ।।११९।।