← अध्यायः १२८ वराहपुराणम्
अध्यायः १२९
[[लेखकः :|]]
अध्यायः १३० →

अथ चतुर्वर्णदीक्षा ।।
श्रीवराह उवाच ।।
भूषितालंकृतं कृत्वा मम कर्मपरायणः ।।
शुक्लं यज्ञोपवीतं च देयं नवगुणं तथा।।१।।
शिरसा चाञ्जलिं कृत्वा वसुधा पुनरब्रवीत् ।।
धरण्युवाच ।।
एतन्मां परमं गुह्यं तद्भक्तां वक्तुमर्हसि ।।
सन्ध्यां वै केन मन्त्रेण तव कर्मपरायणाम् ।।
वद भागवतीं शुद्धां तव कर्मविनिश्चिताम् ।।
ततो भूमिवचः श्रुत्वा भूतानां प्रभवोऽव्ययः ।।
वराहरूपो भगवान्प्रत्युवाच वसुन्धराम्।।
श्रीवराह उवाच।।
माधवि तत्त्वेन यन्मां त्वं परिपृच्छसि।।
कथयिष्यामि ते भद्रे प्रवरं गुह्यमुत्तमम् ।।
यथावद्विदितं भूपैः पुण्या भागवताः शुभाः ।।
कृत्वा तु मम कर्माणि शुचिसंसारमोक्षणीम् ।।
कुर्वीतैव परां सन्ध्यां यथावदिति निश्चितम् ।।
जलाञ्जलिं ततो गृह्य मम भक्त्या व्यवस्थितः ।।
मुहूर्तध्यानमास्थाय इमं मन्त्रमुदाहरेत् ।।
मन्त्रः - भवोद्भवमादिव्यक्तरूपमात्रं सर्वे देवा ब्रह्मा रुद्रस्त्वादृक्सममासीद्ध्यानयोगस्थिता ते सन्ध्यासंस्था वासुदेवं नमति वयं देवमादिव्यक्तरूपमात्मसप्तदिवसं तथापि संसारार्थं कर्म तत्करणमेव सन्ध्यासंस्था वासुदेव नमोऽस्तु ते।।
मन्त्राणां परमो मन्त्रस्तपतां परमं तपः ।।
आचारं कुरुते ह्येवं मम लोकं स गच्छति ।।
गुह्यानां परमं गुह्यं रहस्यं परमुत्तमम्।।
य एवं पठते नित्यं न स पापेन लिप्यते।।
नादीक्षिताय दातव्यं नोपवीते कथंचन ।।
दीक्षितायैव दातव्यमुपपन्ने तथैव च ।।
पुनरन्यत्प्रवक्ष्यामि देवि तत्त्वेन मे शृणु ।।
न दीपमपि गृह्णाति दत्तं भागवतैः शुभैः।।
कृत्वा तु मम कर्माणि गृह्य दीपकमुत्तमम् ।।
जानुसंस्थां ततः कृत्वा इमं मन्त्रमुदीरयेत।।
मन्त्रः –
ॐ नमो भगवतेऽनुग्रह तेजसे विष्णो सर्वदेवास्त्वाग्निसंस्थाः प्रविष्टा एवं चाग्निस्तव तेजसा भविष्यति स्वतेजसा मामाशु मन्त्रस्य तेजसा संसारार्थं देव गृह्यं दीपकं मन्त्रं मूर्त्तिमन्त्रं श्वो भूत्वा इमं कर्म निष्फलम् ।।
तत्करोति यथान्याय्यं दीपकं ददते नरः ।।
तारिताः पितरस्तेन निष्कलाश्च पितामहाः ।।)
गन्धेन तिलकं दद्याल्ललाटे मम सुन्दरि ।।
अन्यच्च ते प्रवक्ष्यामि कर्म लोकसुखावहम् ।। २।।
येन मन्त्रेण दातव्यं ललाटे तिलकं मम ।। ३ ।।
मन्त्रः –
मुखमण्डनं चिन्तया वासुदेव त्वया प्रयुक्तं च मयोपनीतम् ।।
एतेन चित्रं कुरु वासुदेव मम चैवं कुरु संसारमोक्षम् ।। ४ ।।
एतेन मन्त्रेण चित्रकं मे दद्याल्ललाटे तिलकं धरित्रि ।।
ततः सुमनसो गृह्य इमं मन्त्रमुदाहरेत् ।। ५ ।।
मन्त्रः –
इमाः सुमनसः सौमनस्याय भगवन् सर्वं सुमनसं कुरु त्वयैते सौमनस्याय निर्मिता गृहीताः स्वाहा ।। ६ ।।
एवं सुमनसो दत्त्वा धूपं चैव निवेदयेत् ।।
ततो गृहीत्वा धूपं तु सुगन्धं सुमनोहरम् ।। ७ ।।
नमो नारायणेत्युक्त्वा इमं मन्त्रमुदीरयेत् ।।
मन्त्रः –
सुगन्धानि तवाङ्गानि स्वभावेनैव केशव ।। ८ ।।
अमुना चैव धूपेन धूपितानि तवाऽनघ ।।
तवाङ्गानां सुगन्धेन सर्वं सौगन्धिकं कुरु ।। ९ ।।
गृहाणेमं च मे धूपं सर्वसंसारमोक्षणम् ।।
पुनरन्यत्प्रवक्ष्यामि यथा दीपं निवेदयेत् ।। 129.१० ।।
यथावृत्तं तु गृह्णामि मम भक्तैः सुखावहम् ।।
कृत्वा तु मम कर्माणि गृह्य दीपमनुत्तमम् ।। ११ ।।
जानुसंस्थं ततः कृत्वा इमं मन्त्रमुदीरयेत् ।। १२ ।।
मन्त्रः –
नमो भगवते तेजते विष्णो सर्वे देवास्त्वग्निसंस्थाः प्रतिष्ठा ।।
एवं चाग्निस्तव तेजसा प्रतिष्ठितो तेजश्चात्मा स्वयमेव ।। १३ ।।
मन्त्रश्च –
तेजः संसारान्मोचयितुं देव गृह्णीष्व दीपं द्युतिमन्तश्च ।।
मूर्तिश्च भूत्वा इदं कर्म निष्कलम् ।। १४ ।।
मां करोति यथान्यायं दीपकं ददते नरः ।।
तारिताः पितरस्तेन निष्कलाश्च पितामहाः ।। १५ ।।
नारायणवचः श्रुत्वा विस्मिता च वसुन्धरा ।।
वराहरूपिणं देवं प्रत्युवाच वसुन्धरा ।। १६ ।।
श्रुता मया भागवतास्तव कर्मपरायणाः ।।
शेषसंश्रवणार्थाय मनो धावति सत्पथे ।। १७ ।।
तव प्रापणकं कृत्यं केषु पात्रेषु कारयेत् ।।
एतदाचक्ष्व तत्त्वेन येन तुष्यति माधव ।। १८ ।।
ततो भूमेर्वचः श्रुत्वा लोकनाथोऽब्रवीदिदम् ।।
शृणु तत्त्वेन मे देवि यानि पात्राणि रोचते ।। १९ ।।
तानि ते कथयिष्यामि त्वया मे पूर्वपृच्छितम् ।।
सौवर्णं राजतं कांस्यं येषु दद्यात्प्रपाणकम् ।। 129.२० ।।
सर्वाणि तानि त्यक्त्वेह ताम्रं च मम रोचते ।।
एतन्नारायणाच्छ्रुत्वा धर्मकामा वसुन्धरा ।। २१ ।।
उवाच मधुरं वाक्यं लोकनाथं जनार्द्दनम् ।।
एतन्मे परमं गुह्यं ताम्रं ते रोचते कथम् ।। २२ ।।
ततो भूमेर्वचः श्रुत्वा अनादिरपराजितः ।।
लोकानां प्रवरः श्रेष्ठः प्रत्युवाच वसुन्धराम् ।। २३ ।।
शृणु तत्त्वेन मे भूमे कथ्यमानं मयाऽनघे ।।
एकाग्रं चित्तमाधाय येन ताम्रं मम प्रियम् ।। २४ ।।
सप्तयुगसहस्राणि आदिकालेऽथ माधवि ।।
यथा ताम्रं समुत्पन्नं यथैव प्रियदर्शनम् ।। २५ ।।
पूर्वं कमलपत्राक्षि गुडाकेशो महासुरः ।।
ताम्ररूपं समादाय ममैवाराधने रतः ।। २६ ।।
तत आराधितस्तेन वर्षाणां तु चतुर्दश ।।
सहस्राणि विशालाक्षि धर्मकामेन निश्चलम् ।। २७ ।।
अहं तु तपसा तुष्टस्तीव्रेण कृतनिश्चयात् ।।
ततस्ताम्रमये रम्ये यत्र ताम्रसमुद्भवः ।।२८।।
दृष्ट्वाश्रमं महादेवि किञ्चिदेव सुभाषितम् ।।
ततो जानुस्थितो भूत्वा मम एष विचिन्तयेत् ।। २९ ।।
चतुर्बाहुं च मां दृष्ट्वा मम कर्मपरायणः ।।
प्रणतः प्राञ्जलिः प्राह शिरो भूमौ निधाप्य सः ।।
तं च दृष्ट्वा मया प्रोक्तं प्रसन्नेनान्तरात्मना ।। 129.३० ।।
गुडाकेश महाभाग ब्रूहि किं करवाणि ते ।।
तोषितोऽस्म्यनया भक्त्या दुराराध्योऽपि सुव्रत ।। ३१ ।।
यत्त्वया चिन्तितं सौम्य कर्मणा मनसा गिरा ।।
वरं ब्रूहि महाभाग तुभ्यं यद्रोचतेऽनघ ।। ३२ ।।
एवं मम वचः श्रुत्वा गुडकेशोऽब्रवीदिदम् ।।
कराभ्यामञ्जलिं कृत्वा विशुद्धेनान्तरात्मना ।। ३३ ।।
यदि तुष्टोऽसि मे देव समस्तेनान्तरात्मना ।।
जन्मनां तु सहस्रणि त्वयि भक्तिर्दृढाऽस्तु मे ।। ३४ ।।
चक्रेण वधमिच्छामि त्वया मुक्तेन केशव ।। ३५ ।।
चकेण पातितस्यैतद्वसामांसानि किं चन ।।
ताम्रं नाम भवेदेव पवित्रीकरणं शुभम् ।। ३६ ।।
तेन पात्रं ततः कृत्वा शुभधर्मविनिश्चितः ।।
तस्मिन्प्रापणकं कृत्वा शुद्धे वै ताम्रभाजने ।। ३७ ।।
निवेदिते परा प्रीतिर्भवत्वेतन्मनोगतम् ।।
प्रसन्नो यदि मे देव ह्येष मे दीयतां वरः ।। ३८ ।।
यच्चिन्तितोऽसि देवेश उग्रे तपति तिष्ठता ।।
बाढमित्येव सोऽप्युक्तो यावल्लोकस्थितिर्मया ।। ३९ ।।
तावत्ताम्रस्थितो भूत्वा मम संस्थो भविष्यसि ।।
ततः प्रभृति ताम्रात्मा गुडाकेशो व्यवस्थितः ।। 129.४० ।।
तत्ताम्रभाजने मह्यं दीयते यत्सुपुष्कलम् ।।
अतुला तेन मे प्रीतिर्भूमे जानीहि सुव्रते ।। ४१ ।।
मङ्गल्यं च पवित्रं च ताम्रं तेन प्रियं मम ।।
त्वं च द्रक्ष्यसि तच्चक्रं मध्यसंस्थे दिवाकरे ।। ४२ ।।
वैशाखस्य तु मासस्य शुक्लपक्षे तु द्वादशी ।।
मम तेजोमयं चक्रं त्वां वधिष्यत्यसंशयम् ।। ४३ ।।
एष्यसे मम लोकाय एवमेतन्न संशयः ।।
एवमुक्त्वा गुडाकेशं तत्रैवान्तर्हितोऽभवम् ।। ४४ ।।
चक्राद्वधमभीप्सन्वै सोऽपि मत्कर्मणि स्थितः ।।
दिने दिने विशिष्टं तु शुभं कुर्वंस्तपस्यति ।। ४६ ।।
विष्णुसंस्थो भविष्यामि कदाहमिति चिन्तयन्।।
एवं स्थितस्य तस्याथ वैशाखस्य तु द्वादशी ।। ४६ ।।
शुक्लपक्षस्य सम्प्राप्ता तस्यां धर्मविनिश्चितः ।।
विष्णुपूजां ततः कृत्वा प्रार्थयामास मां प्रतिं ।। ४७ ।।
मुञ्च मुञ्च प्रभो चक्रमपि वह्निसमप्रभम् ।।
आत्मा मे नीयतां शीघ्रं निकृत्त्याङ्गानि सर्वशः ।। ४८ ।।
तदैव चक्रेण विपाटितोऽसौ प्राप्तोऽपि मां भागवतप्रधानः ।।
ताम्रं तु तन्मांसमसृक् सुवर्णमस्थीनि रूप्यं बहुधातवश्च ।।
रङ्गं च सीसं त्रपुधातुसंस्थं कांस्यं च रीतिश्च मलस्तु तेषाम् ।।४९ ।।
ताम्रपात्रेण वै भूमे प्रापणं यत्प्रदीयते ।।
सिक्थे सिक्थे फलं तस्य शृणुष्व गदतो मम ।। 129.५० ।।
एतद्भागवतैः कार्यं मम प्रियकरैः सदा ।।
एवं ताम्रं समुत्पन्नमिति मे रोचते हि तत् ।। ५१ ।।
दीक्षितैर्वै भागवतैः पाद्यार्घ्यादौ च दीयते ।।
एवं दीक्षाविधिः प्रोक्त एवं ताम्रसमुद्भवः ।। ५२ ।।
देवि तत्त्वेन कथितः किमन्यत् परिपृच्छसि ।।
भूमिरुवाच ।।
देवदेव कथं सन्ध्यां दीक्षितः कुरुते वद ।। ५३ ।।
केन मन्त्रेण वा भक्तस्तव कर्मपरायणः ।।
श्रीवराह उवाच ।।
शृणु माधवि तत्त्वेन सन्ध्यामन्त्रमनुत्तमम् ।। ५४ ।।
यथा वदन्ति वै सूर्यं सन्ध्यां पूर्वां परां तथा ।।
जलाञ्जलिं गृहीत्वा तु मम भक्त्या व्यवस्थितः ।। ५५ ।।
मुहूर्त्तं ध्यानमास्थाय इमं मन्त्रमुदीरयेत् ।।
सिक्थानि तत्र यावन्ति ताम्रप्रापणके धरे ।। ५६ ।।
तावद्वर्षसहस्राणि मम लोके स मोदते ।। ५७।।
मन्त्रः –
भवोद्भवमादिव्यक्तरूपमादित्यं सर्वे देवा ब्रह्मरुद्रेन्द्रास्त्वां च ।।
कृष्णे यथासीद्ध्यानयोगस्थितास्ते सन्ध्यासंस्था वासुदेवं नमन्ति ।। ५८ ।।
वयं देवमादिमव्यक्तरूपं कृत्वा चात्मनि देव संस्थास्तथापि ।।
संसारार्थं कर्म तत्करणमेव सन्ध्यासंस्था वासुदेव नमो नमः ।। ५९ ।।
अनेनैव हि मन्त्रेण सन्ध्यां कुर्यात्तु दीक्षितः ।। 129.६० ।।
इति श्रीवराहपुराणे चतुर्वर्णदीक्षाताम्रवर्णनं नामोनत्रिंशदधिकशततमोऽध्यायः ।। १२९ ।।