वराहपुराणम्/अध्यायः १२२
← अध्यायः १२१ | वराहपुराणम् अध्यायः १२२ [[लेखकः :|]] |
अध्यायः १२३ → |
अथ कोकामुखमाहात्म्यम् ।।
वराह उवाच ।।
गुह्यानां परमं गुह्यं तच्छृणुष्व वसुन्धरे ।।
तिर्यग्योनिगताश्चापि येन मुच्यन्ति किल्बिषात् ।। १ ।।
अष्टम्यां च चतुर्द्दश्यां मैथुनं यो न गच्छति ।।
भुक्त्वा परस्य चान्नानि यश्चैव न विकुत्सति ।। २ ।।
बाल्ये वयस्यपि च यो मम नित्यमनुव्रतः ।।
येन केनापि संतुष्टो यो मातापितृपूजकः ।। ३ ।।
आयासे जीवति न यः प्रविभागी गुणान्वितः ।।
दाता भोक्ता च कार्येषु स्वतन्त्रो नित्यसंयतः ।। ४ ।।
विकर्म नाभिकुर्वीत कौमारव्रतसंस्थितः ।।
सर्वभूतदयायुक्तः सत्त्वेन च समन्वितः ।। ५ ।।
मत्या च निःस्पृहोऽत्यन्तं परार्थेष्वस्पृहः सदा ।।
ईदृग्बुद्धिं समादाय मम लोकाय गच्छति ।।
इमं गुह्यं वरारोहे देवैरपि दुरासदम् ।। ६ ।।
तच्छृणुष्वानवद्याङ्गि कथ्यमानं मयाऽनघे ।।
जरायुजाण्डजोद्भिज्जस्वेदजानि कदाचन ।। ७ ।।
ये न हिंसन्ति भूतानि शुद्धात्मानो दयापराः ।।
यस्तु कोकामुखे देवि ध्रुवं प्राणान्परित्यजेत् ।।८।।
मनसा न चलत्येव मम वल्लभतां व्रजेत् ।।
ततो विष्णुवचः श्रुत्वा सा मही संशितव्रता ।।९।।
वराहरूपिणं देवं प्रत्युवाच वसुन्धरा ।। 122.१० ।।
धरण्युवाच ।।
अहं शिष्या च दासी च भक्ता च त्वयि माधव ।। ११ ।।
एवं मे परमं गुह्यं त्वद्भक्त्या वक्तुमर्हसि ।।
चक्रं वाराणसीं चैव अट्टहासं च नैमिषम् ।। १२ ।।
भद्रकर्णह्रदं चैव हित्वा कोकां प्रशंससि ।।
नगरं च द्विरण्डं च मुकुटं मण्डलेश्वरम् ।। १३ ।।
केदारं च ततो मुक्त्वा कि कोकां च प्रशंससि ।।
देवदारुवनं मुक्त्वा तथा जालेश्वरं विभुम् ।। १४ ।।
दुर्गं महाबलं मुक्त्वा किं वै कोकां प्रशंससि ।।
गोकर्णं च ततो मुक्त्वा शुद्धजाल्मेश्वरं तथा ।। १५ ।।
एकलिङ्गं ततो मुक्त्वा किं वा कोकां प्रशंससि ।।
एवं पृष्टस्तथा भक्त्या माधवश्च महाप्रभुः ।। १६ ।।
वराहरूपी भगवान्प्रत्युवाच वसुन्धराम् ।।
श्रीवराह उवाच ।।
एवमेतन्महाभागे यन्मां त्वं भीरु भाषसे ।। १७ ।।
कथयिष्यामि ते गुह्यं कोका येन विशिष्यते ।।
एते रुद्राश्रिताः क्षेत्रा ये त्वया परिकीर्तिताः ।। १८ ।।
एते पाशुपताश्चैषां कोका भागवतस्य ह ।।
तत्रान्यत्ते प्रवक्ष्यामि महाख्यानं वरानने ।। १९ ।।
कृतं कोकामुखे चैव मम क्षेत्रे हि सुन्दरि ।।
कश्चिल्लुब्धो मिषाहारश्चरन्वै कोकमण्डले ।। 122.२० ।।
तत्राल्पेनाम्बुना युक्ते ह्रदे मत्स्यस्तु तिष्ठति ।।
दृष्ट्वा तं लुब्धकस्तूर्णं बडिशेनाजहार ह ।।
तस्य हस्ताच्च बलवान्मत्स्यस्तूर्णं विनिर्गतः ।।
अथ श्येनस्तु तं हर्त्तुं मन्त्रयित्वा नभश्चरः ।।२१।।
निपत्य तं गृहीत्वैव प्रोड्डीनस्त्वरयान्वितः ।।
अशक्तस्य ततो नेतुं मत्स्यः कोकामुखेऽपतत् ।।२२।।
तत्क्षेत्रस्य प्रभावेण राजपुत्रोऽभवत्प्रभुः ।।
रूपवान् गुणवाञ्छुद्धः कुलेन वयसान्वितः ।।२३।।
अथ कालेन तस्यैव मृगव्याधस्य चाङ्गना।।
गृहीत्वा चैव मांसानि गच्छन्ती याति तत्र वै ।।२४।।
एका चिल्ली मांसलुब्धा तद्धस्तान्मांसगर्द्धिनी ।।
आगत्यागत्य तरसा हर्त्तुं समुपचक्रमे ।। २५ ।।
मृगव्याधा बलान्मांसं हर्तुकामां तु चिल्लिकाम्।।
बाणेनैकेन संहत्य पातिता भुवि तत्क्षणात्।।२६।।
आकाशात्पातिता भद्रे कोकायां मम सन्निधौ।।
जाता चन्द्रपुरे रम्ये राजपुत्री यशस्विनी।।२७ ।।
सा व्यवर्द्धत कन्या तु वयोरूपगुणान्विता।।
चतुःषष्टिकलायुक्ता पुरुषं सा जुगुप्सति ।।२८।।
रूपवान्गुणवाञ्छूरो युद्धकार्यार्थनिश्चितः ।।
सौम्यश्च पुरुषश्चैव सा च नेति जुगुप्सति ।। २९ ।।
रूपवान्गुणवाञ्छूरो युदकार्यार्थनिष्ठितः ।।
सौम्यं च पुरुषं चैव सर्वानभिजुगुप्सति ।। 122.३० ।।
अथ केनचित्कालेन शक आनन्दपूरके।।
सम्बन्धो जायत तयोर्मध्यमे वयसि स्थयोः ।। ३१ ।।
तथा तु तौ समासाद्य परस्परमथ क्रमात् ।।
यथान्यायं स विप्रोक्तं विधिदृष्टेन कर्मणा ।।३२।।
स वै तथा समं नित्यं सा च तेन समं शुभा ।।
अन्योन्यं रममाणौ तौ मुहूर्तमपि नोज्झतः।।३३।।
गच्छत्येवं बहुतरे काले चैवाप्यनिंदिता ।।
समप्रेम्णा च संयुक्ता सौह्रदेन च नायकम्।।३४।।
भजमाना विनीता च सौहृदाच्च विशेषतः ।।
एवं बहुगतः कालः कामभोगेषु सक्तयोः।।३९।।
राजपुत्रस्तस्तोऽप्यत्र शकानां नंदवर्द्धनः।।
तस्या जायत मध्याह्ने शिरोरुगतिपीडिनी।।३६।।
ये केचिद्भिषजस्तत्र गदेषु कुशलाः शुभे।।
ते तत्रोषधयोगं च चक्रुस्तेनापि वेदना ।।३७।।
ननाश नैव संयातः कालो बहुतिथस्ततः।।
न सम्बुध्यति चात्मानं विष्णुमायाविमोहितः।।३८।।
पूर्णे हि समये तत्तु उभयोश्च तदन्तरम्।
तस्य कालः संवृतस्य योऽसौ पूर्वप्रतिस्तवः ।।३९।।
अयने गत एतेषां वृत्तं कौतूहलं भुवि ।।
अन्योऽन्यप्रीतियुक्तौ तु नान्योऽन्यं जहतुः क्वचित् ।।122.४० ।।
ततः सर्वानवद्याङ्गी भर्त्तारमिदमब्रवीत् ।।
किमिदं तव भद्रं ते वेदना जायते शिरे ।। ४१ ।।
एतदाचक्ष्व तत्त्वेन यद्यहं च तव प्रिया ।।
बहवो भिषजश्चैव नानाशास्त्रविशारदाः ।।४२।।
कुर्वन्ति तव कर्माणि वेदना च न गच्छति ।।
एवं स प्रियया प्रोक्तस्तां प्रियां पुनरब्रवीत् ।।४३।।
इदं किं विस्मृता भद्रे सर्वव्याधिसमन्वितम् ।।
यल्लब्धं मानुषत्वं च सुखदुःखसमन्वितम् ।। ४४।।
संसारसागरारूढं नातिप्रष्टुं त्वमर्हसि ।।
तेनैवं भाषिता बाला श्रोतुकामा वरानना।।४५।।
ततः कदाचिच्छयने सुप्तौ तौ दम्पती किल।।
गते बहुतिथे काले पुनः पप्रच्छ सा प्रियम्।।४६।।
कथयस्व तमेवार्थं यन्मया पूर्वपृच्छितम्।।
किं मां न भाषसे नाथ साभिप्रायं वचस्तव।।४७।।
गोप्यं वा किंचिदस्तीह किं गोपयसि मे पुरः।।
अवश्यं चैव वक्तव्यं यद्यहं तव वल्लभा।।४८।।
इति निर्बन्धतः पृष्टः स शकाधिपतिर्नृपः।।
तां प्रियां प्रणयात्प्राह बहुमानपुरःसरम् ।।४९।।
मुच्यतां मानुषं भावं तां जातिं स्मर पौर्विकीम् ।।
अथ कौतूहलं भद्रे श्रवणे पूर्वजन्मनः ।।122.५०।।
मन्मातापितरौ गत्वा प्रसादय शुचिस्मिते।।
मानार्हौ मानयित्वा तौ ययाहं जठरे धृतः।।५१।।
तयोराज्ञां पुरस्कृत्य मानयित्वा यथार्हतः ।।
अथ कोकामुखे गत्वा कथयिष्याम्यसंशयम् ।। ५२ ।।
स्वपूर्वजन्मवृत्तं तु देवानामपि दुलर्भम् ।।
तत्र ते कथयिष्यामि सर्ववृत्तमनिन्दिते ।। ५३ ।।
ततः सा ह्यनवद्याङ्गी श्वश्रूश्वशुरयोः पुरः ।।
गत्वा गृहीत्वा चरणौ ततस्ताविदमब्रवीत् ।।५४।।
किंचिद्विज्ञप्तुकामास्मि तत्र वामवधीयताम् ।।
भवदाज्ञां पुरस्कृत्य भवद्भ्यामनुमानितौ ।। ५५ ।।
पुण्ये कोकामुखे गन्तुमिच्छावस्तत्र वां गुरू ।।
कार्यगौरवभावेन न निषेध्यौ कथञ्चन ।। ५६ ।।
अद्य यावत्किमपि वां याचितं न मया क्वचित्।।
पुरस्ताद्ध्यावयोस्तन्मे याचितं दातुमर्हतः ।। ५७ ।।
शिरावेदेनया युक्तः सदा तव सुतो ह्ययम् ।।
मध्याह्ने मृतकल्पो वै जायते ह्यचिकित्सकम् ।।५८।।
सुखानि सर्वविषयान्विसृज्य परिपीडितः ।।
कोकामुखं विना कष्टं न निवृत्तं भविष्यति ।। ५९ ।।
कदाचिन्नोक्तपूर्वं ते रहस्यं परमं महत् ।।
त्वरितं गन्तुमिच्छामि विष्णोस्तत्परमं पदम् ।। 122.६० ।।
दम्पतिभ्यां हि मननं रोचतां सर्वथैव हि ।।
ततो वधूवचः श्रुत्वा शकानामधिपो नृपः ।। ६१ ।।
करेण स्वयमादाय वधूं पुत्रमुवाच ह ।।
किमिदं चिन्तितं वत्स कोकामुखगमं प्रति ।। ६२ ।।
हस्त्यश्वरथ यानानि स्त्रियश्चाप्सरसोपमाः ।।
सर्वमेतत्तु सप्ताङ्गं कोशकोष्ठादिसंयुतम् ।।६३।।
शरणं वित्तयो राज्यं त्वयि सर्वं प्रतिष्ठितम् ।।
मित्रं वरासनं चैव गृह्णीष्व सुतसत्तम ।।६४।।
त्वयि प्रतिष्ठिताः प्राणाः सन्तानं च तदुत्तरम् ।।
ततः पितुर्वचः श्रुत्वा राजपुत्रो यशस्विनि ।। ६५ ।।
पितुः पादौ गृहीत्वा च प्रोवाच विनयान्वितः ।।
अलं राज्येन कोशेन वाहनेन बलेन वा ।। ६६ ।।
गन्तुमिच्छामि तत्राहं तूर्णं कोकामुखं महत् ।।
शिरोवेदनया युक्तो यदि जीवाम्यहं पितः ।। ६७ ।।
तदा राज्यं बलं कोशो ममैवैतन्न सशंयः ।।
तत्रैव गमनान्मह्यं वेदना नाशमेष्यति।६८।।
पुत्रोक्तमवधार्यैव शकानामधिपो नृपः ।।
अनुजज्ञे ततः कोकां गच्छ पुत्र नमोऽस्तु ते ।। ६९ ।।
वणिजश्चैव पौराश्च वैश्याश्चापि वराङ्गनाः ।।
अनुजग्मू राजपुत्रं कोकामुखपथे स्थितम् ।। 122.७० ।।
अथ दीर्घेण कालेन प्राप्तः कोकामुखं त्विदम् ।।
तत्र गत्वा वरारोहा भर्त्तारमिदमब्रवीत् १७३।।
पूर्वपृष्टं मया यत्ते वक्ष्यामीति च मां प्रति ।।
कोकामुखे त्वयाप्युक्तं तदेतन्मम कथ्यताम् ।। ७२ ।।
निशम्येति प्रियाप्रोक्तं राजपुत्रो यशस्विनि ।।
प्रहस्याह भिया तां तु समालिङ्ग्य वसुन्धरे ।। ७३ ।।
रजनी सम्प्रवृत्तेयं सुखं स्वापो विधीयताम् ।।
श्वः सर्वं कथयिष्यामि यत्ते मनसि वर्त्तते।।७४।।
प्रभातायां तु शर्वर्यां स्नातौ क्षौमविभूषितौ।।
प्रणम्य शिरसा विष्णुं हस्ते गृह्य ततः प्रियाम् ।।७९।।
ततः पूर्वोत्तरे पार्श्वे नित्यं यो हृदि तिष्ठति ।।
अस्थीनि दर्शयामास अवशिष्टानि यानि तु।।७।।
एतानि मम चास्थानि पूर्वदेहोद्भवानि च ।।
अहं पुराभवं मत्स्यः कोकेषु विचरन् जले ।।७।।
व्याधेन निगृहीतोऽस्मि बडिशेन जलेचरः।।
तद्धस्तान्निर्गतस्तत्र बलेन पतितो भुवि।।७८।।
श्येनेनामिषलुब्धेन नखैर्विद्धोऽस्मि सुन्दरि ।।
नीत आकाशमार्गेण तस्माच्च पतितोऽत्र वै ।। ७९ ।।
तेन तस्य प्रहारेण जाता शिरसि वेदना ।।
अहमेव विजानामि नान्यो जानाति मां विना।।122.८०।।
एतत्ते कथितं भद्रे पूर्वपृष्टं च यत्त्वया ।।
गच्छ सुन्दरि भद्रं ते यत्र ते वर्त्तते मनः ।।८१।।
ततः साप्यनवद्याङ्गी रक्तपद्मशुभानना ।।
करुणं स्वरमादाय भर्त्तारं पुनरब्रवीत् ।। ८२ ।।
एतदर्थं मया भद्र गुह्यं नोक्तं तथा स्वकम् ।।
अहं च यादृशी पूर्वमभवं तच्छृणुष्व मे।।८३।।
क्षुत्पिपासापरिश्रान्ता चिल्ली गगनगामिनी।।
वृक्षोपरि समासीना भक्ष्यं चैव विचिन्वती ।।८४।।
अथ कश्चिन्मृगव्याधो हत्वा वनचरान्बहून्।।
संगृह्य मांसभारान्वै तेन मार्गेण सङ्गतः।।८५।।
स्थापयित्वा मांसभारान्प्रियायाः सविधे स्वयम् ।।
काष्ठान्यानयितुं यातः क्षुधितो मांसपाचने ।।८३।।
प्रवृत्तोऽग्निमुपादाय तावदुड्डीय सत्वरम्।।
मांसपिण्डो मया विद्धो दृढैर्वज्रमयैर्नखैः ।।८७।।
न च सक्तास्मि संहर्त्तुं मांसभारप्रपीडिता ।।
अशक्ता दूरगमने सविधे हि व्यवस्थिता ।। ८८ ।।
भक्षयित्वा ततो मांसं व्याधः संहृष्टमानसः ।।
अपश्यन्मांसपिण्डं तु मृगयामास पार्श्वतः ।।८९।।
तावद्ददर्श मां तत्र खादन्तीं मांसपिण्डिकाम्।।
ततः स धनुरुद्यम्य सशरं च व्यकर्षत।।122.९०।।
विद्धा बाणेन मां तत्र भक्षयन्तमिपातयत् ।।
ततोऽहं भ्रममाणा वै निश्चेष्टा गतजीविता ।।९१ ।।
पतितास्म्यवशा भद्र कालतन्त्रे दुरासदे ।।
एतत्क्षेत्रप्रभावेण त्वकामापि नृपात्मजा।।९२।।
जातास्मि त्वत्प्रिया चापि स्मरन्ती पूर्वजन्म तत्।।
एतानि पश्य चास्थीनि शेषाणि बहुकालतः।।९३।।
गलितान्यल्पशेषाणि प्राणनाथ समीपतः ।।
एवं सा दर्शयित्वा तु भर्त्तारं पुनरब्रवीत् ।।९४ ।।
आनीतोऽसि मया भद्र स्थानं कोकामुखं प्रति।।
एतत्क्षेत्रप्रभावेण तिर्यग्योनिगता अपि।।९५।।
उत्तमे तु कुले जाता मानुषी जातिमाश्रिताः ।।
यं यं प्रवक्ष्यसे धर्मं विष्णुप्रोक्तं यशोधन।।९६।।
तं तमेव करिष्यामि विष्णुलोके सुखावहम् ।।
ततस्तस्या वचः श्रुत्वा लब्धपूर्वस्मृतिर्नृपः ।। ९७ ।।
विस्मयं परमं गत्वा साधु साध्वित्यपूजयत् ।।
तस्मिन् क्षेत्रे च यत्कर्म कर्त्तव्यं धर्मसंहितम्।।९८।।
तच्छ्रुत्वा कानिचिद्देवी स्वयं चक्रे पतिव्रता।।
अन्येऽपि सर्वे तच्छ्रुत्वा यस्य यद्रोचते प्रियम् ।। ९९ ।।
तत्तत्सर्वेऽपि कुर्वंति विधिदृष्टेन कर्मणा ।।
तत्र तौ दम्पती द्रव्यमन्नं रत्नं द्विजेषु च ।। 122.१०० ।।
ददतुः परमप्रीतौ पात्रेभ्यश्च यथार्हतः ।।
येऽन्ये तत्सार्थमासाद्य यातास्तेऽपि वसुन्धरे ।। १०१ ।।
ब्राह्मणेभ्यो ददुः स्वानि विष्णुभक्त्या यतव्रताः ।।
तत्र स्थित्वा वरारोहे मम कर्मव्यवस्थितः ।। १०२ ।।
तत्क्षेत्रस्य प्रभावेण श्वेतद्वीपमुपागताः ।।
एवं स राजपुत्रोऽपि मम कर्मव्यवस्थितः ।। १०३ ।।
मुक्त्वा तु मानुषं भावं श्वेतद्वीपमुपागतः ।।
सर्वे च पुरुषास्तत्र आत्मनात्मानुदर्शनात् ।।१०४ ।।
( शुक्लाम्बरधरा दिव्यभूषणैश्च विभूषिताः ।।
दीप्तिमन्तो महाकायाः सर्वे च शुभदर्शनाः ।। १०५ ।।
स्त्रियोऽपि दिव्या यत्रत्या दिव्यभूषणभूषिताः ।।
तेजसा दीप्तिमत्यश्च शुद्धसत्त्व विभूषिताः ।। १०६ ।।
मयि शुद्धं परं भावमारूढाः सत्यवर्च्चसः ।।
एतत्ते कथितं देवि कोकामुखमनुत्तमम् ।। १०७ ।।
यत्र मत्स्यश्च चिल्ली च सकामा ये समागताः ।।
केचिच्चान्द्रायणं कुर्युः केचिच्चैव जलाशनम्।।१०८।।
ते च विष्णुमयान्धर्मान्द्विजस्तांस्तान्त्समाचरेत् ।।
बहुधान्यवरं रत्नं दंपत्योऽथ यशस्विनी ।। १०९ ।।
तेऽपि कुर्वन्ति कर्माणि मम भक्ता व्यवस्थिताः ।।
तेऽपि दीर्घेण कालेन अटमाना इतस्ततः ।। 122.११० ।।
कुर्वन्तो मम कर्माणि भाव्यं पंचत्वमागताः ।।
ततः क्षेत्रप्रभावेण मम कर्मप्रभावतः ।। १११ ।।
मम चैव प्रसादेन श्वेतद्वीपमुपागतः ।।
एवं स राजपुत्रोऽथ सर्वभूतगुणान्वितः ।।१ १२ ।।
भुक्त्वा तु मानुषं भावमूर्ध्वशाखोनुतिष्ठति ।।
योऽसौ परिजनस्तस्य मम कर्मव्यवस्थितः ।।११ ३ ।।
मानुषं भावमुत्सृज्य मम लोकमुपागतः ।।
सर्वशो द्युतिमांस्तत्र आत्मनानात्मदर्शनात् ।। ११४ ।।)
याश्च तत्र स्त्रियः काश्चित्सर्वाश्चोत्पलगन्धिनीः ।।
मायया मतिमन्मुक्ताः सर्वाश्चैव प्रियावृताः ।। ११५ ।।
प्रसादान्मम सुश्रोणि श्वेतद्वीपमुपागताः।।
एष धर्मश्च कीर्तिश्च शक्तिश्चैव महद्यशः ।। ११६ ।।
कर्मणां परमं कर्म तपसां च महत्तपः ।।
आख्यानानां च परमं कृतीनां परमा कृतिः ।। ११७ ।।
धर्माणां च परो धर्मस्तवार्थं कीर्तितो मया ।।
क्रोधनाय न तं दद्यान्मूर्खाय पिशुनाय च ।। ११८ ।।
अभक्ताय न तं दद्यादश्रद्धाय शठाय च ।।
दीक्षितायैव दातव्यं सुप्रपन्नाय नित्यशः ।। ११९ ।।
पण्डिताय च दातव्यं यश्च शास्त्रविशारदः ।।
एतन्मरणकालेऽपि धारयेद्यः समाहितः ।। 122.१२० ।।
सोऽपि मुच्येत पूतात्मा गर्भाद्योनिभवाद्भयात् ।।
एतत्ते कथितं भद्रे महाख्यानं महौजसम् ।। १२१ ।।
य एतेन विधानेन गत्वा कोकामुखं महत्।।
तेऽपि यान्ति परां सिद्धिं चिल्लीमत्स्यौ यथा पुरा।।१२२।।
इति श्रीवराहपुराणे कोकामुखमाहात्म्ये द्वाविंशत्यधिकशततमोऽध्यायः।।१२२।।