प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ११९ वराहपुराणम्
अध्यायः १२०
[[लेखकः :|]]
अध्यायः १२१ →

अथ त्रिसन्ध्यामन्त्रोपस्थानम् ।।
श्रीवराह उवाच ।।
शृणुष्व परमं गुह्यं पूर्वं पृष्टं त्वया धरे ।।
देवि सर्वं प्रवक्ष्यामि संसारतरणं महत् ।। १ ।।
स्नानं कृत्वा यथान्यायं मम कर्मपरायणाः।।
उपसर्पन्ति ये भक्त्या कदन्नाशा जितेन्द्रियाः ।। २ ।।
यश्चैवमुच्यते भद्रे मम रूपं सनातनम् ।।
अहमेव वरारोहे सर्वभूतसनातनम् ।। ३ ।।
अधश्चोर्ध्वं च तिर्यक् च अहमेव व्यवस्थितः ।।
दिशां च विदिशां चैव उपर्युपरि भामिनि ।। ४ ।।
सर्वथा वन्दनीयास्ते मम भक्तेन सर्वदा ।।
क्रियासमूह युक्तेन यदीच्छेत्परमां गतिम् ।। ५ ।।
अन्यच्च ते प्रवक्ष्यामि गुह्यं लोके महद्यशः ।।
यथा वै वन्दनीयास्ते मम मार्गानुसारिणः ।। ६ ।।
कृत्वापि परमं कर्म बुद्धिमादाय तद्विधाम् ।।
ततः पूर्वमुखो भूत्वा पुनर्गृह्य जलाञ्जलिम् ।। ७ ।।
ओं नमो नारायणेत्युक्त्वा इमं मन्त्रमुदीरयेत् ।। ८ ।।
यजामहे धर्मपरायणोद्भवं नारायणं सर्वलोकप्रधानम् ।।
ईशानमाद्यं पुरुषं पुराणं संसारमोक्षाय कृपाकरं तम् ।। ९ ।।
ततः पश्चान्मुखो भूत्वा पुनर्गृह्य जलांजलिम् ।।
द्वादशाक्षरमुच्चार्य इमं मन्त्रमुदीरयेत् । 120.१० ।।
मन्त्रा ऊचुः ।।
यथा तु देवः प्रथमादिकर्त्ता पुराण कल्पश्च यथा विभूतिः ।।
तथा स्थितं चादिमनन्तरूपममोघसंकल्पमनन्तमीडे ।।११ ।।
ततस्तेनैव कालेन पुनर्गृह्य जलांजलिम् ।।
तेनैव चास्य योगेन भूत्वा चैवोत्तरामुखः ।।
नमो नारायणेत्युक्त्वा इमं मंत्रमुदीरयेत् ।। १२ ।।
यजामहे दिव्यं परं पुराणमनादिमध्यान्तमनन्तरूपम् ।।
भवोद्भवं विश्वकरं प्रशान्तं संसारमोक्षावहमद्वितीयम् ।। १ ३।।
ततस्तेनैव कालेन भूत्वा वै दक्षिणामुखः ।।
नमः पुरुषोत्तमायेत्युक्त्वा इमं मन्त्रमुदीरयेत्।।१४।।
यजामहे यज्ञमहो रूपं तु सत्यं ऋतं च कालादिमरूपमाद्यम्।।
अनन्यरूपं च महानुभावं संसारमाक्षोय कृतावतारम् ।।१५।।
काष्ठकृत्यस्ततो भूत्वा कृत्वा चेन्द्रियनिग्रहम्।।
अच्युते तु मनः कृत्वा इमं मंत्रमुदाहरेत् ।।१६।।
यजामहे सोमपं भवन्तं ते सोमार्कनेत्रं शतपत्रनेत्रम्।।
जगत्प्रधानं ननु लोकनाथं मृत्युत्रिसंसारविमोक्षणं च ।।१७।।
त्रिषु सन्ध्यास्वनेनैव विधिना कुर्यान्मम च कर्म तत्।।
बुद्ध्या युक्त्या च मत्या च यदीच्छेत्परमां गतिम् ।।१८।।
गुह्यानां परमं गुह्यं योगानां परमो निधिः ।।
सांख्यानां परमं सांख्यं कर्मणां कर्म चोत्तमम् ।।१९।।
एतन्न दद्यान्मूर्खाय पिशुनाय शठाय च ।।
दीक्षितायैव दातव्यं सुशिष्याय दृढाय च ।। 120.२० ।।
एतन्मरणकालेऽपि गुह्यं विष्णुप्रभाषितम् ।।
बुद्ध्या धारयितव्यं न विस्मर्त्तव्यं कदाचन।।२१।।
य एतत्पठते नित्यं कल्पोच्छ्रायी दृढव्रतः ।।
ममापि हृदये नित्यं स तिष्ठति न संशयः।। २२।।
य एतेन विधानेन त्रिसन्ध्यं कर्म कारयेत् ।।
तिर्यग्योनिविनिर्मुक्तो मम लोकं स गच्छति ।। २३ ।।
इति श्रीवराहपुराणे भगवच्छास्त्रे त्रिसन्ध्यामन्त्रोपस्थानकरणं नाम विंशत्यधिकशततमोऽध्यायः ।। १२०।।