प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १२७ वराहपुराणम्
अध्यायः १२८
[[लेखकः :|]]
अध्यायः १२९ →

अथ कङ्कताञ्जनदर्पणम् ।।
श्रीवराह उवाच ।।
क्षत्रियस्य प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ।।
त्यक्त्वा प्रहरणान्सर्वान्यत्किंचित्पूर्वशिक्षितम् ।। १ ।।
पूर्वमन्त्रेण मे भूमे तस्य दीक्षां च कारयेत् ।।
मया च पूर्वमुक्तानि यानि संसारकाणि च ।। २ ।।
तानि सर्वाणि चानीय एकं वर्ज्यं यशस्विनि ।।
न दद्यात्कृष्णसारस्य चर्म तत्र कदाचन ।। ३।।
पालाशं दण्डकाष्ठं च दीक्षायां न तु कारयेत् ।।
छागस्य चैव कृष्णस्य चर्म तत्र प्रदापयेत् ।। ४ ।।
आश्वत्थं दण्डकाष्ठं तु दीक्षायां तदनन्तरम् ।।
कृत्वा द्वादशहस्तां तु वेदिं तत्रोपलेपयेत् ।। ५ ।।
सर्वं ममोक्तं कर्त्तव्यं यच्च मे पूर्वभाषितम् ।।
एवं क्षत्रियदीक्षायां सर्वं सम्पाद्य यत्नतः ।। ६ ।।
चरणौ मम संगृह्य इमं मन्त्रमुदाहरेत् ।। ७ ।।
मन्त्रः –
त्यक्तानि विष्णो शस्त्राणि त्यक्तं सर्वं क्षत्रियकर्म सर्वम् ।।
त्यक्त्वा देवं विष्णुं प्रपन्नोऽथ संसाराद्वै जन्मनां तारयस्व ।। ८ ।।
एवं ततो वचश्चोक्त्वा क्षत्रियो मम पार्श्वतः ।।
उभौ च चरणौ गृह्य इमं मन्त्रमुदीरयेत् ।। ९ ।।
मन्त्रः –
नाहं शस्त्रं देवदेव स्मृशामि परापवादं न च देव ब्रवीमि ।।
कर्म करोमि संसारमोक्षणं त्वया चोक्तमेव वराहसंस्थान् ।। 128.१० ।।
तत एवं वचो ब्रूते सर्वं चैवात्र पूजयेत् ।।
विविधैर्गन्धपत्रैश्च धूपैश्चैव यथोदितम् ।। ११ ।।
यथोक्तेनैव तान्भूमे भोजयेत्तदनन्तरम् ।।
शुद्धान्भागवतांश्चैव एवमेतन्न संशयः ।। १२ ।।
एषा वै क्षत्रिये दीक्षा देवि संसारमोक्षणम् ।।
मत्प्रसादेन कर्तव्यं यदीच्छेत्सिद्धिमुत्तमाम् ।। १३ ।।
वैश्यस्य चैव वक्ष्यामि शृणु तत्त्वेन सुन्दरि ।।
दीक्षा च यादृशी तस्य यथा भवति सुन्दरि ।। १४ ।।
त्यक्त्वा तु वैश्यकर्माणि मम कर्मपरायणः ।।
यथा च लभते सिद्धिं तृतीया वर्णसंस्थितिः ।। १५ ।।
सर्वं तत्र समानीय यन्मया पूर्वभाषितम् ।।
दशहस्तां ततः कृत्वा वेदिं वेदविचेतितः ।। १६ ।।
लेपयेद्गोमयेनादौ पूर्वन्यायेन तत्र वै ।।
चर्मणापि तु छागस्य स्वगात्रं परिवेष्टयेत्।। १७ ।।
उदुम्बरं दन्तकाष्ठं गृहीत्वा दक्षिणे करे ।।
शुद्धभागवतानां च कृत्वा त्रिः परिवर्त्तनम् ।। १८ ।।
जानुभ्यामवनिङ्गत्वा इमं मन्त्रमुदीरयेत् ।। १९ ।।
मन्त्रः –
अहं हि वैश्यो भवन्तमुपागतः प्रमुच्य कर्माणि च वैश्ययोगम् ।।
दीक्षा च लब्धा भगवत्प्रसादात्प्रसीदतां मे भवबन्धमोक्षणम् ।। 128.२० ।।
मामेवं सोपि चोक्त्वा वै मम कर्मप्रसादवान् ।।
गुरोश्च चरणौ गृह्य इमं मन्त्रमुदाहरेत् ।। २१ ।।
त्यक्त्वा वै कृषिगोरक्षावाणिज्यक्रयविक्रयम् ।।
लब्धा च त्वत्प्रसादेन विष्णुदीक्षा मयाऽधुना ।। २२ ।।
देवाभिवादनं कृत्वा पुरो भागवतेषु च ।।
पश्चात्तु भोजनं दद्यादपराधबहिष्कृतम् ।। २३ ।।
एवं दीक्षा तु वैश्यानां मम मार्गानुसारिणाम् ।।
येन मुच्यन्ति सुश्रोणि घोरसंसारसागरात् ।। २४ ।।
शूद्रस्यापि प्रवक्ष्यामि मद्भक्तस्य वराङ्गने ।।
यस्तु दीक्षां समासाद्य मुच्यते सर्वकिल्बिषैः ।।२५।।।
सर्वसंस्कारद्रव्याणि मया पूर्वोदितानि च ।।
दीक्षाकामस्य शूद्रस्य शीघ्रं तानि प्रकल्पयेत् ।। २६ ।।
अष्टहस्तां ततो देवि सँल्लिप्य नीयतां ततः ।।
चर्म नीलस्य छागस्य कल्पयेच्छूद्रयोनये ।। २७ ।
दण्डं च वैष्णवं दद्यान्नीलं वस्त्रं च तस्य वै ।।
एवं गृहीत्वा शूद्रोऽपि दीक्षायाः कारणं परम् ।। २८ ।।
ममैव शरणं गत्वा इमं मन्त्रमुदाहरेत् ।।
मन्त्रः –
शूद्रोऽहं शूद्रकर्माणि मुक्त्वाऽभक्ष्यं च सर्वशः ।। २०3 ।।
भक्ष्याभक्ष्यं ततस्त्यक्त्वा त्यक्त्वा वै शूद्रकर्म च ।।
एवं वदेत्ततो देवं शूद्रो दीक्षाभिकांक्षिणम् ।। 128.३० ।।
विमुक्तः सर्वपापेभ्यो लब्धसंज्ञो गतस्पृहः ।।
उभौ तौ चरणौ गृह्य गुरोर्वै तदनन्तरम् ।। ३१ ।।
गुरोः प्रसादनार्थाय इमं मन्त्रमुदाहरेत् । ३२ ।
मन्त्रः –
विष्णुप्रसादे गुह्यं प्रसन्नात्पूर्ववच्च लब्धा चैव संसारमोक्षणाय करोमि कर्म प्रसीद ।। ३३ ।।
एतन्मन्त्रं समुच्चार्य कुर्यात्तत्र प्रदक्षिणम् ।।
चतुरश्च यथान्यायं पुनश्चैवाभिवादयेत् ।। ।। ३४ ।।
अनन्तरं ततः कुर्याद्गन्धमाल्येन चार्चनम् ।।
भोजयेच्च यथान्यायमपराधविवर्ज्जितः ।। ३५ ।।
दीक्षा एषा च शूद्राणामुपचारश्च ईदृशः ।।
चतुर्णामपि वर्णानां दुःखसंसारमोक्षणम् ।। ३६ ।।
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ।।
चतुर्णामपि वर्णानां यथा छत्रं प्रदीयते ।। ३७ ।।
ब्राह्मणे पाण्डुरं छत्रं क्षत्रिये रक्तमेव च ।।
वैश्याय पीतं वै दद्यान्नीलं शूद्राय दापयेत् ।। ३८ ।।
सूत उवाच ।।
चातुर्वर्ण्यस्य श्रुत्वा वै सा मही संशितव्रता ।।
वराहं पुनरप्याह नत्वा सा धरणी तदा ।। ३९ ।।
धरोवाच ।।
श्रुता दीक्षा यथान्यायं चातुर्वर्ण्यस्य केशव ।।
दीक्षितैः किं नु कर्त्तव्यं तव कर्मपरायणैः ।। 128.४० ।।
ततो महीवचः श्रुत्वा मेघदुन्दुभिनिःस्वनः ।।
वराहरूपी भगवानुवाच स महाद्युतिः ।। ४१ ।।
श्रीवराह उवाच ।।
शृणु तत्त्वेन कल्याणि यन्मां त्वं परिपृच्छसि ।।
सर्वत्र चिन्तनीयोऽहं गुह्यमेव गणान्तिकम् ।। ४२ ।।
नारायणवचः श्रुत्वा धरणी शंसितव्रता ।।
हृष्टतुष्टमनास्तत्र श्रुत्वा तच्च महौजसम् ।। ४३ ।।
शुचिर्भागवतश्रेष्ठा तव कर्मणि नित्यशः ।।
ततः कमलपत्राक्षी भक्ता भक्तेषु वत्सला ।। ४४ ।।
कराभ्यामञ्जलिं कृत्वा नारायणमथाब्रवीत् ।। ४५ ।।
धरण्युवाच ।।
त्वद्भक्तेन महाभाग विधिना दीक्षितेन च ।।
तव चिन्तापरेणात्र किं कर्त्तव्यं च माधव ।। ४६।।
केन चिन्तयितव्यस्त्वमचिन्त्यो मानुषैः परः ।।
किंच भागवतैः कार्यं यथावित्तं न शक्यते ।।४७।।
ततो भूम्या वचः श्रुत्वा आदिरव्यक्तसम्भवः ।।
मधुरं स्वरमादाय प्रत्युवाच वसुन्धराम् ।। ४८ ।।
श्रीवराह उवाच ।।
देवि तत्त्वेन वक्ष्यामि यन्मां त्वं परिपृच्छसि।।
येन चिन्तयसे चिन्तां मम कर्मपरायणा ।। ४९ ।।
एषा गणान्तिका नाम दीक्षाऽङ्गबीजनिःसृता ।।
एतद्गुह्यां महाभागे मम चिन्तां विचिन्तयेत् ।। 128.५० ।।
दीक्षितेन तु शुद्धेन मम निश्चितकर्मणा ।।
गृहीतव्यं विशालाक्षि मन्त्रेण विधिनात्र वै ।। ५१ ।।
यस्तु भागवतो भूत्वा तद्गृह्णाति गणान्तिकाम् ।।
जनस्य दर्शनस्पर्शसंयुक्तां वामसंयुताम् ।। ५२ ।।
तस्य धर्मो न विद्येत दीक्षा तस्य महाफला ।।
यस्तु गृह्णाति सुश्रोणि मन्त्रपूतां गणान्तिकाम् ।। ५३ ।।
आसुरी नाम सा दीक्षा यया धर्मः प्रवर्त्तते ।।
यस्माद्गणान्तिकां गुह्यां चिन्तयेच्छुद्धमानसः ।। ५४ ।।
गुह्यां गणान्तिकां यो मां चिन्तयेत्स बुधोत्तमः ।।
जन्मान्तरसहस्राणि चिन्तिता तेन तेन सः ।। ५५ ।।
ग्रहणस्य प्रवक्ष्यामि यथा शिष्याय दीयते ।।
मन्त्रं लोकसुखार्थाय तच्छृणुष्व वसुन्धरे ।। ५६ ।।
कौमुदस्य तु मासस्य मार्गशीर्षस्य वाप्यथ ।। ।
वैशाखस्यापि मासस्य शुक्लपक्षे तु द्वादशी ।। ५७ ।।
कुर्यान्निरामिषं तत्र दिनानि त्रीणि निश्चितः ।।
तस्मिन्गणान्तिकं ग्राह्यं मम धर्मविनिश्चयात् ।। ५८ ।।
ममाग्रतो वरारोहे प्रज्वाल्य च हुताशनम् ।।
कुशैरास्तरणं कृत्वा स्थापयित्वा गणान्तिकम् ।। ५९ ।।
ततः शिष्यो गुरुश्चैव दीक्षितः शुचिरुत्तमः ।।
नमो नारायणेत्युक्त्वा इमं मन्त्रमुदीरयेत् ।। 128.६० ।।
मन्त्रः –
या धारिता पूर्वपितामहेन ब्रह्मण्यदेवेन भवोद्भवेन ।।
नारायणाद्दक्षिणगात्रजातां हे शिष्य गृह्णीष्व स वै त्वमेव ।। ६१ ।।
तत एतेन मन्त्रेण गुरुर्गृह्य गणान्तिकम् ।।
शिष्याय दत्त्वा स्निग्धाय इमं मन्त्रमुदीरयेत् ।। ६२ ।।
मन्त्रः –
नारायणस्य दक्षिणगात्रजातां स्वशिष्य गृह्णीष्व समयेन देवीम् ।।
एतद्विचिन्त्यापर एव भूत्वा भवे पुनर्भावनमेति नैव ।। ६३ ।।
धरण्युवाच ।।
स्नानोपकल्पनान्तेषु किं कर्त्तव्यं नु माधव ।।
प्रसाधनविधिं चैव केन मन्त्रेण कल्पयेत् ।। ६९४ ।।
अकर्मण्येन मुच्येत तव कर्मपरायणः ।।
ततो भूम्या वचः श्रुत्वा लोकनाथो जनार्द्दनः ।। ६५ ।।
धर्मसंयुक्तवाक्येन प्रत्युवाच वसुन्धराम् ।। ६६ ।।
श्रीवराह उवाच ।।
देवि तत्त्वेन वक्ष्यामि यन्मां त्वं परिपृच्छसि ।।
स्नानस्यैवोपचाराणि यानि कुर्वन्ति कर्म्मिणः ।। ६७ ।।
वृत्तेष्वेवोपचारेषु जलप्राधानिकेषु च ।।
कङ्कतीं चाञ्जनं चैव दर्पणं चैव सुन्दरि ।। ६८ ।।
यथा मन्त्रेण दातव्यं तच्छृणुष्व वसुन्धरे ।।
स्पृष्ट्वा तु मम गात्राणि क्षौमवस्त्रेण संवृतः ।। ६९ ।।
अञ्जनं कङ्कतीं चैव शीघ्रमेव प्रसादयेत् ।।
ततो जानुस्थितो भूत्वा मम कर्मपरायणः ।। 128.७० ।।
अञ्जलौ कङ्कतीं गृह्य इमं मन्त्रमुदाहरेत् ।।७१ ।।
मन्त्रः –
एतां कङ्कतीमञ्जलिस्थां प्रगृह्य प्रसीद नारायण शिरः प्रसाधि हि ।। ७२ ।।
महानुभाव विश्वनेत्रे स्वनेत्रे याभ्यां पश्यसे त्वं त्रिलोकीम् ।।
लोकप्रभो सर्वलोकप्रधान एषो जनमञ्जनं लोकनाथ ।। ७३ ।।
ततः संस्नापयेद्देवं मन्त्रेणानेन सुव्रतम् ।। ७४ ।।
मन्त्रः –
देवदेव स्नानीयमिदं मम कल्पितं सुवर्णकलशं गृहाण प्रसीद एषोऽञ्जलिर्मया परिकल्पितः स्नाहि स्नाहीति ।। ७५ ।।
नमो नारायणेत्युक्त्वा इमं मन्त्रमुदीरयेत् ।। ७६।।
मन्त्रः –
एषा मया माधव त्वत्प्रसादाद्गुरुप्रसादाच्च हि मन्त्रपूजा ।।
प्राप्ता ममैषा वै गणान्तिका च भवेदधर्मो न च मे कदाचित ।। ७४ ।।
य एतेन विधानेन मम कर्मणि दीक्षितः ।।
गुरोर्गृहीत्वा महतो मम लोकाय गच्छति ।।
कुशिष्याय न दातव्या पिशुनाय शठाय च ।। ७८ ।।
एषा चैव वरारोहे गृहीत्वा गणनान्तिका ।।
सुशिष्याय च दातव्या हस्ते चैव गणान्तिका ।।७९।।
उत्तमाष्टाधिकशतं पंचाशत्तुर्यमध्यमा ।।
तदर्द्धं स्यात्कनिष्ठापि परिमाणेन सुन्दरि ।।128.८०।।
रुद्राक्षैरुत्तमा सा तु मध्यमा पुत्रजीवकैः ।।
ज्ञेया कनिष्ठा पद्माक्षैर्देवि ते कथिता मया ।। ८१ ।।
एतत्कश्चिन्न जानाति जन्मान्तरशतैरपि ।।
सर्वलोकहितां शुद्धां मोक्षकामां गणान्तिकाम् ।। ८२ ।।
नोच्छिष्टः संस्पृशेत्तां तु स्त्रीणां हस्ते न कारयेत् ।।
आकाशे स्थापनं कुर्यान्न च वामेन संस्पृशेत् ।। ८३ ।।
न दर्शयेच्च कस्यापि चिन्तयित्वा तु पूजयेत् ।।
एतत्ते परमं गुह्यमाख्यातं मोक्षदायकम् ।। ८४ ।।
एवं हि विधिपूर्वेण पालयेत गणान्तिकाम् ।।
विशुद्धो मम भक्तश्च मम लोकं स गच्छति ।। ८५ ।।
एवं विष्णोर्वचः श्रुत्वा धरणी संशितव्रता ।।
प्रत्युवाच परं श्रेष्ठं लोकनाथं महौजसम् ।। ८६ ।।
दर्पणं ते कथं देयं तन्ममाख्याहि माधव ।।
येन तुष्टो निजं रूपं पश्यसे चिन्तितः प्रभो ।। ८७ ।।
धरण्यास्तद्वचः श्रुत्वा वराहः पुनरब्रवीत् ।।
शृणु मे दर्पणविधिं यथावद्देवि सुव्रते ।।८८।।
नमो नारायणेत्युक्त्वा इमं मन्त्रमुदीरयेत् ।। ८९ ।।
मन्त्रः –
श्रुतिर्भागवती श्रेष्ठा श्रुती अग्निद्विजश्च तव मुखं नासेऽश्विनौ नयने चन्द्रसूर्यौ मुखं च चन्द्र इव गात्राणि जगत्प्रधानानीमं च दर्पणं पश्य पश्य रूपम् ।। 128.९० ।।
य एतेन विधानेन मम कर्मपरायणः ।।
करोति मम कर्माणि तारितं कुलसप्तकम् ।। ९१ ।।
एतेन मन्त्रेण वै भूमे उपचारस्तु ईदृशः।।
हृष्टतुष्टेन कर्त्तव्यो यदीच्छेत्परमां गतिम् ।।९२।।
इति श्रीवराहपुराणे कङ्कताञ्जनदर्पणनाम अष्टाविंशत्यधिकशततमोऽध्यायः ।।१२८।।