प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १२० वराहपुराणम्
अध्यायः १२१
[[लेखकः :|]]
अध्यायः १२२ →

अथ जन्माभावः ।।
श्रीवराह उवाच ।।
येन गर्भं न गच्छेत तच्छृणुष्व वसुन्धरे ।।
कथयिष्यामि ते ह्येवं सर्वधर्मविनिश्चयम् ।। १ ।।
कृत्वापि विपुलं कर्म आत्मानं न प्रशंसति ।।
करोति बहुकर्माणि शुद्धेनैवान्तरात्मना ।। २ ।।
कृत्वा तु मम कर्माणि समर्थोऽनुग्रहे रतः ।।
कार्याकार्ये विजानाति सर्वधर्मेषु निष्ठितः ।। ३।।
शीतोष्णवातवर्षादिक्षुत्पिपासासहश्च यः ।।
यो दरिद्रो निरालस्यः सत्यवागनसूयकः ।।४।।
स्वदारनिरतो नित्यं परदारविवर्जकः ।।
सत्यवादी विशुद्धात्मा नित्यं च भगवत्प्रियः ।। ५ ।।
संविभाज्य विशेषज्ञो नित्यं ब्राह्मणवत्सलः ।।
प्रियभाषी द्विजानां च मम कर्मपरायणः ।। ६ ।।
कुयोनिं तु न गच्छेत मम लोकं स गच्छति ।।
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ।।७ ।।
यो वियोनिं न गच्छेत मम कर्मपरायणः ।।
जीवहिंसानिवृत्तस्तु सर्वभूतहितः शुचिः ।। ८ ।।
सर्वत्र समतायुक्तः समलोष्ठाश्मकांचनः ।।
बाल्ये स्थितोऽपि वयसि क्षान्तो दान्तः शुभे रतः ।। ९ ।।
नित्यं नैव विजानाति परेणापकृतं क्वचित् ।।
कर्त्तव्यं संस्मरेत्सर्वं मम सत्यं च जल्पति ।। 121.१० ।।
व्यलीकाद्विनिवृत्तो यस्तथ्येतिकृतनिश्चयः ।।
नित्यं च वृत्तिमान्कश्चित्परोक्षेऽपि न चाक्षिपेत् ।।११।।
ऋतुकालेऽपि गच्छेद्यः अपत्यार्थे स्वकां स्त्रियम् ।।
ईदृशास्तु नरा भद्रे मम कर्मपरायणाः।।१२।।
ते वियोनिं न गच्छन्ति मम गच्छन्ति सुन्दरि ।।
पुनरन्यत्प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ।। १३ ।।
पुरुषाणां प्रसन्नानां यश्च धर्मः सनातनः ।।
मनुनाप्यन्यथा दृष्टो ह्यन्यथांगिरसेन च ।। १४ ।।
शुक्रेण चान्यथा दृष्टो गौतमेनापि चान्यथा ।।
सोमेन चान्यथा दृष्टो रुद्रेणाप्यन्यथा पुनः।।१५।।
शङ्खेन चान्यथा दृष्टो लिखितेनापि चान्यथा ।।
कश्यपेनान्यथा दृष्टो धर्मेणाप्यन्यथा धरे ।।।३३।।
अग्निना वायुना चैव दृष्टो धर्मोऽन्यथा धरे ।।
यमेन चान्यथा दृष्ट इन्द्रेण वरुणेन च ।। १७ ।।
कुबेरेणान्यथा दृष्टः शाण्डिल्येनापि चान्यथा ।।
पुलस्त्येनान्यथा दृष्ट आदित्येनापि चान्यथा ।। १८ ।।
पितृभिश्चान्यथा दृष्टो ह्यन्यथापि स्वयम्भुवा ।।
आत्मनात्मनि धर्मेण ये नरा निश्चितव्रताः ।। १९ ।।
स्वकं पालयते धर्मं स्वमतेनैव भाषितम् ।।
परवादं न कुर्वीत सर्वधर्मेषु निश्चितम् ।। 121.२०।।
न निन्देद्धर्मकार्याणि आत्मधर्मपथे स्थितः ।।
एभिर्गुणैः समायुक्तो मम कर्माणि कारयेत् ।। २१ ।।
वियोनिं स न गच्छेत मम लोकाय गच्छति ।।
पुनरन्यत्तु वक्ष्यामि तच्छृणुष्वेह माधवि ।। २२ ।।
तरन्ति पुरुषा येन गर्भसंसारसागरम् ।।
जितेन्द्रिया जितक्रोधा लोभमोहविवर्जिताः ।। २३ ।।
आत्मोपकारका नित्यं देवातिथिगुरुप्रियाः ।।
हिंसादीनि न कुर्वन्ति मधुमांसविवर्जकाः ।। २४ ।।
मनसा ब्राह्मणीं चैव यो गच्छेन्न कदाचन ।।
विप्राय कपिलां दद्याद्वृद्वं सान्त्वेन पालयेत् ।। २५ ।।
सर्वेषां चैव पुत्राणां न विशेषं करोति यः ।।
संक्रुद्धं ब्राह्मणं दृष्ट्वा यस्तु तत्र प्रसादयेत् ।। २६ ।।
यः स्पृशेत्कपिलां भक्त्या कुमारीं न च दूषयेत् ।।
अग्निं न च क्रमेत्पद्भ्यां न च पुत्रेण भाषयेत् ।। २७ ।।
जलेन मेहयेद्यस्तु गुरुभक्तो न जल्पकः ।।
एवं धर्मेण संयुक्तो यो नु मां प्रतिपद्यते ।।२८।।
स च गर्भं न गच्छेत मम लोकं स गच्छति ।। २९ ।।
इति श्रीवराहपुराणे जन्माभावो नामैकविंशत्यधिकशततमोऽध्यायः ।। १२१ ।।