प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १२२ वराहपुराणम्
अध्यायः १२३
[[लेखकः :|]]
अध्यायः १२४ →

अथ सुमनोगन्धादिमाहात्म्यम् ।।
सूत उवाच ।।
श्रुत्वा तु कोकामाहात्म्यं पृथिवी धर्मसंहितम् ।।
विस्मयं परमं याता श्रुत्वा धर्मं महौजसम् ।। १ ।।
धरण्युवाच ।।
अहो प्रभावः कोकाया माहात्म्यं क्रोडरूपिणः ।।
तिर्यग्योनिगतो वापि प्राप्तो यत्परमां गतिम् ।। २ ।।
तव देव प्रसादेन किंचिदिच्छामि वेदितुम् ।।
यन्मया पूर्वपृष्टोऽसि केन धर्मेण मानवाः ।। ३ ।।
तपसा कर्मणा वापि पश्यन्ति त्वां हि माधव ।।
प्रसादसुमुखो भूत्वा निखिलं वक्तुमर्हसि ।। ४ ।।
एवं पृष्टस्तदा देव्या माधव्या स तु माधवः ।।
प्रहस्य पुनरेवेदं वक्तुं समुपचक्रमे ।। ५ ।।
श्रीवराह उवाच ।।
एवमेतन्महाभागे यथा त्वं भीरु भाषसे ।।
कथयिष्यामि ते धर्मं गुह्यं संसारमोक्षणम् ।। ६ ।।
गते मेघागमे काले प्रसन्नशरदाशये ।।
अम्बरे विमले जाते विमले शशिमण्डले ।।७।।
नातिशीतं न चात्युष्णे काले हंसविराविणि ।।
कुमुदोत्पलकह्लारपद्मसौरभनिर्भरे।।८।।
कुमुदस्य च मासस्य भवेद्या द्वादशी शुभा ।।
तस्यां मामर्चयेद्यस्तु तत्प्रभावं शृणुष्व मे ।। ९ ।।
यावल्लोकाश्च धार्यन्ते तावत्कालं वसुन्धरे ।।
मद्भक्तो जायते धन्यो नान्यभक्तः कदाचन ।। 123.१० ।।
कृत्वा ममैव कार्याणि द्वादश्यां तत्र माधवि।।
ममैवाराधनार्थाय इमं मन्त्रमुदीरयेत् ।।११।।
मन्त्रः –
ब्रह्मणा च रुद्रेण यः स्तूयमाना भवानृषिवन्दितो वन्दनीयश्च प्राप्ता द्वादशीयं ते प्रबुध्यस्व जागृष्व मेघा गताः पूर्णश्चन्द्रः शारदानि पुष्पाणि लोकनाथ तुभ्यमहं ददानीति धर्महेतोस्तव प्रीतये प्रबुद्धं जाग्रतं लोकनाथ त्वां भजमाना यज्ञेन यजन्ते सत्रेण सत्रिणो वेदैः पठन्ति भगवन्तः शुद्धाः प्रबुद्धा जाग्रतो लोकनाथ।।१२।।
एवं कर्माणि कुर्वन्ति द्वादश्यां वै यशस्विनि।।
मम भक्ता व्रतं श्रेष्ठं ते यान्ति परमां गतिम्।।१३।।
एवं वै शारदं कर्म निखिलं कथितं मया ।।
देवि संसारमोक्षार्थं मम भक्तसुखावहम् ।। १४ ।।
इति प्रबोधिनीकर्म ।।
अन्यच्च ते प्रवक्ष्यामि शैशिरं कर्म शोभनम् ।।
यानि कर्माणि कुर्वन्ति पुंसो यान्ति परां गतिम् ।। १५ ।।
शीतवाताभिसन्तप्ता मम भक्त्या व्यवस्थिताः ।।
अनन्यमनसो भूत्वा योगाय कृतनिश्चयाः ।। १६ ।।
शिशिरे यानि कर्माणि पुष्पिताश्च वनस्पतीः ।।
तैरेव चार्च्चनं कृत्वा जानुभ्यां पतितः क्षितौ ।। १७ ।।
कराभ्यामञ्जलिं कृत्वा इमं मंत्रमुदीरयेत् ।।१८ ।।
मन्त्रः –
शिशिरो भवान् धातरिमं लोकनाथ हिमं दुस्तरं दुष्प्रवेशं कालं संसारान्मां तारयेमं धर्त्ता त्रिलोकनाथ ।। १९ ।।
यस्त्वथैतेन मन्त्रेण शिशिरे कर्म कारयेत् ।।
स गच्छेत्परमां सिद्धिं मम भक्त्या व्यवस्थितः ।। 123.२० ।।
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ।।
मासं मार्गशिरं चैव वैशाखं च मम प्रियम् ।। २१।।
अहं तत्र प्रवक्ष्यामि पुष्पादीनां च यत्फलम् ।।
नववर्ष सहस्राणि नववर्षशतानि च ।। २२ ।।
तिष्ठते विष्णुलोकेऽस्मिन्यो ददाति स्म निश्चलम् ।।
एकैकं गन्धपत्रं च दानमेतन्महत्फलम् ।। २३ ।।
मतिमान्धृतिमान्भूत्वा गन्धपुष्पाणि दापयेत् ।।
पुनरन्यत्प्रवक्ष्यामि गन्धपत्रस्य यत्फलम् ।।२४ ।।
द्वादश्यां चैव यो दद्यात्त्रीन्मासांश्च समाहितः ।।
कौमुदस्य तु मासस्य मार्गशीर्षस्य वै तथा ।। २५ ।।
वैशाखस्य तु मासस्य वनमालां सुपुष्पिताम् ।।
एकचित्तं समाधाय गन्धपुष्पाणि यो न्यसेत् ।। २६ ।।
वर्षाणि द्वादशैवेह तेन पूजा कृता भवेत् ।।
शालपुष्पेण मिश्रेण कौमुद्यां गन्धकेन च।।२७।।
मासि मार्गशिरे भद्रे दद्यादुत्पलमिश्रितम् ।।
एवं महत्फलं भद्रे गन्धपत्रस्य च स्मृतम् ।। २८ ।।
श्रुत्वेति वचनं तस्य प्रश्रयेण तु माधवि ।।
प्रहस्य प्रणयाद्वाक्यमित्युवाच वसुन्धरा ।। २९ ।।
प्रभो द्वादश मासाश्च षष्ट्युत्तरशतत्रयम् ।।
तत्र द्वावेव किं मह्यं भगवन् किं प्रशंससि ।। 123.३० ।।
द्वादशीं चापि देवेश प्रशंससि सदा मम ।।
इति पृष्टस्तदा देव्या धरण्या स तु माधवः ।। ३१ ।।
प्रहस्य तामुवाचेदं वचनं धर्मसंश्रितम् ।।
शृणु तत्त्वेन मे देवि येनेमौ मम च प्रियौ ।। ३२ ।।
तिथीनां द्वादशी चापि सर्वयज्ञफलाधिका ।।
त्वया द्विजसहस्रेभ्यो यत्फलं प्राप्नुयान्नरः ।। ३३ ।।
तदेकं संप्रदायैव द्वादश्यामभिविन्दति ।।
कौमुद्यां च प्रबुद्धोऽस्मि वैशाख्यां च समुद्धृतः ।। ३४ ।।
महानाधिहरो योगस्तेनैतत्प्रभवो धरे ।।
अतः कौमुदिकायां तु वैशाख्यां यतमानसः ।। ३५ ।।
गन्धपत्रं करे गृह्य इमं मन्त्रमुदीरयेत् ।।
मन्त्रः –
भगवन्नाज्ञापय इमं बहुतरं नित्यं वैशाखं चैव कार्तिकम् ।। ३६ ।।
गृहाण गन्धपत्राणि धर्ममेव प्रवर्द्धय ।।
नमो नारायणेत्युक्त्वा गन्धपत्रं प्रदापयेत् ।। ३७ ।।
पुष्पाणां च प्रवक्ष्यामि यो गुणो यच्च वै फलम् ।।
दत्त्वा वै गन्धपत्राणि पुष्पहस्तः शुचिर्नरः ।।
ॐ नमो वासुदेवायेत्युक्त्वा मन्त्रमुदीरयेत् ।। ३८ ।।
मन्त्रः –
भगवन्नाज्ञापय सुमनांसीमानि अर्च्चयितुं मां सुमनसङ्कुरु गृह्णीष्व सुमनस्कं देव सुगन्धेन ते नमः ।। ३९ ।।
प्राप्नोति ददमानस्तु मम कर्मपरायणः ।।
न जन्ममरणं चैव न ग्लानिं न च वै क्षुधाम्।। 123.४०।।
दिव्यं वर्षसहस्रं वै मम लोकेषु तिष्ठति ।।
एकैकस्य तु पुष्पस्य पुण्यमेतन्महाफलम् ।। ४१ ।।
सुमनो गन्धसम्भूतं यत्त्वया पूर्वपृच्छितम् ।। ४२ ।।
इति श्रीवराहपुराणे सुमनोगन्धादिमाहात्म्यं नाम त्रयोविंशत्यधिकशततमोऽध्यायः ।। १२३ ।।